________________
१३४
व्यवहार- -छेदसूत्रम् - २-५/१४४
[भा. २३३५]
उवयारहीनमफलं होइ निहाणं करेइ वाणत्थं । इय निज्जए लाभो न होइ विभंग वलहो वा ।।
वृ- यथा उपचारहीनं निधानं अफलं भवति नोत्खनितं शक्यते इति भावः, अनर्थं वा करोति, वृश्चिकाद्युपद्रवकरणात् इत्येवमनेनैव दृष्टान्तप्रकारेण कृतिकर्माकरणे निर्जराया लाभो न भवति, प्रान्तदेवता कोपवशाद्विभङ्गो वा तम्मेपजायेत कलहो वा ।।
[भा. २३३६ ]
[भा. २३३७]
[भा. २३३८ ]
वृ- दूरस्थितो वा पृच्छति अथवा निषद्यायां संनिषन्नः पृच्छति, शृणोतीति भावार्थः । यदि वा अन्त्यासन्न ऊरुणा ऊरुं संघृष्य शृणोति । निविष्टोत्थिते चतुर्भङ्गी बोद्धव्या, सा चैवं, निविष्टो निविष्टं पृच्छति, १ निविष्ट उत्थितं पृच्छति २, उत्थितो निविष्टं पृच्छति ३, उत्थित उत्थितं पृच्छति ४ । । तथा अंजलेरकणम्, अर्थपरिसमाप्तौ प्रणामस्याकरणम्, तथा दिशोवि प्रेक्षमाणः पृच्छति, यदि वाऽधोमुख ऊर्ध्वमुखो वा शृणोति न गुर्वभिमुखः, अथवा येन तेन वा सह भाषमाणः शृणोति, अनुपयुक्तो वा शृणोति, हसित्वा पृच्छति ।। एतेषु सर्वेष्वपि स्थानेषु सूत्रे श्रूयमाणे प्रायश्चित्तं लघुको मासः, . अर्थे गुरुमासः, । तथानाभीत उपरि सूत्रं शृण्वतः कायकण्डूयने चत्वारो लघुकाः अर्थं शृण्वतश्चत्वारो गुरुकाः । नाभीतो ऽधस्तात् सूत्रश्रवणे कायकण्डूयने चत्वारो गुरुका, नवरं तपःकालयोरन्यतरेण गुरुकाः ।। तम्हा वज्रंतेनं ठाणाणेयाणि पंजलुक्कुडुणा । सोयव्व पयत्तेणं कितिकम्मं वा वि कायव्वं । ।
[भा. २३३९]
वृ- यस्मादेवमविनकरणे प्रायश्चित्तविधिः, तस्मादेतानि प्रागनन्तरमुपदर्शितानि स्थानानि वर्जयित्वा प्राञ्जलिना प्रकृताऽञ्जलिना उत्कुटुकेन प्रयत्नेनादरपरतया श्रोतव्यम्, कृतिकर्म चापि वन्दनमपि कर्तव्यम् । यद्यपि च वन्दनकेनोपस्थितं वाचनाचार्योऽनुजानाति तथापि क्षमाश्रमणं दत्वा कृतप्राञ्जलिना श्रोतव्यम् ।। [भा. २३४०]
दूरस्थो वा पुच्छर, अहवा निसिज्झाए सन्निसन्नो उ । अच्चासन्न निविड्डुट्ठिए य चउभंगो बंधव्वो ।। अंजलि पणाम अकरणं वि प्पेक्खंते दिसाहोउड्डमुहे । भासतं नुवउत्ते व हसंते पुच्छमाणेउ ।। एउ सव्वे वि सुत्ते लहुतो उ अत्थे गुरुमासो । नाभीतोवर लहूगा गुरुगमहो काप्यंकडुयणे ।।
तेन विधारेयव्वं पच्छावि य उट्ठिएण मंडलीतो । वेनिसन्नस्स व सारेयव्वं हवतिभूयो ।।
वृ- तेनापि श्रोत्रा यत् व्याख्यानमण्डल्यां सूत्रमण्डल्यां वा श्रुतं तत् मण्डलीत उत्थितेन पश्चादपि धारयितव्यम्, तस्य च धारयत उपविष्टस्य ऊर्ध्वस्थितस्य निषन्नस्य वा क्वचित् स्खलनतो तेनापि वाचनाचार्येण भूयो भवति स्मारयितव्यं गमयितव्यम् ।।
[ भा. २३४१ ]
अह से रोगो न होज्ज तहि भासंत एगपासंमि ।
सन्निसन्नो तुयट्टो वा अत्थई अनुग्गह पवत्तो ।।
वृ- अथ से तस्य स्थविरस्य रोगोन भवेत्तर्हि व्याख्यानमंडल्या उत्थितो भाषमाणस्य अनुभाषमाणस्य चिन्तापयत इत्यर्थः, एकपार्श्वे तत्सेवाबुद्धया संनिषन्नः सम्यग् निषद्यागतस्त्वग्वर्तितो वा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org