________________
उद्देशक :- ४, मूल - १२६, [भा. २२६०]
११७
एषोऽपि सपराक्रमो विहर्तुमिति । एवमेतत्रयः प्रकारा गव्यूतद्वयेऽभिहिताः । एत एव त्रयः प्रकारा द्वार्द्धेगव्यूते द्रष्टव्याः । एतेषु त्रिष्वपिद्विकद्वार्धगव्यूतरूपेषु तस्यानुकम्पा विश्रामणादिरूपा वक्ष्यमाणा कर्तव्या । । सम्प्रतिचशब्दसूचितं तृतीयं प्रकारमुपदर्शयति
[भा. २२६१]
खेत्तेण अद्धजोयण कालेणं जाव भिक्खवेलाओ । खेत्ते काणय, जाण सपरक्कमं थेरं ।।
वृ- सूत्रपौरुषीमर्थपौरुषीं वा कृता कालतः प्रातर्वेलात आरभ्य यावद्रिक्षावेला भवति, तावत् यः क्षेत्रतोऽर्धयोजनं गव्यूतद्वयप्रमाणं व्रजति, तं जानीत क्षेत्रतः । कालतश्च सपराक्रमं स्थविरं तदेवं गव्यूतद्वयविषये चशब्दः सूचितः तृतीयः प्रकारत्रयदर्शित एवं द्व्यर्द्धगव्यूतेऽपि च द्रष्टव्यस्तथा चैतदर्थाख्यापनार्थमेव गव्यूतविषयं तृतीयं प्रकारमाह
[भा. २२६२] जो गाउयं समत्थो, सूरादारम्भ भिक्खवेलाओ । विहरउ एसो सपरक्कमो उनो विहरे तेन परं ।।
वृ- यः सुरात्सूरोद्गमादारभ्य यावद्भिक्षावेला भवति तावत् गव्यूतं गन्तुं समर्थ एषोऽपि सपराक्रम इति विहरतु । ततः परं गव्यूतमिति तावता कालेन गन्तुमशक्नुवन् नो विहरेत् । इदमुक्तं त्रिष्वपि गव्यूतद्वयादिष्वनुकम्पा कर्तव्येति । तत्र तामेवानुकम्पामाह
[भा. २२६३]
वीसामण उवगरणे, भत्ते पाने वलंवणे चेव ।
गाउय दिवदो अनुकंपे सा तिसुं होइ ।।
वृ- अन्तरान्तरा यत्र विश्रामणार्थं तिष्ठति, तत्र विश्राम्यते उपकरणे उपकरणविषयोऽ ऽनुकम्पा कर्तव्या, यत्तस्योपकरणं तदन्ये वहन्ति । यैश्च तस्य शीतं न भवति तादृशानि वस्त्राणि देयानि । तथा भक्तं पानं च तत्प्रायोग्यं शुद्धं न लभ्यते । तदा पञ्चकपरिहान्या तदुत्पादनीयं, यत्र च विषमं तत्र बाहुप्रदानादिनाऽबलम्बनं कर्तव्यम् । च शब्दात्स तेन कालेनोच्चालनीयो यस्मिन्नुष्णादिभिर्न परिताप्यते एषानुकम्पा त्रिषु गव्यूतद्व्यर्धगव्यूतद्विगव्यूतेषु भवति ज्ञातव्या । अथवा त्रिष्वनुकम्पेति प्रकारान्तरेण व्याख्यानयति ।।
[भा. २२६४] अहवा आहारुवही सेज्जा अनुकंप एस तिविहा उ । पढमालिदानविस्सामणादि उवही य वोढव्वे ||
वृ- अथवा आहारे उपधौ शय्यायां च । या अनुकम्पा एषा त्रिविधानुकम्पा भवति । तत्राहारे प्रथमालिकादानं, शय्यायां गतस्य विश्रामणादिमार्गे चोपधिर्वोढव्यः । साम्प्रतमपराक्रममाहखेत्ते अद्धगाउय कालेन य जाव भिक्खवेलाओ ।
[भा. २२६५]
खेत्णय जाणसु, अपरक्कमं थेरं ।।
वृ- यः कालगतः सूरोद्गमादारभ्य यावद्भिक्षावेला तावत् यः क्षेत्रतोऽर्धगव्यूतं याति तं क्षेत्रतः कालतश्च जानीतापराक्रमं स्थविरम् ।।
[भा. २२६६ ]
अन्नो जस्स न जायइ दोसो देहस्स जाव मज्झण्हो सो ।
विहरइ सेसो, पुन अच्छति मा दोहवि किलेसो ।।
वृ- प्रातरारभ्य यावन्मध्याह्नस्तावत्तस्य गच्छतो देहस्यान्यो दोषो भ्रम्यादिलक्षणो नोपजायते स विहरति शेषः पुनस्तिष्ठति कस्मादित्याह मा द्वयानामपि तस्य सहायानां च क्लेशो भूयादिति हेतोरन्यो
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org