________________
१४२
व्यवहार- छेदसूत्रम् - २-५/१४५ वृ- यादृशैः सिवयैर्वस्त्रैः प्रावृत्तैः सा संयती उपविष्टा दृष्टा तादृशैर्वस्त्रैस्तमो ऽन्धकारमस्या अस्तीति तमस्विनी रात्रिस्तस्यां तरुणसाधुर्वरितः प्रावृत्तः क्रियते । ततः संभलितिदूती प्रेष्यते । ततो विनाविनको नरविहीनो यत्र को निवासो गृहं इत्यर्थः, तत्र केतनं संकेतनं सङ्केतो दीयते, दत्वा च स तत्र स्थितस्तावत्तिष्ठति, यावत् स तरुणसाधुः संयतीनेपथ्योपेत आगच्छति, तस्मिन्नागते चिहुरेषु केशेषु गंडयोश्च विलपनं क्रीडनं करोति, तत्र यद्येतावता शुक्रनिपातस्तिष्ठति, तर्हि सुंदरं, अथ न तिष्ठति तर्हिस संयतीनेपथ्योऽपसार्यते । प्रकारान्तरमारभ्यते । तदेव प्रकारान्तरमाह
[भा. २३७३]
अहवा वि सिद्धपूत्तिं पुव्वं गमेऊन तीय सिवएहि । आवरिय कालियाए सुन्नागारादि संमेला ||
वृ- अथवेति प्रकारान्तरद्योतने पूर्वं सिद्धपुत्रीं गमयित्वा तस्याः संयत्याः सिवयैरावृत्य कालिकायां रात्रौ शून्यमृहादिषु तया सहतस्य संमेलः सङ्गमः कर्तव्यः । सम्प्रति यादृशा उत्सर्गत आलोचनार्हास्तादृशानभिधित्सुराह
[ भा. २३७४ ]
गीत्था कयकरणापोढा, परिणामिया य गंभीरा ।
चिरदिक्खिया यवुड्ढा जईण आलोयणा जोगा ||
वृ-गीतार्थाः सूत्रार्थतदुभयनिष्णातत्वात्, कृतकरणा अनेकवारमालोचनायां सहायीभवनात, प्रौढाः समर्थाः सूत्रतोऽर्थतश्च प्रायश्चित्तदाने पश्चात्कर्तुमशक्यत्वात्, परिणामिका नापरिणामिका अतिपरिणामिका वा, गंभीरा महत्यप्यालोचकस्य दोषे श्रुते अपरिश्राविणः, चिरदीक्षिताः प्रभूतकं प्रव्रजिता, वृद्धाः श्रुतेन पर्यायेण वयसा च महान्त, एवंभूता यतीनां साधूनामुपलक्षणमेतत् संयतीनां वालोचनायोग्याः ।
मू. (१४६) जे निग्गंथा य निग्गंधीओ य संभोइया सिया, नो ण्हं कप्पइ अन्नमन्नेणं वेयावच्चं कारवेत्तए । अत्थि या इत्थ हं केइ वेयावच्चकरे, कप्पइ ण्हं तेनं वेयावच्चं करावेत्तए; नत्थि याइ ण्हं केइ वेयावच्चकरे, एव हं कप्पइ अन्नमन्नेणं वेयावच्चं कारवेत्तए ।
वृ- ये निर्ग्रन्था निर्ग्रन्थ्यश्च सांभोगिकास्तेषांनो, व्हमिति वाक्यालङ्कारे, कल्पते अन्योन्यस्य वैयावृत्त्यं कारयितुं, अस्ति कश्चित् वैयावृत्यकरस्ततः कल्पते तं वैयावृत्त्यं कारयितुं, नास्तिक्वचित् वैयावृत्त्यकरः एवं सति कल्पते अन्योन्यस्य वैयावृत्यं कारयितुमिति सूत्रसंक्षेपार्थः । । अधुना भाष्यविस्तरःआलोयणाए दोसा वेयावच्चे वि हुंति तह चेव । नवरं पुन नाणत्तं, बितियपदे होइ कायव्वं । ।
[भा. २३७५ ]
I
वृ-ये एव विपक्षे आलोचयतां दोषा उक्ताः परस्परं वैयावृत्येऽपि त एव दोषा भवन्ति । ये चाभ्यधिकास्तेऽनन्तरगाथायां वक्ष्यन्ते, नवरं पुनर्नानात्वं द्वीतयपदे अपवादपदे भवति कर्तव्यं । तत्राभ्यधिकान् अभिधित्सुराह[भा. २३७६]
उउभयमाणसुदेहिं देहसहावानुलोमभुज्जेहिं ।
कढणयियाणवि मणं वंकंत अचिरेण कइयविया ||
वृ- ऋतौ ऋतौ यैर्भज्यमानैः सेव्यमानैर्भज सेवायामिति वचनात् सुखं जन्यते तानि ऋतुभज्यमानसुखानि तैस्तथा देहः शरीरं तस्य स्वो भावः स्वरूपं देहस्वभावस्यानुलोमान्यकूलानि यानि तैर्वैयावृत्त्यं कुर्वत्यः संयत्यो ये संयतीभिरानीतं भुञ्जते तेषां कठिहृदयानामपि धृतिबलिष्टानामपि
For Private & Personal Use Only
www.jainelibrary.org
Jain Education International