________________
उद्देशक :- ५, मूल - १४४, [भा. २३४१] भाषमाणस्यानुग्रहप्रवृत्तस्तिष्ठति । । पर आह [भा. २३४२ ]
१३५
रस्स तस्स किं तु एद्दणं किलेसकरणेण । भन्नई एगुत्तुवयोग सद्धजणणं च तरुणाणं ।।
वृ- अथ तस्य स्थविरस्य जीर्णमहतः किमेतावन्मात्रेण क्लेशकरणेन । सूरिराह भण्यते, अत्रोत्तरं दीयते एवमाचारतस्तस्य सूत्रार्थाभ्यां सह एकत्वोपयोगोपयुक्तस्य तु सूत्रार्थाः सम्यग् लगन्ति तथा तरुणानां च श्रद्धाजननं कृतं भवति, तथा हि व्याख्यानमण्डल्या उत्थितमपि निजमाचार्यं जीर्णमहान्तमेवं विनयं कुर्वन्तं दृष्ट्वा चिन्तयन्ति । यद्यस्माकमाचार्यो जीर्णमहानप्येवं श्रुतस्य विनयं करोति ततोऽस्माभिस्तरुणैः सुतरां कर्तव्यः । । आह-शिष्यो यथा जीर्णमहत आचार्यस्यानुर्गहः क्रियते यथानुभाषमाणस्य एकपार्श्वे सन्निषन्नस्त्वग्वर्तितो वा तष्ठितु । एवमन्यस्यापि क्रियते ? क्रियते इति ब्रूमस्तथा चाह[भा. २३४३ ]
सो उगणी अगणी वा अनुभास्संतस्स सुणति पासंमि । नवइ जुन्नदेहो होउ बद्धासणो सुचिरं ।।
वृ-सजीर्णो महान् गणी आचार्य उपाध्यायो गणावच्छेदको वा अगणी वा अन्यो यः स्थाननियुक्तः सोऽनुभाषमाणस्य चिन्तापयत एकस्मिन् पार्श्वे सन्निषन्नस्त्वग्वर्तितो वा शृणोति, यतो न शक्नोति जीर्णदेही बद्धासनो भवितुं सुचिरं कालम् ।
मू. (१४५) जेनिगंधा निग्गंथीओ यसंभोइया सिया, नो हंकप्पइ अन्नमन्नस्स अंतिए आलोएत्तए । अत्थि या इत्थ केइ आलोयणारिहे: कप्पइ से तेसिं अंतिए आलोएत्तए; नत्थिवा इत्थ केइ आलोयणारिहे, एव ण्हं कप्पइ अनमन्नस्स अंतिए आलोएत्तए ।
[भा. २३४४ ] थेरो अरिहो आलोयणाए आयारकप्पितो जोग्गो ।
सायन हइ विवक्खेनेव सपक्खे अगीएसु ।।
वृ- स्थविरः पूर्वसूत्रेऽभिहितः, स च आलोचनाया अर्हः, सोऽपि च योग्य आलोचनाया भवति आचारकल्पिक आचारप्रकल्पाभिधानाध्ययनधारी तत एवं सति सा आलोचना न विपक्षे नापि सपक्षे अगीतेष्वगीतार्थेषु भवति, तत्र संयताः संयतीनां विपक्षः, संयत्यः संयतानाम् सपक्षः, संयताः संयतानां संयत्यः संयतीनाम् ।। तत्र विपक्षे सपक्षे चाऽगीतार्थेष्वालोचनाप्रतिषेधार्थमधिकृतं सूत्रम् अनेन सम्बन्धेनायातस्यास्य व्याख्या- ये निर्ग्रन्था निर्ग्रन्थ्यो वा सांभोगिकाः स्युस्तेषां, नो व्हं व्याक्यालङ्कारे, कल्पतेऽन्योन्यस्य परस्परस्यान्तिके आलोचयितुमगीतार्थत्वात् । अस्ति चेदत्र कश्चिदालोचनार्ह एवं सति कल्पते अन्योन्यस्यान्तिके आलोचयितुम्, एष सूत्रसंक्षेपार्थः । । अधुना भाष्यविस्तरःसंभोइत्ति भणिते संभोगाच्छविहो उ आदीए । भेदप्पभेदतो वि यनेगविहो होति नायव्वो ।।
[भा. २३४५ ]
- संभोइत्ति इति भणिते संभोगो विचार्यते, तत्रादौ संभोगः षड़विधो भवति । प्रभेदतोऽपि च, एकैकस्य भेदस्य प्रभेदतः पुनरनेकविधो भवति ।। तत्र प्रथमतः षड्विधमाहओह अभिग्गह दानग्गहणे अनुपालनाए उववाए । संवासंमि यछट्टो संभोगविही मुणेयव्वो ।।
[भा. २३४६ ]
बृ- ओघे उपध्यादी अभिग्रहे दानग्रहे अनुपालनायामुपपाते । एवमेते पञ्च संभोगा भवन्ति, षष्ठः
For Private & Personal Use Only
www.jainelibrary.org
Jain Education International