SearchBrowseAboutContactDonate
Page Preview
Page 143
Loading...
Download File
Download File
Page Text
________________ १४० व्यवहार - छेदसूत्रम् - २ - ५/१४५ न भविस्सति दोसोत्ति तो वायंती उच्छेदसुयं ।। वृ- यावदार्यरक्षितास्तावदागमव्यवहारिणोऽभूवन् । ते चागमव्यवहारबलेन विज्ञाय यथा एतस्याश्छेदश्रुतवाचनायां दोषो न भविष्यतीति संयतीमपि च्छेदश्रुतं वाचयन्तिस्म ।। [भा. २३६२] आरेणागमरहिया मा विद्दाहिंति तो नवाएंति । तेन कहं कुव्वंतं सोहिं तु अयाणमानीतो ।। वृ- आर्यरक्षितादारात् आगमरहितास्ततस्ते मा च्छेदश्रुताध्ययनतः संयत्यो विद्रास्यन्ति विनक्ष्यन्तीति हेतोच्छेदश्रुतानि संयतीर्न वाचयन्तीति अत्राह तेन श्रुताध्ययनाभावेन कथं ताः संयत्योऽजानानाः शोधिं कुर्वन्तु । अत्राचार्य आह [भा. २३६३] तो जाव अज्जरक्खिय सट्टाणे पगासयंसु वइणीतो । असतीए विवक्खमि वि एमेव य होंति समणा वि ।। यतः पूर्वमागमव्यवहारिणः स्युः च्छेदश्रुतं च संयत्योऽधीयेरन् ततो यावदार्यरक्षितास्तावत् व्रतिन्यः स्वस्थाने स्वपक्षे संयतीनां प्रकाशने प्रकाशनामकार्षुः । स्वपक्षाभावेऽपि विपक्षेऽप्यालोचितवत्यः श्रमण्यः । एवमेव श्रमणा अपि भवन्ति ज्ञातव्याः किमुक्तं भवति ? श्रमणा अपि सपक्षे आलोचितवन्तः । तदलाभे विपक्षेऽपि श्रमणीनां पार्श्वे इत्यर्थः दोषाभावात्, आगमव्यवहारव्यहारिभिर्हि दोषाभावमवबुध्य च्छेदश्रुतवाचना संयतीनां दत्ता नान्यथेति, आर्यरक्षितादारतः पुनः श्रमणानामेव समीपे आलोचयति श्रमण्योऽपि श्रमणानामगमव्यवहारच्छेदाद् । अत्रैव परमतमाशंक्य दूषयति ।। [भा. २३६४] वज्रं आण केइ समणेसु ता पगासंति । तं न जुज्जइ जम्हा लहुसगदोसा सपक्खे वि ।। वृआर्यरक्षितादारतः श्रमणेषु श्रमणानां पार्श्वे ताः श्रमण्यः प्रकाशयन्त्यालोचयन्ति मैथुनवर्ज, मैथुनं पुनः श्रमण्यः श्रमणीनामेव सकाशे शालोचयन्ति इति केचिद् व्याचक्षते, तत्तु न युज्यते यस्माल्लघुस्वकदोषाः सपक्षेऽपि किमुक्तं भवति ? श्रमण्योऽपि स्वकलघुदोषतस्तुच्छत्वरूपस्वकदोषपरनिवित्वं कुर्युः परिभवं वा समुत्पादयेयुः । तस्मान्मैथुनमपि श्रमणानामेवान्तिके विकटनीयम् । असती कडजोगी पुन मुत्तूणं संकियाई ठाणाई । [भा. २३६५ ] आइन्ने ध्रुवकम्पिय तरुणी थेरस्स दिट्टिपहे ।। वृ- आर्यरक्षितकालेऽपि यदि संयत्या मूलगुणापराध आलोचयितव्यस्तर्हि संयत्याः सकाशे आलोच्यते । तस्यासति अभावे यः कृतयोगी सूत्रतोऽर्थतश्च च्छेदग्रन्थधरः स्थविरस्तस्य समीपे आलोचयति । नवरंशङ्कितानि स्थानानि वक्ष्यमाणानि शून्यगृहादीनि मुक्त्वा किन्त्वाचीर्णे उचिते प्रदेशे आलोचयितव्यम् । यत्र ध्रुवकर्मिको दृष्टिपथे वर्तते दृष्टया पश्यति, न तु शृणोति, तत्र नवनिकान्तरिता आलोचयति । तरुणी थेरस्सेत्येष तृतीयभङ्ग उपात्तः । स च शेषभङ्गानां त्रयाणामप्युपलक्षणं ते चेमे स्थविरा. स्थविरस्यालोचयति । स्थविरा तरुणस्यालोचयति । तरुणी स्थविरस्यालोचयति । तरुणी तरुणस्य ।। यदुक्तं मुक्त्वा शङ्कितानि स्थानानि, सम्प्रति तान्येवोपदर्शयति [भा. २३६६ ] सुन्नघर देउलज्जाणरन्नपत्थन्नुवस्सयस्संतो । एयविवज्चे ठायंति तिन्निचउरो हवा पञ्च ।। वृ- शून्यगृहं देवकुलं उद्यानमरण्यं प्रच्छन्नं च स्थानं तथा उपाश्रयस्यान्तर्मध्ये एतद्विवर्जे Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003326
Book TitleAgam Suttani Satikam Part 22 Vyavahara
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages564
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_vyavahara
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy