________________
उद्देशक :- ५, मूल - १४५, [भा. २३५५ ]
संभोगविसंभोगौ । उक्तः सप्रपञ्चः संभोगः । सम्प्रति येनाधिकारस्तमभिधित्सुरिदमाह
[भा. २३५६]
एएसिं कयरेणं संभोगेण तु होइ संभोगी । समणाणं समणीतो भन्नइ अनुपालणाए ओ ।।
वृ- एतेषामनन्तरोदितानां संभोगानां मध्ये कतरेण संभोगेण संभोगिन्य श्रमणानां श्रमण्यो भवन्ति । सूरिराह-भण्यते अनुपालनया अनुपालनारूपेण संभोगेन [संभोगः ] । तदेवमुक्तसंभोगे ।
[भा. २३५७ ] आलोयणा सपक्खे परपक्खे चउगुरुंच आणादी । भिन्नकहादि विराधन दर्ुण व भावसंबंधो ।।
वृ- आलोचना सपक्षे दातव्या । तद्यथा-निर्ग्रन्थो निर्ग्रन्थस्य पुरत आलोचयति निर्ग्रन्थी निर्ग्रन्ध्याः पुरतो, यदि पुनर्विपक्ष आलोचयति यथा निर्ग्रथो निर्ग्रन्थ्याः पुरतो, निर्ग्रन्थी वा निर्ग्रन्थस्य, तदा प्रायश्चित्तं चतुर्गुरुकं । न केवलं प्रायश्चित्तं चतुर्गुरुकं किन्त्वाज्ञादयश्च दोषाश्चशब्दो भिन्नक्रमः । स च तथैव योजितः कस्मादेवमत आह- 'भिन्नकहादि' इत्यादि चतुर्थव्रतातिचारमालोचयन्त्याः संयत्या भिन्नकथादोषो भवति । चतुर्थव्रतातिचारकथनस्तस्याः कदाचिदालोचनाधारस्य भावभेदो भवतीत्यर्थः । आदिशब्दात् धृष्टीभूता सा याञ्चामपि कुर्यादिति परिग्रहः । एवंसति शीलविराधना । 'हूणव भावसंबंधो' दृष्टिविकारेण मुखविकारेण वा स वा सा वा भावं दृष्ट्वा मामिच्छतीति अभिप्रायं ज्ञात्वा सम्बन्धो घटना स्यात् । । एतदेव व्याख्यानयति
[ भा. २३५८]
१३९
मूलगुसु चउअथे विगडचंते विराधना हुज्जा । निच्छक्क दिट्टिमुहरागतोय भावं वियाणंति ।।
बृ- मूलगुणेषु मध्ये चतुर्थे मूलगुणातिचारे विकटमाने आलोच्यमाने विराधना शीलस्य भिन्नकथादिना प्रागुक्तस्वरूपेण भवति । तथा निच्छक्का घृष्टा सती याञ्चां कुर्यात्, तथा दृष्टिरागतो मुखरागतो वा परस्य भावं विजानीतो यथा मामेष एषा वा इच्छतीति ततो घटना स्यात् । न केवलमेते विपक्षे आलोचायां दोषाः किन्त्विमेऽपि तानेवाह
[भा. २३५९]
अप्पच्चय निब्भयया पेल्लणया जइपगासणे दोसा । aणी वि होइ गम्मा नियए दोसे पगासंति । । वंदत वा उठे वा गच्छो तह लहुसगत्तनाणगणे । विगडिंत पंजलिउडं दट्टणुड्डाह कुवियडू ||
[भा. २३६० ]
वृ- यतेः संयत्याः पुरतः प्रकाशने आलोचनायामिमे दोषाः । तद्यथा अप्रत्ययः किमेषा वराकी जानातीत्यवज्ञातो यत्किमपि सा प्रायश्चित्तं ददाति तत्र विश्वासाभावः । तथा भूयोऽपराधकरणे गुरुर्गरीयांसं दण्डं दास्यतीति महत्याशंका संयतीनां तु पुरुषस्य न भयमिति निर्भयता तद्भावाच्च भूयो भूयोऽपराधकरणप्रवृत्तिः । तथा पेल्लणयेति यदि महत् प्रायश्चित्तं ददाति ततः संयतो ब्रूते-न भवत्येतत्प्रायश्चित्तं किन्त्विदमित्येवं प्रायश्चित्तस्य प्रेरणा ।। तथा व्रतिन्यपि यदि संयतस्य पुरत आलोचयति ततः सा निजकान् दोषान् प्रकाशयन्ती गम्या भवति । यथा एकवारं तावदिदमाचरितं, भूयोऽपि सम्प्रति मया सह समाचर्यतां पश्चात्प्रायश्चित्तं दास्यते इति । द्वितीयगाथा सम्प्रदायात् व्याख्येया । यद्येवं तर्हि कथं पूर्वमार्थिकाः च्छेदश्रुतमधीयेरन, कथं वालोचना दद्युत्तरमाह
[ भा. २३६१] ततो जाव अजरक्खिय आगमववहारिणो वियाणित्ता ।
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org