________________
व्यवहार-छेदसूत्रम् - २- ५ /१४७
आक्षेपहेतुकत्वात् । न खल्वाक्षेपसूचामन्तरेणापाय प्रदर्शनं विपक्षे भवतीति परिभावनीयमेतत्संप्रत्याक्षेपप्रसिद्धी एव वैविक्त्येनाह ।
१४६
[भा. २३९५ ] किं कारणं न कप्पइ अक्खेवो दोसदरिसणं सिद्धी । लोए वेदे समए विरुद्धसेवादयो नाया ।।
वृ- किं कारणं विपक्षे वैयावृत्त्थं न कल्पते इत्याक्षेपः । विपक्षे दीषदर्शनं सिद्धि प्रसिद्धिः । अत्रार्थे लोके वेदे समये च विरुद्धसेवादयो ज्ञातानि । किमुक्तं भवति ? यथा लोके वेदे समये च विरुद्धसेवयामकल्पिकसेवायां च दोषोपदर्शनं तदकरणेप्रसिद्धिरेवमिहापि विपक्षे वैयावृत्त्यकरणेSपायदर्शनमेव तदकरणे प्रसिद्धिः ।
[भा. २३९६]
तम्हा सपक्खकरणे परिहरिया पुव्ववन्निया दोसा । कप्पे छठुद्देसे, तह चेव इहंपि दठव्वा ||
- यस्मादेव विपक्षे वैयावत्त्यकरणे प्रायश्चित्तादयो दोषास्तस्मात्सपक्षे वैयावृत्यं कर्तव्यं । सपक्षवैयावृत्त्यकरणे च ये पूर्ववर्णिता दोषास्ते यथा कल्पाध्ययने षष्ठोद्देशे परिहृतास्तथा चेव इहापि द्रष्टव्याः । अत्र पर प्रश्नमाह[भा. २३९७]
चोएती परकरणं, नेच्छामो दोसपरिहरणहेउं । किं पुन सज्जगणो घेतव्वो गिलाण रक्खठा ।।
वृ- चोदयति प्रश्रयति शिष्यः परकरणे परपक्षे वैयावृत्त्यकरणं दोषपरिहरणहेतोर्दोषपरिहरणनिमित्तं च्छामः । किं पुनः केवलं भैषज्यगणः औषधसमूहो प्लानरक्षार्थं गृहीतव्यः । अत्रैव विपक्षे दोषमाहपुव्वं तु अग्गहिपहिं दूरा जा ओसहाई आणंति ।
[भा. २३९८ ]
तावत्तो उगिलाणो, दिठतो दंडियाईहिं । ।
- पूर्वगृहीतेषुभैषजेषुगाथायांतृतीया सप्तम्यर्थेप्राकृतत्वात् । यावदार्यादूरादौषधान्यानयन्ति, तावत् ग्लानस्य आगाढादि परितापना भवति । तद्भावे च स परमार्थतस्त्यक्तो भवति । अत्रार्थे च दृष्टान्तो दण्डिकादिभिस्तमेवविभावयिषुराह । ।
[भा. २३९९]
उवयंमि संगामे, रन्नो बलसमागमो । एगो वेजोत्थ वारेई, न तुभे जुद्धकोविया ।। घेप्पतुं ओसहाई वणपट्टामक्खणाणि विविहाणि । सो बेइ अमंगलाई मा कुह अनागयं चेव ।।
[भा. २४०० ]
वृ- द्वयोर्दण्डिकयोरुपस्थिते सङ्ग्रामे लिलिते च द्वयोर्बले द्वयोरपि राज्ञो वैद्या उपस्थिता । तत्रएको दण्डिको वैद्यानत्र संग्रामप्रस्थाने उपस्थितान् वारयति । न यूयं युद्धकोविदास्ततः किं युष्माभिः संग्रामे कर्तव्यमेवमुक्त ते वैद्याः प्राहुर्यद्यपि न वयं युद्धकोविदास्तथापिप्रहाखणितेष्वस्माकं वैद्यक्रियोपयोगिनी तस्माद्वयमागच्छामो गृह्यन्तां चौषधानि व्रणपट्टा विविधानि चानेकप्रकाराणि च प्रक्षणानि । एवमुक्ते स दण्डिको ब्रवीति मा कुरुतानागतमेवामङ्गलानि तस्मान्निवर्तध्वं यूयमिति ।
-
[ भा. २४०१ ] किं घेत्तव्धं रणे जोग्गं, पुच्छिया इतरेण ते ।
भांति वणतिल्लाइं घयदव्वासहाणिय ।।
वृ- इतरेण द्वितीयेन दण्डिकेन ते आत्मीयावैद्याः पृष्टाः । किंरणे संग्रामे योग्यं गृहीतव्यं । एवमुक्तास्ते
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org