________________
उद्देशक :5:-५, मूल- १४७, [भा. २४०१ ]
१४७
भणन्ति । व्रणसंरोहकानितैलानिव्रणतैलानि तथा तिजीर्णघृतं द्रव्यौषधानिच यैरौषधैः संयोजितैस्तैलं घृतं वातिपच्यते । व्रणसंरोहकंचूर्णोवाव्रणसंरोहणायभवतितानिद्रव्यौषधानिततोराज्ञापुरुषाः सन्दिष्टा यद्वैधैरुपदिष्टं तत्सर्वं गृहीतम् । [भा. २४०२]
भग्गसिंव्विय संसित्ता वणा वेज्जेहि जस्स । सो पारगो उ संग्गामे, पडिवक्खो विवज्जए ।।
वृ- ततः संग्रामे वर्त्तमाने यस्य राज्ञो ये पुरुषा मुद्गरादिप्रहारहतास्तेषां प्रहारा वैद्यैरौषधैर्भग्ना ये च व्रणितास्तेषां व्रणाः सीवतिस्ते औषधैः संसिक्ता । एवं व्रणिताः प्रहारिता द्वितीय दिवसे युद्धसमर्था जाताः एवं द्वितीय दिवसे तृतीयदिवसे ऽपि कृतम् । एवं स राजा वैद्योपदेशनौषधसंग्रहतः संग्रामे पारगो अभूत्, प्रतिपक्षे विपर्ययो जित इत्यर्थः । एष दृष्टान्तोऽयमर्थोपनयः ।।
[ भा. २४०३ ]
एवमेवासपेज्जाइ खज्जलेज्जाणिजेसिओ ।
भेसिज्जाई सहीनाई पारगा ते समाहीए ।।
वृ- एवमेव दण्डिकदृष्टान्तगतेन प्रकारेण येषामाचार्याणां भैषजानि असत्ति अशनरूपाणि, पेयानि पानकरूपाणि, खाद्यानि खादिमरूपाणि, लेह्यानि च स्वादिमानि ते आत्मनो गच्छस्य च समाधेः पारगा भवन्ति । ये पुनरौषधानां न संग्रहीतारस्ते समाधेरपारगाः । प्रकारान्तरेण दण्डिकदृष्टान्तमाह[भा. २४०४ ] अहवा राया दुविहो आयभिसित्तो पराभिसित्तोय । आयभिसित्तो भरहो तस्स उ पुत्तो परेणंतु ।।
वृ- अथवेति प्रकारान्तरद्योतने राजा द्विविधो भवति । तद्यथा- आत्माभिषिक्तः, पराभिषिक्तश्च आत्मनैध निजबलेन राज्येऽभिषिक्तः आत्माभिषिक्तः, परेणाभिषिक्तः पराभिषिक्तः । तत्रात्माभिषिक्तो भरतश्चक्रवर्ती तस्य पुत्र आदित्ययशाः पराभिषिक्तः ।
[भा. २४०५ ]
बलवाहणकोसा य बुद्धी उप्पत्तियादीया ।
साहगो उभयोवेता सेसा तिन्नि असाहगा ।।
वृ- बलंहस्त्यादि, वाहनानियानानिकोशोभाण्डागारंतथाबुद्धिरौत्पत्यादिकाः । अत्रभङ्गाश्चत्वारःएको बलवाहनादि समग्रो नो बुद्धि समग्रः १ एको नो बलवाहनादिसमग्रः किन्तु बुद्धिसमेतः २, एको बलवाहनादिसमेतोऽपि बुद्धिसमेतोऽपि ३, एको नो बलवाहनादिसमेतो नापि बुद्धिबलोपेतः ४ । एषु चतुर्षु भङ्गेषु मध्ये य उभयोपेतो बलवाहनादि समेतो बुद्धिसमेतश्चेत्यर्थः स राज्यस्य साधकः शेषास्रयोऽसाधकाः । एष दृष्टान्तोऽयमर्थोपनयः ।।
[भा. २४०६ ]
बलवाहणत्थहीनो बुद्धिहीनो न रक्खएरजं । इय सुत्तत्थाविहीणी ओसहहीना उगच्छंतु ।।
वृ-यथा बलेने वाहनैरर्थेन च हीनो बुद्धिहीनश्च राजा राज्यं न रक्षति, एवमाचार्योऽपि सूत्रार्थविहीनो औषधविहीनश्च गच्छं न रक्षति ।।
[भा. २४०७ ]
आयपराभिसित्तेण जम्हा आयरिएणओ । उसहमादीणि चओ कायव्वो चोयती सीसो ।।
वृ- तस्मादाचार्येणआत्माभिषिक्तेनश्रुतकेवलिनाइतरेणचपराभिषिक्तेन औषधादिनिचयः कर्तव्य इति शिष्यश्चोदयति
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org