________________
१५०
व्यवहार-छेदसूत्रम् - २- ५/१४७
गुणो न भवति, तदा अनन्यगत्या जंगमांगं द्रव्यं प्रयुज्यते । अथवान्यथा द्विविधं द्रव्यं जलजं थलजं च, । एवमादि द्विविधं द्रव्यं ग्रहीतव्यम् । इयं चिकित्सा दीर्घपृष्टविषविघातायाभिहिता । जह चेव दीहपट्टे, विद्यामता य दुविहदव्वाय । एमेव सेस सुवि विज्जा दव्वा य रोगेसु ।।
[भा. २४२२ ]
वृ- यथा चैव दीर्घष्टदंशे विद्यामन्त्रा द्विविधानि च द्रव्याणि ग्रीहतव्यानि । एवमेव शेषेष्वपि रोगेषु विद्याद्रव्याणि च ग्राह्याणि । [भा. २४२३]
संजोगदिट्टपाठी, न धरेंतंमि चउ गुरू हूंति । आणादिणो य दोसा, विराधना इमेहिं ठाणेहिं ।।
वृ- आचार्येण स्वयं संयोगद्दष्टपाठिना भवितव्यं । यदि पुनः सति शक्तिसंभवे संयोगदृष्टिपाठं न धरति,तर्हितस्मिन्नधरति । प्रायश्चित्तं चत्वारो गुरुकाः । न केवलं प्रायश्चित्तं, किन्त्वाज्ञादयश्च दोषास्तथा विराधना एभिर्वक्ष्यमाणैः स्थानैः । तान्येवाह
[भा. २४२४]
उप्पल, जो गणधारी नजाणइ तिगिच्छं । दीसंततो विनासो, सुहदुक्खी तेन उचत्ता ।।
वृ- उत्पन्ने ग्लानत्वे यो गणधारी चिकित्सां न जानाति, तस्या पश्यतः सतो ग्लानस्य विनाश इति, तेन सुखदुःखिनः सुख-दुःखोपसम्पन्नकाः स्वशिष्याः प्रीतच्छकाश्च परित्यक्ताः, कथं पश्यतः सतो ग्लानस्य शेषकाणा च विनाश इत्यत आह
[भा. २४२५ ]
आउरत्तेण कायाणं, विसकुंभादिघायए । डा छेज्जेय जे अन्ने, भवंति समुवद्दवा ।। एते पावइ दोसा, अनागयं अग्गहियाय विज्जाए । असमाही सुयलंभ केवललंभं तुचुक्केज्जा ।।
[भा. २४२६ ]
वृ- कस्यापि साधोर्विषकुम्भो लूता आदिशब्दाद्दाहादिपरिग्रहस्तस्मिन्नुत्थिते आतुरत्वेनाकुलत्वेन विषकुंभादिघाताय कायानामुदकादीनामुपद्रवं कुर्यात् । तथा हि विषकुंभे दाहे वा समुपस्थिते आकुलीभूतः सन् तं शीतलेमोदकेन सिञ्चेत्, सचित्तेन वा कर्दमेन लिम्पेत् । तथा दाघे च्छेदे च येऽन्ये भवन्ति समुपद्रवा एतान् दोषाननागतगृहीतायां विद्यायां प्राप्नोति तथा तीव्रायां वेदनायामनुपशान्तायामसमाधिना असमाधिमरणेन म्रियेत, तथा च सति दीर्घंसंसारमनुपरिवर्तते, चिरं च यदि जीवति, तर्हि भूयांसं श्रुतलाभं प्राप्नुयात्, केवलज्ञानं चोत्पादयेत् । तथाइह लोगियाण परलोगियाण लद्धीण फेडितो होइ ।
[भा. २४२७]
इहलोगामोसादी परलोगे अनुत्तरादीया ।।
- असमाधिमरणेन मरणतः सह ऐहलौकिकीनां पारलौकिकीनां च लब्धीनां स स्फेटितस्त्याजितो भवति । तव इहलोके ऐहलौकिक्यो लब्धय आमर्षादय आमषौषध्यादयः परलोके पारलौकिक्योऽनुत्तरादय अनुत्तरा अनुत्तरा लवसत्तमा देवा आदिशब्दात् सुकुलप्रत्यायातिश्रुतलाभादिपरिग्रहः ।। [ भा. २४२८] असमाहीमरणेणं एवं सव्वासि फेडितो होइ ।
जह आउगपरिहीना देवा लवसत्तमा जाया ।।
वृ- एवममुना प्रकारेण सर्वासामैहिकीनां पारत्रिकीनांच लब्धीनामसमाधिमरणेन स्फेटितो भवति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org