________________
१६८
· व्यवहार-छेदसूत्रम्-२-६/१४९ - वृ-चोदको भणति-यदि एवं कुलादिकार्यनिमित्तमाचार्यस्य निर्गमनंततो निर्गमने सति प्रत्यागतो यदिवसतेर्बहिः सागारिकस्ततो तावदहिस्तिष्ठतु, यावच्चलसागारिको व्युत्क्रान्तो भवति, । तत बहिरेव पादान प्रस्फोट्य वसतेरन्तः प्रविशतु, । एवं च सति क्षपकादिदोषाः परित्यक्ता भवन्ति, । आचार्य आह उच्यते-उत्तरं भण्यते । हे चोदक गुरोराचार्यस्य वसतेर्बहिस्तिष्ठत इमे वक्ष्यमाणा बहवो दोषास्तानेवाह[भा.२५२८] तगहुण्हावि अभाविएवुड्डा वा अच्छमाणपुच्छादी |
- विनए गिलाणमादी, साहुसन्नी पडिच्छंती ।। वृ-कुलादिकार्येणनिर्गतेआचार्यउष्णेनाभावितेतृष्णाजायते ।ततस्तृष्णाभिभूतोवसतिमागतो यदि बहिर्वसतेः प्रतीक्षते यावत्सागरिकोऽपगच्छति । तावत्तृष्णया उष्णेन आदिशब्दादनागाढागाढपरितापनापरिग्रहः पीडिते मूर्छा जायते आदिशब्दात् वसतिं प्रविष्टः सन् प्रचुरं पानीयमापिबतस्ततो भक्ताजीर्णतया ग्लानत्वं भवेदित्यादि परिग्रहस्तथा वृद्धा उपलक्षणमेतत् । बालशैक्षाऽसहादयश्चाचार्येतिष्ठतिप्रीतक्ष्यन्तेतेचप्रतीक्ष्यमाणाः प्रथमद्वितीयपरीषहाभ्यांपीडितामूर्छाद्याप्नुवन्ति तथा ग्लानाआदिशब्दात् क्षपकादिपरिहग्रहस्ते विनयेन प्रतीक्षमाणाः भोजन मकुर्वन्त औषधादिकंच गुरुणा विनाअलभमानागाढतरंग्लात्वाद्याप्नुवन्ति । यथा साधवः केचित् प्राघूर्णका गन्तुमनसः तथा संज्ञिनः श्रावका अष्टम्यादिषु कृताभक्ताः पारणके भिक्षायामदत्तायां अपारयन्त आचार्यां प्रतीक्ष्यमाणास्तिष्ठन्ति । तत्र साधूनां दिवसो गरीयान् चटति तत्र चोष्णादि परितापनादोषः, संज्ञिनां चान्तरायमित्येष गाथासंक्षेपार्थः । साम्प्रतमेनामेव विवरीषुःप्रथमतः तण्हुण्हादि भाविए इति । [भा.२५२९] तिण्हुण्हभावियस्स पडिस्समाणस्सपुच्छमादीया ।
खद्दादियणगिलाणेसुत्तत्थविराहधनाचेव ।। वृ-आचार्य:स्वरूपत उष्णेनाभावितः क्वचित् प्रयोजनवशतो वहिर्निर्गमनात्ततः कुलादिकार्येषु निर्गतस्तृष्णाभिभूतो वसतिमागतोऽपि यदि सागारिकमपगच्छन्तं यावत्प्रतीक्षते, ततः प्रतीक्षमाणस्य तृष्णया उष्णेन चतापितस्य मूर्छादयो भवन्ति ।आदिशब्दादागाढादिपरितापनापरिग्रहस्तथा वसतिं प्रविष्टेऽतीवतृष्णाभिभूतःखद्दस्य चतुरस्य पानीयस्यादानंग्रहणंकुर्यात्, ।प्रचुरंपानीयं पिबेदित्यर्थः । ततो भक्ताणतया ग्लानो भवेत्, तस्मिंश्च ग्लाने सूत्रार्थपरिहानिर्विराधना च तस्याचार्यस्य स्यात् । म्लानत्वेनाचार्यो म्रियेतेतिभावः, अथवा सूत्रार्थपरिहान्याअजानतांसाधूनांज्ञानादिविराधनास्यात्,। सूत्रार्थाभावतोऽजानन्तःसाधवाज्ञानादिविराधनांकुर्युरितिभावः । अधुनावुड्डावेतिव्याख्यानार्थमाह[भा.२५३०] वुड्डासाहुसेहादीखमगोवा पारणंमिभुक्खुत्तो।
अच्छइपडिच्छमाणो, न भुंजण लोइयमदिटुं ।। वृ- वृद्धा वयोवृद्धा असहाः प्रथमद्वितीयपरीषहान साढुमसमस्तिथा शैक्षका आदिशब्दात ग्लानाश्चाचार्य प्रतीक्षमाणास्तिष्ठन्ति,तेचतथा तिष्ठन्तस्तृडादिभिः पीडिता मूर्छाद्याप्नुवन्तिग्लानस्य च गाढतरं ग्लानत्वमुपजायते, । यदि पुनरागतमात्र एव वसतौ प्रविशति, ततो यथायोगं वृद्धादिनामकालहीनं सम्पाद्यते इति, न कश्चिद्दोषः । अधुना विनये गिलाणादी इत्येतद्वयाख्यानयतिखमगो वा इत्यादि क्षपको वा कोऽपि विकृष्टेन तपसा क्लान्तो विनयेन पारणके बुभुक्षार्तः प्रतिक्ष्यमाणस्तिष्ठति ।नपुनर्भुक्तेअद्यापिनालोचितमाचार्येणचन दृष्टमितिकृत्वा ।
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org