________________
व्यवहार - छेदसूत्रम् - २६ / १४८ अहवा कसायत्ति ऊ सेवति तिवाएज एक्कतरं । ।
वृ- श्वशुरस्तं दृष्ट्वा कुप्येत यथैतेन मम दुहिता जीवच्छल्पी जाता ततः कोपात्तस्य साधो प्रान्तापणं प्रहारदानं बन्धनं वा निगडादिभिः रोधं वा गृहान्निर्गत्य नगराद्वा अनिर्गमनं कुर्यात् कारयेद्वा तस्यापि च साधोर्निजका आत्मीयास्तमेनामवस्थां प्राप्तं दृष्ट्वा ज्ञात्वा वा क्षुभ्येयुः क्षोभाच् श्वशुराद्यन्यतममतिपातयेत् ।। अत्र प्रायश्चित्तविधिमाह
[भा. २४७०]
१५८
एक्कमि दोसु तीस व मूल नवट्टो तहेव पारंची । अह सो अतिवाइज पावइ पारंचियं ठाणां ।।
वृ- एकस्मिन्नतिपातिते मूलप्रायश्चित्तभाग्भवति । द्वयोरतिपातितयोरनवस्थाप्य स्त्रिष्वतिपातितेषु पाराञ्ची । अथ स एवातिपात्यते साधुस्तर्हि स यदि कथमपि जीवति ततः पाराञ्चितं स्थानं प्राप्नोति । अहवा विधम्मसड्ढा साधू तेसिं घरें न गेण्हंती । उगमदोसा उभया ताहे नीया भांति इमं ।।
[भा. २४७१]
वृ- अथवेति प्रकारान्तरेण दोषकथनोद्योतने साधवो धर्मश्रद्धा उद्गमदोषादिभयात्तेषां गृहेन किमपि गृह्णन्ति । ततस्ते निजाः स्वजना इदं भणन्ति । किं तदित्याह
[भा. २४७२]
अम्हं अनिच्छमाणो आगमने लज्जणं कूणति एसो । उहावाण हिंडती अणे लोगो वणं भणति ।।
बृ- अस्माकं गृहे किमप्यनिच्छन् एष आगमने लज्ञ्जनमयशस्कारं करोति यतोऽस्मिन् प्रतिगृहमन्यत्र भिक्षां हिण्डमानेन महती नूनमस्माकमपभ्राजना लोको वान्य इदं भणति । किं तदित्याहनीयल्लस्स विभत्तं न तरह दाउति तुब्भे किवणत्ति । भुंजसु वृत्तेभणातिनो कप्पियं भुंजे ।।
[ भा. २४७३]
-
वृ- तं साधुं भिक्षामन्तं दृष्ट्वा केचिदन्ये स्वजनान् प्रति ब्रूयुः यथा यूयं कृपळा निजकस्याप्येकस्य प्राधूर्णकागतस्य भक्तं दातुं न शक्नुथ ततस्ते एवमुक्ताः सन्तः साधुसमीपमागत्य ब्रुवते । यावन्ति दिनानि यूयमत्र तिष्ठत तावन्मान्यत्र भिक्षामटत किन्तु गृहे भुङ्गव । अन्यत्र भिक्षाटने हि महत्यस्माकमपभ्राजना स एवमुक्तः साधुर्भणति युष्मद्गृहे न भुजे यतोऽहं कल्पिकं भुञ्जे युष्मद्गृहे चोद्नमादिदोषाशङ्का । एवमुक्ते स्वजनाः प्राहुः
[ भा. २४७४ ] किंतंति खीरमादी ददामो दिने य भाति भज्जातो । बेंति सुते जावंते पडिया नेकरा बहुपुत्ता ।।
वृ- किं तत्कल्पिकं यत्त्वं भुंक्षे । ततः साधवो यानि युष्माकं यथाप्रवृत्तानि क्षीरादीनि क्षीरदधिघृतगुडादीनि ततस्ते आहुरेतानि यथा प्रवृत्तानि दास्यामः, गाथायां तमानसामीप्ये वर्तमानवद्वेति वचनात्, तं दातुं प्रवृत्तास्ततो दत्ते क्षीरादिके भ्रातृभार्याः सुतान् क्षीरादीनि याचमानान् प्रति ब्रुवते । हे पुत्रा बहवोऽस्माकं कराः पतितास्ताने वाह
[भा. २४७५ ]
दहिधयगुलतेल्लकरा तक्ककरा चेवपाडिया अम्हं ।
रायकरपल्लियाणं समणकरा दुक्करा वोढुं ।।
वृ-दधिकर धृतकर गुलकर तैलकरास्तथा तक्रकराश्चास्माकं पातिताः श्रमणैः राजकराअपि बहवोऽस्माकमावतन् तैः सदैव प्रेरिता वयं वर्तामहे, परं राजकरप्रेरितानामस्माकमयं श्रमणकरो
For Private & Personal Use Only
www.jainelibrary.org
Jain Education International