________________
व्यवहार - छेदसूत्रम् - २६ / १४९ धूलिर्लगतीत्येवंरूपया प्रस्फोटयितव्याः । एष द्वारगाथासंक्षेपार्थः साम्प्रतमेनामेव विवरीषुरिदमाह[भा. २५१९] बाहिं अपमज्जते पणगं गणिणो उसेस मासो । अप्पडिलेहदुपेहा पुव्वत्ता सत्तभंगा उ ।।
"
वृ- आचार्यः कुलादिकार्येण निर्गतः प्रत्यागत उत्सर्गेण तावद्वसतेर्बहिरेव पादान् प्रस्फोटयति प्रत्युप्रेक्षते प्रमार्जयति चेत्यर्थः । यदि पुनर्निष्कारणं बहिः पादान् न स्फोटयति, तदा बहिरप्रमार्जने गणिन आचार्यस्य प्रायश्चित्तं पञ्चकं शेषकेसाधौ बहिः पादान् (अ) प्रमार्जयतिलघुको मासः प्रायश्चित्तं, तस्मात् बहिः पादान् प्रस्फोटयान्तः प्रस्फोटयान्तः प्रवेष्टव्यं । तच्च प्रस्फोटनं विधिना कर्त्तव्यं । स चायं विधिः प्रत्युपेक्षते ततः प्रमार्जयति । अविधिः पुनरयं न प्रत्युपेक्षते न प्रमार्जयति ? न प्रत्युपेक्षते प्रमार्जयति २ प्रत्युपेक्षते न प्रमार्जयति ३ प्रत्युपेक्षते प्रमार्जयति ३ प्रत्युपेक्षते प्रमार्जयति च ४ । अत्राद्येषु त्रिषु भङ्गेषु प्रत्येकं प्रायश्चित्तं मासिकं चतुर्थे भङ्गे भङ्गाश्चत्वारस्तद्यथा दुःप्रत्युपेक्षते दुःप्रमार्जयति १, दुः प्रत्युपेक्षते सुप्रमार्जयति २, सुप्रत्युपेक्षते दुःप्रमार्जयति ३, सुप्रत्युपेक्षते सुप्रमार्जयति ४ । अत्र च चतुर्थोभङ्गः शुद्धः शेषेपुत्रिषुभङ्गेषु प्रत्येकं प्रायश्चित्तं पञ्चरात्रिंदिवं । एतदेवाहअप्रेक्षणे उपलक्षणमेतत् । अप्रमार्जने च तथा दुःप्रेक्षायामत्राप्युपलक्षणव्याख्यानमिति दुःप्रमार्जनायां च पूर्वोक्ताः कल्पाध्ययनोक्ताः सप्त भङ्गाः । तत्र चोक्तः प्रायश्चित्तविधिः
[भा. २५२० ]
बहिअंतो विवज्जासो पनगं सागारिए असंतंमि । सागारियंमि उचले, अच्छंति मुहुत्तगं थेरा ।।
वृ- यदि सागारिके अथ सागारिको बहिस्तिष्ठति सोऽपि चलश्चलो नाम मुहूर्तमात्रेण गन्ता तस्मिन् सागारिके चले तिष्ठति मुहूर्तकमल्पार्थे कप्रत्ययोऽल्पं मुहूर्तं । किमुक्तं भवति ? सप्ततालमात्रं सप्तपदातिक्रमणमात्रं वा कालं स्थविरास्तिष्ठन्ति ।
१६६
[भा. २५२१] थिरवक्खित्ते सागारिए अनुवउत्तो पमजिउं पविसे । निव्विक्खित्तुवउत्ते अंतो उ पमज्जणा ताहे ।।
- स्थिरो नाम यस्तत्रावस्थायी ध्रुवकर्मिको व्याक्षिप्तः कर्मणि कर्तव्ये व्याकुलस्तद्विपरीतोऽव्याक्षिप्तः उपयुक्त आचार्यान् दृष्ट्या निरीक्षमाणस्तद्विपरीतोऽनुपयुक्तः । तत्र स्थिरे व्याक्षिप्तेऽनुपयुक्ते सागारिके विद्यमाने बहिः पादान् प्रमार्ज्य प्रविशेत्, स्थिरेनिर्व्याक्षिप्ते उपयुक्तेः बहिः सागारिके सति वसतरेन्तः प्रमार्जना पादानां । अथाचार्यस्य पादाः किं स्वयमेवाचार्येण प्रस्फोटयितव्या उतान्येन साधुना तत आह
[भा. २५२२]
अभिगाहियस्स असती तस्सेव रओहरेन अन्नयरे । पाउंछणुन्निए नव पुस्संतिय अनन्नभुत्तेणं ।।
वृ- केनापि साधुना अभिग्रहो गृहीतो वर्तते । यथा मया आचार्यस्य बहिर्निर्गतस्य प्रत्यागतस्य पादाः प्रस्फोटमितव्या इति, यद्यस्ति तर्हि तेन प्रमार्जनायोपस्थातव्यम् तत्र चाचार्येणात्मीयं रजोहरणं तस्य समर्पयितव्यं पादप्रमार्जनाय, ततः स आभिग्रहिकस्तेनाचार्यसक्तेन रजोहरणेन आचार्यस्य पादान् प्रमार्जयति, । अथवा यदन्यदौर्णिकं पादप्रोञ्छनकमन्येन साधुना पादप्रमार्जनेनापरिभुकतं तेनाचार्यस्य पादान्प्रस्फोटयति । अथाभिग्रहिको न विद्यते । तत आभिग्रहिकस्यासत्यभावे अन्यतरस्तस्यैवाचार्यस्य रजोहरणेन औकिन वा पादप्रोञ्छनकेनानन्यभुक्तेन पादान् पुंसयति । यदि पुनव्यापृता अपि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org