________________
उद्देशकः-६, मूल - १४९, [भा. २५१४]
१६५ उवज्झाए अंतोउवस्स यस्स एगरायं वा दुरायं वा वसमाणे नो अइक्कमइ आयरिय उवज्झाए बाहि उवस्सयस्स एगरायंवादुरायंवा वसमाणे नो अइक्कमइ । [भा.२५१५] अतिसेसियदव्वठा नायविधिवयतिबहुसुतो ।
नेगायअतिसया बहुसुयस्स उएसो उपस्सेसो ।। वृ- अतिशेषितानामतिशयितानां ग्लानप्रायोग्याणां शतपाकादीनां द्रव्याणामर्थाय बहुश्रुतः सन् ज्ञातविधिं व्रजति इति पूर्वसूत्रे प्रतिपादितमस्मिंश्च सूत्रे बहुश्रुतस्य सतो अनेके अतिशया इति प्रतिपाद्यमित्येष सूत्रस्य प्रश्लेषसम्बन्धः प्रकारान्तरेणसम्बन्धमाह[भा.२५१६] अन्नो वि अस्थिजोगो असाहुदिठीहिंहीरमाननं ।
वायादतिसयजुत्ता, तहियं गंतुंनियत्तंति ।। वृ- अन्योऽपि पूर्वसूत्रेण सहास्य सूत्रस्य योगः सम्बन्धोऽस्ति तमेवाह-असाधुदृष्टिभिः परतीर्थिकदृष्टिभिः ह्रियमाणानां स्वजनानां वादाद्यतिशययुक्तास्तत्र ज्ञातविधिस्थाने गत्वा ते कुदृष्टयस्तेषां निवर्तयन्ति । इति प्रागुक्तं वुगाहे भिच्छुक्कमादी इति वचनात् ते चातिशयाऽत्रापि प्रतिपाद्यन्ते इतिभवति सम्बधः पुनः प्रकारान्तरेणाह[भा.२५१७] पुनरविभणइजोगो, नायविधिं गंतुपडिनियत्तस्स ।
वसहिं विसतोसुत्तंसंसाहिउमागते वा वि ।। वृ-पुनरपि प्रकारान्तरेण भण्यते-योगो ज्ञातविधिं वन्दापनाय गत्वा प्रतिनिवृत्तस्य परतीर्थिकं वा वादोपस्थितं संसाध्य निर्जित्यागतस्य वसतिं विशतोऽधिककृतं सूवमुपतिष्ठते । अधिकृतसूत्रार्थ उपढौकते तत एतदर्थं ज्ञातविधिसूनन्तरमस्य सूत्रस्योपनिपातः कृतः, एभिः सम्बन्धैरायातस्यास्य व्याख्या-आचार्यश्च उपाध्यायश्च आचार्योपाध्यायः स हि केषांचिदाचार्यः केषांचिदुपाध्यायः तत एवमुक्तंयावतापुनःसनियमादाचार्यएवतस्यगणेगणमध्येपञ्चअतिशेषाअतिशयाः प्रज्ञप्तास्तद्यथाआचार्योपाध्यायानांउपाश्रयस्यान्तर्मध्ये पादान् निगृह्य निगह्य तथा पादायतनया प्रस्फोटयितव्याः । यथाधूलिः कस्यापिक्षपकादेर्नलगति । एवं शिक्षयित्वा शिक्षयित्वप्रस्फोटयतःप्रस्फोटकोनातिक्रमति। एष एकोऽतिशयः । तथाआचार्योपाध्यायान् उपाश्रयस्यान्तरुच्चारंप्रश्रवणंवा विगिश्चयतोव्युत्सृजतो विशोधक उच्चारादिपरिष्टापको नातिक्रामति । एष द्वितीयस्तथा आचार्योपाध्यायः प्रचुरतो वैयावृत्त्यामिच्छया कारयेत् । न बलाभियोगत आणा बलाभियोगा निगंथाणं न कप्पए काउमिति वचनात् । एषतृतीयस्तथाचायोपाध्याय उपाश्यस्यान्तर्मध्ये एकरात्रंवाद्विरात्रंवावसन् नातिक्रामति । नातिचारभागभवतिएष चतुर्थः, आचार्योपाध्याय उपाश्रयादहिरेकरात्रंवा वसन्नानिक्रामति। [भा.२५१८] बहिअंतो विवच्चासो पणगंसागारि चिठइमुहुत्तं ।
बिइयपयं विच्छिणेनिरुद्धवसहीए जयणाए ।। वृ-बहिरन्तश्चयदि विपर्यासोबहिरस्फोट्यांतःप्रस्फोटनरूपस्तदापंचकरात्रिंदिवं प्रायश्चित्तम् अथ बहिः सागारिको वर्तते ततस्तिष्ठति मुहूर्त, व्याख्यानतो विशेषप्रतिपत्तिरंतर्मुहूर्त्तमित्यर्थः, अथैतावत्कालेन सागारिको नापयाति तर्हि द्वितीयपदमपवादपदमाश्रीयते बहिः पादाप्रस्फोटनेऽप्यन्तर्वसतेः प्रविश्यते । तत्र विस्तीर्ण उपाश्रये अपरिभोगे प्रदेशे आचार्यपादाः प्रस्फोटयितव्या, निरुद्धायां संकटायां वसतौ यत्राचार्यसत्कवेण्टकाद्यवकाशस्तत्र यतनया यथा न कस्यापि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org