SearchBrowseAboutContactDonate
Page Preview
Page 129
Loading...
Download File
Download File
Page Text
________________ १२६ व्यवहार-छेदसूत्रम् -२- ५/१४० गणावच्छेदिन्या गमनम् २ । तथा षष्ठेऽङ्गे ज्ञाताधर्मकथाख्ये बहवः सदृशा गमास्तथा च तत्रानेकाः कथानककोटयः सदृशपाठा विसदृशपाठास्त्वर्द्धचतुर्थाः कथानककोटयस्तदभिनवगृहीतंवर्तयतेपुनः पुनरस्मृतं च विस्मृतिमुपयाति, ततस्तत्स्मकरणार्थमुक्तपरिवाराया अपि गमनम् ३ । तथा अशिवादिभिरशिवावमौदर्यादिभिरुक्तसंख्याकपरिवारायागमनम्४ ।तथाषष्टप्रभृतीन्यङ्गानिसंयतीनां ‘सागरत्ति', स्वयंभूरमणसागरतुल्यानि तानि अभिनवगृहीतानि परावर्तनीयानि सन्ति अपरावर्तितानि नश्यन्ति, ततस्तेषां परावर्तनाय यथोक्तसंख्याकपिरवाराया अपि गमनम्, तदेवमधिकृतसूत्रकदम्बकप्रवृत्तौकारणान्यभिहितानि५ ।अधुनाशेषवक्तव्यतामाह-‘जातेत्ति'जातादिरुपः कल्पो वक्तव्यः, स च ऋतुबद्धे सप्तकः समाप्तकल्पः; तदूनोऽसमाप्तकल्पः, वर्षाकाले नवकः समाप्तकल्पस्तदूनोऽसमाप्तकल्पश्च, एकैको द्विधा-जातोऽजातश्च, गीतार्थी गीतार्थश्चेति; अत्र च भङ्गचतुष्टये प्रथमवर्जेषु शेषेषु त्रिषु भङ्गेषु प्राग्वत् यतना कर्तव्या ६ । तथा ऋतुबद्धे काले निरन्तरं साध्वीप्रेषणतोऽवलोकना कर्तव्या भणिता ७ । तदेवमभिहितानि कारणान्येतैः कारणैरायातस्यास्य सूत्रकदम्बकस्य व्याख्या, साचतथैव ।। तथाचाह[भा.२३०३] जहभणिय चउत्थे, पंचमम्मितहेवेविसंतुनाणत्तं । गमनत्थिमीससंबंधिवजए पूजितेलिंगे ।। वृ- यथा चतुर्थे उद्देशके निर्ग्रन्थसूत्राणां व्याख्यानं भणितम्, तथा पञ्चमेऽपि उद्देशके निर्ग्रन्थीसूत्राणामपिवक्तव्यम्, नवरंइदं नानात्वम्, तदेवाह-'इत्यादि-विष्वगभूतायांप्रवर्तिन्यांगमनं सर्वाभिरार्यिकाभिराचार्यसमीपे कर्तव्यम् । तच्च स्त्रीभिः सह, तदभाषे मित्रैःस्त्रीपुरुषैः, तेषामप्यभावे सम्बन्धिपुरुषैः, एतेषामप्यभावे सम्बन्धवर्जितैरविकारिभिः पुरुषैः, अथ सप्रत्यपायाः पन्थानः तर्हि यत्पूजितंलिङ्गंतस्मिन् लिङ्गे गृहीतेगमनम् ।। एतदेव सुव्यक्तमाह[भा.२३०४] वीसुंभियायसव्वासिंगमनं अद्धद्ध जावदोण्हेक्का । से संबंधि इत्थिसत्थेभावितमविकारितेहिंवा ।। - वृ-विष्वग्भूतायांशरीरात्पृथग्भूतायां मृतायामित्यर्थः,प्रवर्तिन्यामाचार्यसमीपेसर्वाभिर्गन्तव्यम्, तत्रच गतानामाचार्येण प्रवर्तिनी स्थापयितव्या, यदि तरुणीनां सर्वासां पथि प्रत्यवायस्तर्हि अर्धायाः परणितवयसस्ता व्रजन्ति, अथ सर्वास्तरुणप्रायाः कतिपयाः स्थविरास्ततो या मंदरुपास्तरुण्यो याश्च स्थविरास्ताः समुदायस्य चतुर्भागमात्रा व्रजन्ति, एवं तावद्वाच्यं यावत् द्वे जने (च, ते?) गच्छतः, द्वयोरप्यसंभवेएकाव्रजति ।ताः पुनः केन सार्थेन सह व्रजन्ति,ततआह-'सम्बन्धी त्यादिसम्बन्धिना स्त्रीसार्थेन सह गन्तव्यम, तदलोभेऽसम्बन्धिनापि स्त्रीसार्थेन, तस्याप्यलाभे पुरुषाये भाविताः सम्बन्धिनस्तेः समं व्रजेयुः, तेषामप्यलाभेऽसम्बन्धिनोऽपि येऽविकारिणः पुरुषास्तैः समम् । अथ सप्रत्यवायाः पन्थानः, तहिँ यत् यत्र देशे पूजितं लिङ्गं तेन गृहीतेन व्रजन्ति, एतच्च सुगमत्वान्न व्याख्यातम् ।।अत्रशिष्यः प्राह-यद्यप्याचार्येणप्रवर्तिनीस्थापयितव्यातर्हि ये एते द्वे सूत्रे “पवत्तिणी गिलायमाणी वएज्जा, मएनं कालगयाए इयंसमुक्कसियव्वा' इत्यादि, तथा “पवत्तिणी ओहायमाणी वएजा, मएनं ओहावियाए इयंसमुक्कसियव्वा" इत्यादि ते कथं नीयेते ।तत आह[भा.२३०५] असिवादिएसु फिडिया कालगए वावि तंमिआयरिए । __ तिग थेराणय असती गिलाण ओहाणिसुत्ताओ ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003326
Book TitleAgam Suttani Satikam Part 22 Vyavahara
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages564
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_vyavahara
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy