________________
उद्देशक : - ५, मूल- १४५, [ भा. २३६६ ]
१४१
एतद्विरहिते प्रदेसे आलोचना निमित्तं तिष्ठन्ति । ते च जघन्यतस्त्रयो यदि वा चत्वारोऽथवा पञ्च । तेच त्रिप्रभृतयो वक्ष्यमाणभङ्गकानुसारेण प्रतिपत्तव्याः । भङ्गकानेवाहथेरतरुणेसु भंगा चउरो सव्वत्थ परिहरेद्दिहिं । दोण्हं पुन तरुणाणं थेरे थेरी य पच्चुरसं ।।
[भा. २३६७ ]
वृ- स्थविरतरुणेषु भङ्गाश्चत्वारस्ते च प्रागेवोपदर्शिताः । स्थविरः स्थविरस्यालोचयतीत्यादि । तत्र यदि जवनिकाया अवकाशो नास्ति ततः सर्वत्र चतुर्ष्वपि भङ्गेषु दृष्टिं परहिरेत् । भूमिगतदृष्टिका सती आलोचयेत् । यथा आलोचनार्हः शृणोति, तत्र चतुर्थभङ्गे द्वयोस्तरुणयोःस्थविरः स्थविरा च प्रत्युरसमिति प्रत्यासन्नौ सहायौ दीयेते, येन परस्परं तौ दृष्टिं न बध्नीतो नापि मुखविकारं कुरुतः । एवमस्मिन् चतुर्थे भङ्गे चत्वारो भवन्ति । । [भा. २३६८ ]
थेरो पुन असहायो निग्गंधी थेरिया वि ससहाया । सरिसवयं च विवज्जे असती पंचमं कुज्जा ।।
वृ- तृतीयभङ्गे पुनः स्थविरोऽसहायोऽपि भवतु, तरुण्याः पुनः स्थविरा सहाया दीयते । द्वितीयभङ्गे निर्ग्रन्थी स्थविरापि ससहाया कर्तव्या । तरुणस्यालोचनार्हस्य सहायोऽस्तु वा न वा न कश्चिद्दोषः । एवं च तृतीये द्वितीये च भङ्गे त्रय जना भवन्ति । तथा सदृशवयो नियमतः सहायानां विवर्जयेत् तदसंभवे सदृशवया अपि भवेत् । तत्र प्रथमभङ्गे चतुर्थभङ्गे वा सदृशवयः सहायसंभवे पञ्चमे क्षुल्लकं क्षुल्लकां वा पटुकां कुर्यात् ।।
[ भा. २३६९ ] ईसिं अन्नोयत्ता ठिया [ठविया ] उ आलोयए विवक्खमि । सरिपक्खे उक्कडुओ पंजलिविट्ठो वणुन्नातो ।।
वृ- विपक्षे श्रमणस्य समीपे श्रमणी आलोचयति । ईषदवनता ऊर्ध्वस्थिता । सादृशपक्षे पुनः श्रमणः श्रमणस्य पार्श्वे पुनरुत्कुटुकः कृतप्राञ्जलिरालोचयति । अथ सोऽर्शोव्याधिपीडितः ततोऽनुज्ञापनां कृत्वा अनुज्ञातः सन् निषद्यायामुपविष्ट आलोचयति ।।
[भा. २३७० ]
दिट्ठीए होंति गुरुगा सविकाराउ सरत्ति सा भणिया । तस्स विवद्धिते रागे तिगिच्छ जयणाए कायव्वा ।।
वृ- यो दष्ट्या दृष्टिं बघ्नाति, तस्य दृष्टौ सविकारायां भवन्ति प्रायश्चित्तता चत्वारो गुरुकाः, तत्र ये ते द्वितीयका दत्तास्ते यदि एकतरं सविकारं पश्यन्ति तत आलोचनातोऽपसारयन्ति यथाऽपसरतापसरत यूयं न किमप्यालोचनया प्रयोजनमिति । अथ सा निर्ग्रन्थी स्वभावत एवोरालशरीरा सविकारा दृष्ट्वा अपसरेत्ति भणिता सती अपसृता तथापि तस्यालोचनाचार्यस्य यदि तस्या उपरि विवर्द्धितो रागस्तर्हि तस्मिन् सति यतनया चिकित्सा कर्तव्या । तामेव यतनामाह
[भा. २३७१]
अन्नेहिं पगारेहिं जाहे नियत्तेउ सो न तीरति उ । घेत्तूणाभरणाइतिगच्छ जयणाए कायव्वा ।।
वृ- यदा अन्यैः प्रकारैस्तं भावं निवर्तयितुं न शक्नोति तदा तस्याः संयत्या आभरणानि वस्त्राणि गृहीत्वा यतनया चिकित्सा कर्तव्या । एनामेवाह[भा. २३७२]
जारसिसिवएहिं ठिया तारिसएहिं तमस्सती वरिया । संभलि विनोयकेयण वेलयणं चिहुरगंडेहिं ।।
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org