________________
१५१
उद्देशकः-५, मूल - १४७, [भा. २४२८] यथाआयुष्कपरिहीना देवालवसप्तमाजाता,आयुष्कपरिहान्यासिद्धिलाभतोभ्रष्टा यथादेवालवसप्तमा जाता इत्यर्थः । सम्प्रति लवसप्तमदेवस्वरूपमाह[भा.२४२९] सत्तलवाजइआउंपहुप्पमाणंततो उसिझंतो।
तत्तियमेत्तंनहु ततो तेलवसत्तमाजाया ।। वृ- यदि सप्तलवाः कालविशेषा आयुः प्रभवन् स्यात् सप्तलवप्रमाणं यद्यायुः प्राप्येतेत्यर्थः ततः सिद्धेयुः परंतद्आयुस्तावन्मात्रंन हुनैवाभवत्ततस्तेलक्सप्तमादेवाजातालवेसप्तमेसिद्धिरभविष्यत् यदितावदायुर्भवेद्येषांतेलवसप्तमानामनाम्नैकार्थेसमासोबहुलमितिसमासः ।केतेलवसप्तमाइत्याह[भा.२४३०] सव्वट्ठसिद्धिनामे उक्कोसट्टिईय विजयमादीसु ।
एगावसेसगब्भा भवंतिलवसत्तमादेवा ।। वृ-येदेवाः सर्वार्थसिद्धिनामके महाविमाने येच विजयादिषूत्कृष्टस्थितय एकोऽवशेषोगर्भो येषां ते एकावएषगर्भास्तेभवन्ति लवसप्तमाः । उपसंहारमाह[भा.२४३१] तम्हा उसपक्खेणं कायव्व गिलाणगस्सतेगिच्छं ।
विवक्खेण न कारेज्जा एवं उदितंमिचोदेति ।। वृ- यस्माद्विपक्षे दोषास्तस्मात्सपक्षेण ग्लानस्य चिकित्साकर्म कर्तव्यं विपक्षे पुनर्न कारयेतं तदेवं सम्बन्धस्ततःसूत्रव्याख्यालक्षणंतदन्वाक्षेपपरिहारौतत्प्रसक्त्याऽन्यदपिचाभिहितंसम्प्रतिसूत्रव्याख्या क्रियते-निर्ग्रन्थञ्चशब्दान्निर्ग्रन्थीचरात्रौ वा विकालेवादीर्घपृष्टःसर्पोलूषयेत्दशेत् । तत्रस्त्रीवापुरुषस्य हस्तेन तं विषमपमार्जयेत्, पुरुषो वा स्त्रिया हस्तेन एवं से तस्य स्थविरकल्पस्य कल्पते । स्थविरकल्पकस्यापवादबहुलत्वादेवंचामुना प्रकारेणापवादमासेवमानस्यसेतस्य तिष्ठतिपर्यायोन पुनः स्थविरकल्पात्परिभ्रश्यति,तेनच्छेदादयःप्रायश्चित्तविशेषास्तस्यनसन्ति परिहारंच तपोन प्राप्नोति । कारणेन यतनया प्रवृत्तेरेष कल्पः स्थविरकल्पिकानां । एवममुना प्रकारेण सपक्षेण विपक्षेण वा वैयावृत्त्यकारापणं से तस्य जिनकल्पिकस्य न कल्पते । केवलोत्सर्गप्रवृत्तत्तस्येति भावः । एवमपवादसेवनेन सेतस्य जिनकल्पपर्यायोनतिष्ठति, जिनकल्पात्पततीत्यर्थः ।परिहारंचतपोविशेष नपरिपालयतिएष कल्पोजिनकलपिकानां, एवं सूत्रेव्यवस्थितेयदाचार्येणप्रागुदितंसपक्षेणवैयावृत्त्यं कारयितव्यम् न परपक्षेणेति तत्रचोदयतिब्रूते परः । यदुच्यते तदाह[भा.२४३२] सुत्तंमिअनुन्नायं इह पुन अत्थतो निसेहेह ।
कायव्व सपक्खेणं चोयग सुत्तं तु कारणियं ।। वृ- सूत्रे सपक्षेणेति वैयावृत्त्यकारापणमनुज्ञातं इह इदानीं इ पादपूरणे पुनरर्थतो यूयं परपक्षण वैयावृत्त्यकारापणं निषेधयत् कर्तव्यम् सपक्षेणेति वचनात् ततः सूत्रभवद्व्याख्यानयोर्विरोधः । अत्राचार्य आह-न विरोधो, यतो हेचोदकसूत्रमिदंकारणिकं कारणापेत्रम् । तदेव कारणमाह[भा.२४३३] विज सपक्खाणसती गिहि परतित्थीउ तिविहसंबंधी ।
. एमेव असंबंधी असोयवादेतरा सव्वे ।। वृ-सपक्षाणांवैद्यानामसतिअभावगृही पिताभ्रातास्वजनोवास्थविरादिभेदतस्त्रिविधोयःसम्बन्धी सवैयावृत्त्यं कारणीयः । तदभावेऽसम्बन्धी स्थविरमध्यमतरुणभेदतस्त्रिभेदः पूर्वपूर्वालाभे उत्तरोत्तरः कारणीयः, तस्याभावे परतीर्थिकः पितृभ्रातादिः संबन्धेन संबंधी स्थविरादिभेदतस्त्रिभेदः पूर्वपूर्वालाभे
www.jainelibrary.org
Jain Education International
For Private & Personal Use Only