________________
उद्देशक : - ४, मूल - १२६, [भा. २२८१ ]
[ भा. २२८१]
१२१
थिरमउस्स असती अपडिहारिस्स चेव वच्च॑ति । बत्तीस जोयणाणि वि आरेण अलब्भमाणम्मि ।।
वृ- यो वसतौ यथा संसृतश्चम्पकपटोऽन्यो वा स्थिरमृदुकः संस्तारको अप्रतिहार्यः स गृहीतव्यः । तस्याभावे वसतेरेव सम्बन्धि य निवेशनं गृहं तस्यदानेतव्यस्तस्याप्यलाभे वाटकाद्बहिष्टोऽप्यानेतव्यस्तत्राप्यसति स्वग्रामे दूरन्तेऽपि तत्राप्यलाभे परग्रामादरर्धकोशात्तथाप्यलाभे कोशादपि एवमर्धकोशवृद्ध्या तावद्गन्तव्यं याव दुत्कर्षतोऽपि द्वात्रिंशतो योजनेभ्योऽपि । तथा चाहमृदुकस्याप्रतिहार्यस्य संस्तारकस्य वसत्यादावलाभेऽप्रतिहार्यस्यैव संस्तारकस्यानयनाय परग्रामे व्रजन्ति । तत्र च आरतोऽलभ्यमाने द्वात्रिंशति योजनान्यपि यावत् व्रजन्ति । एतदेव सुव्यक्तमाहवसहि निवेसन साही दूरानयनंपि जो उ पाउग्गो ।
[भा. २२८२ ]
असतीए पाडिहारिय मंगलकरणंमिनीणंति ।।
वृ- वसतौ यथा संस्तृत स्थिरमृदुकः संस्तारको मृगणीयस्तदभावे निवेशने अप्रतिहार्ये गवेषणीयस्तत्राप्यलाभे साहीत्ति वाटके तत्राप्यलाभे यः प्रायोग्योऽप्रतीहार्यः संस्तारकस्तस्य दूरादपि द्वात्रिंशद्योजनप्रमाणानयनं कर्तव्यं । एवमपि तथा रूपन्या प्रतिहार्यंस्य संस्तारकस्या सति अलाभे प्रतिहार्ये मंगलकरणे मंगलकरणनिमित्तं ध्रियमाणं नीणयन्ति आनयन्ति एतदेव स्पष्टतरमाहउगाली कण पुन मंगलबुद्धीए सारविज्जंतं ।
[भा. २२८३]
पुनरवि मंगलदिवसे अच्चियमहियं पवेसिंति ।।
वृ- उगालं फलकं नाम आर्यकप्रायकप्रभूतीनामावल्या समागतं चम्पकपटादिफलकं मंगलबुध्या सारविज्जंतं ध्रियमाणं, तथाहि -ते मङ्गलबुध्या तं फलकं धरन्ति । उत्सवादिषु च तं फलकं श्रीखण्डादिना अर्चयन्ति, । पुष्पादिभिर्महयन्ति न च कोऽपि तं फलकं परिभुङ्क्ते, एवं मङ्गलबुध्या साराप्यमानं साधवो याचन्ते । यथास्माकमाचार्याःस्थविरास्तेषामिदं फलकं प्रातिहार्यं समश्यत, अस्माकं विरतानां पूज्यास्ते देवानामपि पूज्याः । किं पुनर्युष्माकं ते एवमुक्ताः सन्तो ब्रूते सत्यं दद्मः केवलमुत्सवदिवसे आनेतव्यो येन वयं पूजयामस्ततः पुनरपिदास्यामः एव मुक्ते तं नीत्वा उत्सवदिवसे तस्यां पूजावेलायां प्रेषयंति, येना पक्कण उत्वक्कण दोषा न भवंति ततः पुनरपि तस्मिन् मंगल दिवसे अर्चितमहितं चंपकादिपट्टं कृतं वसतौ प्रवेशयंति
[भा. २२८४ ]
पुन्नंमि अप्पणंती अन्नस्स व वम्ढवासिणो देंति ।
मुत्तूण वुड्डवासिं, आवज्जइ चउलहुसेसे ||
वृ- पूर्वे वृद्धवासे क्वालगतत्वादिना यस्य सत्कश्चम्पकादिपट्ट स्तस्य तं समर्पयन्ति । अन्यस्य वा वृद्धवासिनो ददाति । वृद्धवासिनं मुक्त्वा यद्यन्यस्य शेषस्य समर्पयन्ति ततः शेषे शेषस्य समर्पणे तेषां प्रायश्चित्तमापद्यते चतुर्लघु इदृशस्य फलकस्यालाभे यदन्यत् अपरिशाटिफलकं तद प्रातिहार्यं मृगयन्ते । तदलाभे प्रातिहार्यमपि । एवं क्षेत्रकालवसतिसंस्तारकयतना कर्तव्या । एकतरयतनाविभागासंभवे त्रिविभाग यतना कर्तव्या । तस्या अप्यसंभवे एकविभागापीति गतं जङ्घाबलं क्षीणमिति द्वारम् || पडियरति गिलाणं वा सयं गिलाणो वि तत्थवि तहेव ।
"
[भा. २२८५ ]
भाविय कुलेसु अत्थति असहाए रीयते दोसा ।।
वृ- प्रतिचरति ग्लानं, यदि वा स्वयं ग्लानो जातस्ततस्तस्य वृद्धवासो भवति । तत्रापि तथैव
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org