________________
१३७
उद्देशकः-५, मूल- १४५, [भा. २३५०] अत्रापिद्वितीयादिषुभङ्गेषुपूर्ववत्तपःकालविशिष्टता गृहस्थैः पार्श्वस्थादिभिः समंप्रत्येकंचतुर्लघुकम्, यथाच्छन्दैः समंचतुर्गुरुकम्,अत्रापिद्वितीयादिषुभङ्गेषुप्राग्वत्तपःकालविशिष्टता ।तथासांभोगिकीनां संयतीनामुपधिंविधिनासंयतीप्रायोग्यंगणधरः परिकर्मयन्ददानश्चपरिशुद्धः,अविधिनापरिकर्मयतश्चतुर्गुरु, पार्थस्थादिसंयतीनांगृहस्थानांच कारणे विधिनेत्यादिभङ्गचतुष्टये प्रत्येकं चतुर्गुरु, द्वितीयादिषु भङ्गेषुतपःकालविशिष्टता प्राग्वत्[४] ।
तथापरिहरणा नामपरिभोगस्तत्रापिभङ्गचतुष्टयम्-कारणे विधिना १,काणेऽविधिना २,निष्कारणे विधिना ३, निष्कारणेऽविधिना४ ।तत्रप्रथमभङ्गेसांभोगिकैः सममुपकरणंपरिभुजानः शुद्धः,शेषेषु द्वितीयादिषुभङ्गेषुमासलघुतपःकालविशिष्टमं, असांभोगिकैः सममुपकरणं परिभुजानस्य चतुर्वपि भङ्गेषु मासलघु, द्वितीयादिषु तपःकालविशिष्टता, पार्श्वस्थादिभिर्गृहस्थादिभिश्च सममुपभुञानस्य भङ्गचतुष्टयेऽपिप्रत्येकंचतुर्लघु, यथाच्छन्दैः संयतीभिर्गृहस्थाभिश्चतुर्गुरु, उभयत्रापिद्वितीयादिषुभङ्गेषु तपःकालविशिष्टता[५] संयोगोद्वयादिपदानांमीलनं,तत्रभङ्गाः षड्विंशतिस्तद्यथा-दश द्विकसंयोगाः, दश त्रिकसंयोगाः, पञ्च चतुष्कसंयोगाः, एकः पञ्चसंगः । तत्र दश द्विकसंयोगा इमे-सांभोगिकः सांभोगिकेनसममुद्गमेनोत्पादनयाचशुद्धमुपधिमुत्पादयतीतिप्रथमः, उद्गमेनैषणयाच द्वितीयः, उगमेन शुद्धमुत्पादयतिपरिकर्मयति चेतितृतीयः, उद्गमेनशुद्धमुत्पादयतिपरिहरतिचेतिचतुर्थः, एतेचत्वारोऽपि भङ्गा उद्गमपदममुञ्चता लब्धाः, एवमुत्पदनापदामोचनेन लभ्यन्ते त्रय, एषणापदामोचनेन द्वौ, परिकर्मणापरिहरणापदयोरेकः । दश त्रिकसंयोगा इमे-भोगिकः सांभोगिकेन सममुद्गमेनोत्पादनया एषणयाचसुद्धमुत्पादयतीतिप्रथमः, उद्गमेनोत्पादनयाचशुद्धमुत्पादयतिपरकिर्मयतिचेति द्वितीयः, उद्गमेनोत्पादनया च शुद्धमुत्पादयति परिहरति चेति तृतीयः, इत्याधुपयुज्य वक्तव्यम् । एवं पञ्च चतुष्कसंयोगाः, एकः पञ्चकसंयोगश्च वक्तव्यः । एतेषु च षड्विंशतिभङ्गेषुसांभोगिकेन समं शुद्धः, असांभोगिकादिभिः सममसांभोगिकादिविषयं द्वयासंयोगनिष्पन्नं प्रायश्चित्तं तद्यथा-उद्गमनिष्पन्नमुत्पादनानिष्पन्नमित्यादि ।। उक्तउपधिसंयोगः, सम्प्रतिश्रुतसंभोगादीनतिदेशतआह[भा.२३५१] एवं जहा निसीहे पंचम उद्देसएसमक्खाउ ।
संभोगविही सव्वो, तहेव इहयं पवित्तव्यो ।। वृ- एवं उक्तेन प्रकारेण यथा निशीथे निशीथाध्ययने पञ्चम उद्देशके सर्वश्रुतादिसंयोगनिष्पन्नं प्रायश्चित्तविषयं संभोगविधिः समाख्यातस्तथैवेहापि वक्तव्यः । स च ग्रन्थगौरवभयान्न शक्यते लिखितुमिति तत एवावधारणीयः ।। एष च संभोगविधिः पूर्वमस्मिन्नर्धभरते सर्वसविग्नानामेकरूप आसीत् । पश्चात्कालदोषतइमेसांभोगिकाइमेत्वसांभोगिकाइतप्रवृत्तम् । किं कारणमितिचेदत आह[भा.२३५२] अगडेभाउय-तिल-तंदुल यसक्खेयगोणिअसिवेय।
अविनठेसंभोगे सव्वे संभोइया आसी ।। वृ- पूर्वमनिवष्टे संभोगे सर्वे संविग्नाः सांभोगिका आसीरन्, पश्चात्तु कालवैगुण्यतः सांभोगिकासांभोगिकविभागः । तत्र दृष्टान्तोऽवटो गाथायां जातावेकवचनमेवमुत्तरत्रापि १ तथा द्वौ भ्रातरौ २ तिलाः ३ तन्दुलाः ४ सरजस्काः ५ गोवर्गश्चाशिवविषयः ६ ।। तत्रावटदृष्टातभावनार्थमाह[भा.२३५३] आगंतु-तदुत्थेणवदोसेन विनटेकूवे तो पुच्छा ।
कउआनीयं उदयं अविनढे नासिसापुच्छा ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org