________________
१३६
व्यवहार- छेदसूत्रम् - २-५/१४५
[भा. २३४७ ]
संभोगविधिः संवासे ज्ञातव्यः । । तत्र यथोद्देशं निर्देश इति न्यायात् प्रथमत ओघसंभोगविधिमाहओघो पुन वारसा उवधिमादि कमेण बोधव्वो । कायव्व परूवणया एतेसिं आनुपुव्वीए । । उवहि सुय भत्तपाने अंजलिपग्गहेइ य । दावणाय निकाय अभुट्ठाणेत्ति आवरे । । कीकम्मस्स य करणे वेयावच्चकरणे इय ।
[भा. २३४८ ]
[भा. २३४९]
समोसरण सन्निसेज्जा कहाए य पबंधणा ।।
वृ- ओघसंभोगो द्वादशप्रकारः, तद्यथा - उपधिविषयः १, श्रुतविषयः २, भक्तपानविषयः ३, अञ्जलीग्रहविषयः ४, दवणाए त्ति दापना शय्याहारोपधिस्वाध्यायशिष्यगणानां प्रदापनं तद्विषयः ५, निकाय त्ति निकाचो निकाचनं च्छदनं निमंत्रणमित्येकार्थास्तद्विपयः ६, अब्भुट्ठाणेत्ति आवरे अपरेऽभ्युत्थानविषयः ७, कीकम्मस्स य इत्यादि कृतिकर्म वन्दनकं तत्करणविषयः ८, वैयावृत्यकरणविषयः ९, समवसरणविषयः १०, सन्निपद्याविषयः ११, कथाप्रबन्धनविषयश्च १२ तत्रोपधिसंभोगः षट्प्रकारस्तथा चाह[ भा. २३५० ]
उवहिस्स य छ भेया उगम १ उप्पायणे २ सणासुद्धे ३ । परिकम्मण ४ परिहरणा ५ संजोगो ६ छट्टओ होइ ।।
वृ- उपधेः उपधिसंभोगस्य षड्भेदा भवन्ति तद्यथा- उद्गमशुद्धः १, उत्पादनाशुद्धः २, एषणाशुद्धश्च ३, परिकर्मणासंभोगः ४, परिहरणासंभोग : ५, संयोगविषय षष्ठसंभोगः ६, तत्र यत्सांभोगिकस्सांभोगिकेण सममाधाकर्मादिभिः षोडशभिरुद्गमदोषैः शुद्धमुपधिमुत्पादयति एष उद्गमशुद्ध उपभोगः, अथाशुद्धमुत्पादयति तर्हि येन दोषेणाशुद्धमुत्पादयति तन्निष्पन्नं प्रायश्चित्तमापद्यते, तत्रापीयं व्यवस्था - अशुद्धग्राही सांभोगिकशिष्यमाणः सती मे प्रतिचोदनेति मन्यमानो मिथ्यादुष्कृतपुरस्सरं न पुनरेवं करिष्यामीति ब्रुवाणः प्रत्यावर्तते, तदा यत्प्रायश्चित्तमापन्नस्तद्दत्वा संभोग्यते । एवं द्वितीयवारं तृतीयवारमपि चतुर्थवेलायां त्वावर्त्तस्यापि न संभोगः । अथ निष्कारणे अन्यसांभोगिकेण समं शुद्धमशुद्धं वोपधिमुत्पादयति तर्हि सोऽपि यदि शिक्षमाणः व्यावर्त्तते ततः संभोगविषयी क्रियते, अन्यथा प्रथमवेलायामपि तस्य विसंभोगः, एवं द्वितीयतृतीयवारमपि, चतुर्थवारमावर्तस्यापि नियमतो विसंभोगः । वारत्रयेऽपि तस्य प्रायश्चितं मासलघु कारणे त्वन्यसांभोगिकेणापि सममुपधिमुत्पादयन् शुद्धः । एवं पार्श्वस्थादिभिर्गृहिभिर्यथाच्छन्दैश्च सह वेदतव्यिम् । प्रायश्रिश्चत्तविधिरिपतिथैव, नवरं यथाच्छन्दे मासगुरु चतुर्गुरुकमित्यपरे, योऽपि पार्श्वस्थादेः सङ्घाटकं प्रयच्छिति, तस्यापि मास लघु । तथा संयतीभिः संविग्नाभिरसंविग्नाभिर्वा सांभोगिकीभिस्सांभोगिकीभिर्वा सममुद्गमेन शुद्धमशुद्धं चोपधिमुत्पादयतश्चतुर्गुरुकम् एतावत् एतत् पुरुषवर्गेऽभिहितं संयतीवर्गेऽपि द्रष्टव्यम् [१] एवं षोडशभिरुत्पादनादोषैर्दशभिरेषणादोषैः सांभोगिकेन सममुपधिमुत्पादयन् शुद्धः, विपर्यासे प्रायश्चित्तविधिः पूर्ववत् [ २, ३ ] परिकम्मणत्ति परिकर्मणा नाम यदुपधिमुचितप्रमाणकरणतः संयतप्रायोग्यं करोति अत्र भङ्गाश्चत्वारस्तद्यथा-परिकर्मणा कारणे विधिना १, कारणेऽविधिना २, निष्कारणे विधिना ३, निष्कारणेऽविधिना ४ । अत्र प्रथमभङ्गः शुद्धः, द्वितीये मासलघु तपोगुरु, तृतीये मासलघु कालगुरुकं, चतुर्थे मासालघुद्वाभ्यां गुरु, संवज्ञिरन्यसांभोगिकैः समचतुर्थेष्वपभिङ्गेषु मासलघु,
For Private & Personal Use Only
www.jainelibrary.org
Jain Education International