SearchBrowseAboutContactDonate
Page Preview
Page 135
Loading...
Download File
Download File
Page Text
________________ १३२ व्यवहार-छेदसूत्रम् -२- ५/१४२ ब्रूते, यन्मया कर्तव्यं तन्ममाज्ञापयेद्भावानिति । एवमुक्ते सा क्षपकेणभण्यते, किं मम कार्यमसंयत्या भविष्यति, ततस्तस्या देवताया अप्रीतिकमभूत् । अप्रीतिवत्या च तयोक्तमवश्यं तव मया कार्यं भविष्यति, ततो देवतया सर्वरत्नमयः स्तूपो निर्मितः, तत्र भिक्षवो रक्तपटा उपस्थिताः अयमस्मदीयः स्तूपः, तैः समं संघस्य षण्मासान् विवादो जातः, ततः संघो ब्रूत-को नामात्रार्थे शक्तः, केनापि कथितं यथामुकः क्षपकः, ततः संगेन स भण्यते, -क्षपक कायोत्सर्गेण देवतामाकम्पय, ततः क्षपकस्य कायोत्सर्गकरणं देवताया आकम्पनम् सा आगता ब्रूते, -संदिशत किं करोमि क्षपकेण भणिता तथा कुरुत यथा सङ्घस्य जयो भवति, ततो देवतया क्षपकस्य खिंसना कृता, यथा एतन्मया असंयत्या अपि कार्यं जातं एवं खिंसित्वा सा ब्रूते यूयं राज्ञः समीपं गत्वा ब्रूत, यदरिक्तपटानां स्तूप ततः कल्ये रक्ता पताका दृश्यतां, अथास्माकं तर्हि शुक्ला पताका, राज्ञा प्रतिपन्नमेवं भवतु, ततो राज्ञा प्रत्ययिकपुरुषैः स्तूपो रक्षापितः रात्रौ देवतया शुक्ला पताका कृता, प्रभाते दृष्टा स्तूपे शुक्ला पताका, जितं संघेन । मू. (१४३) थेराणं थेरभूमिपत्ताणं आयारपकप्पे नामं अज्झयणे परिभट्टे सिया कप्पइ तेसि संठवेत्ताण वा असंठवेत्ताण वा आयरियत्तं वा जाव गणावच्छेइयत्तं वा उद्दिसित्तए वा धारेत्तएव । एवं ताव पट्टे भिक्खुस्स गणो न दिजए सुत्ते । [भा. २३२८] नसुए माहुगणं हरेज थेरे अतो सुत्तं ।। - एवं उक्तेन प्रकारेण तावत्प्रनष्टे सूत्रे प्रकल्पनाम्न्यध्ययने भिक्षोर्गणो न दीयते । एवं स्थविरे आचार्ये नष्टश्रुते माहु निश्चितं गणं हरेदतः सूत्रं आह- अनेन सम्बन्धेनायातस्यास्य व्याख्या- स्थविराणां स्थरिभूमिं प्राप्तानामाचार्यपदप्राप्तानामाचारप्रकल्पो नामाध्ययनं परिभ्रष्टं स्यात् कल्पते तेषां सूत्रं संस्थापयतामसंस्थापयतां वा आचार्यत्वं वा यावत्करणादुपाध्यायत्वं इति परिग्रहः गणावच्छेदकत्वमुद्देष्टुं अनुज्ञातुं जीर्णमहत्वकारणतः सूत्रधरणशकनात् एष सूत्रसंक्षेपार्थः । । सम्प्रति भाष्यविस्तरःसुत्ते अनिते लहुगा अत्थे अणिते धारेति चउ गुरुगा । [भा. २३२९] सुत्तेण वायणा अत्थे सोही तो दोहणुन्नाया ।। वृ- इदं सूत्रमापवादिकमुत्सर्गतः पुनः सूत्रे अनागच्छति यदि गणं धारयति तदा चत्वारो गुरुकाः आज्ञादयश्च दोषास्तस्मादुभयधरेण गणो धारयितव्यः । किं कारणमत आह-सूत्रेण आगच्छता वाचनां ददाति । अर्थेन आगच्छता प्रायश्चित्तस्थानमापन्नानां शोधिं करोति, तस्मात् द्वाभ्यामपि सम्पन्नो गणधारणेऽनुज्ञातः ।। [भा. २३३०] अवि य विना सुत्तेणं ववहारे ऊ अपच्चतो होइ । तेन ऊभयधरो ऊ गणधारी सो अनुन्नातो ।। वृ- अपि च विना सूत्रेण व्यवहारे क्रियमाणे अप्रत्ययो भवति । तस्माद्वयवहारे अर्थनिर्देशं कुर्वता सूत्रमवश्यं उच्चारणीयं । यथा इदं सूत्रं । तस्मादयमेवात्र व्यवहारस्ततो भवति प्रत्ययस्तेन स गणधारी उभयधरोऽनुज्ञातः ।। [भा. २३३१] असति कडजोगी पुन अत्थे ये तंमि कप्पति धारेउं । जुन्न महल्लो सुत्तं न तरति पच्चज्जुयारेउं ॥ वृ- उभयधररस असति अभावेयः कृतयोगी, कृतयोगी नामयः पूर्वमुभयधर आसीत् नेदानीं, सोऽर्थे. समागच्छति गणं धारयितुं कल्पते । अथ केन कारणेन तस्य सूत्रमनेशत् । अत आह- 'जुन्नमहल्लो' Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003326
Book TitleAgam Suttani Satikam Part 22 Vyavahara
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages564
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_vyavahara
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy