________________
११६
व्यवहार-छेदसूत्रम् -२-४/१२६ सोऽपिनाभ्युद्यतविहारप्रतिपद्यते । तस्य शिष्यनिष्पत्त्यभावेनाभ्युद्यतविहारप्रतिपत्त्यशक्त्यावागच्छं परिपालयतो दीर्घायुषो वृद्धवासस्य कालः ।। एनामेवगाथां व्याख्यानयति[भा.२२५५] सुत्तागमो बारससमाचारियं देसाणदरिसणंतुकया ।
उवकरणदेहइंदिय तिविहं पुनलाघवंहोइ ।। वृ- बिद्यानाम सूत्रागमः । स च द्वादशवर्षाणि यावत् तदुपलक्षणमेतदर्थागमोऽपि विद्या सोऽपि द्वादशवर्षाणि कृतः । तथा चरितं नाम देशानां दर्शनं तदपि द्वादश वर्षाणि कृतं । लाघवं पुनस्त्रिविधं भवति । तद्यथा-उपकरणलाघवं, देहलाघवं, इन्द्रियलाघवं च । तत्रो पकरणलाघवं नाम यदतिरिक्तमुपकरणं न गृह्णाति, गृहीतं वारक्तद्विष्टः सन् सूत्रोक्त विधिना परिभुंक्ते, शरीरलाघवंयन्नातिकृशो नातिस्थूलः शरीरेण, इन्द्रियलाघवंयदिन्द्रियाणि तस्य वशे वर्तन्ते ।। [भा.२२५६] चउत्थ छठादि तवो कतो उअव्वोच्छित्ताए होइ सिद्धिपहो ।
सुत्तविहीए संजमो वुड्डो अह दीहमाउं च ।। वृ- तपश्चतुर्थषष्ठादिकं कृतं । तथा अव्यवच्छितौ क्रियमाणायां सिद्धिपथो मोक्षमार्गो देशितो भवति । तथासूत्रविधिना संयमः परिपालितः सच जातो वृद्धोऽथ दीर्घमायुः ।। [भा.२२५७] अब्भुज्जयमवएंतोअगीतसिस्सोवगच्छपडिबद्धो ।
. अच्छतिजुन्नमहल्लो कारणतो वा अजुन्नोवी ।। वृ- अभ्युद्यतविहारमशक्नुवन् अगीताः शिष्याः अद्यापि यस्यासौ वा गच्छप्रतिबद्धो गच्छपरिपालनमप्रवृत्तः सन् जीर्णो महान् वृद्धवासे तिष्ठति । अजीर्णोऽपि वा तरुणोऽपिवा कारणतः क्षीणजङ्घाबलतया रोगादिना वा वृद्धवासमुपसेवते, ।। तदेव कारणजातंगाथाद्वयेनाह[भा.२२५८] जंघाबले च खीणे गेलने सहाय ताव दुब्बल्ले ।
अहवावि उत्तमढे निप्पत्ती चेव तरुणाणं ।। [भा.२२५९] खेत्ताणंव अलंभे कय संलेहे य तरुणपडिकम्मे ।
एएहिं कारणेहिं, वुड्डावासं वियाणाहि ।। वृ- जवाबलं वा क्षीणं ग्लानत्वं वा तस्यान्यस्य वा जायं, असहायता वा समुत्पन्ना, दौर्बल्यं वा शरीरस्योपजातं । अथवा उत्तमार्थप्रतिपन्नोऽथवा तरुणानामात्मपरलक्षणानां निष्पत्तिः सूत्रतोऽर्थतश्च कर्तव्या, क्षेत्राणां वा संयमस्फीतिहेतूनामलाभः कृतः संलेखो वा प्रतिपन्नसंलेखनाको वर्तते । यदि वा तरुणस्य वा रोगविमुक्तस्य सतः प्रतिकर्मबलविवृद्धिकरणं समारब्धं ततो वृद्धवासस्तथा चाह-एतैः कारणैर्वृद्धावासं विजानीहि, तत्रप्रथमे द्वारेजवाबलंपरिक्षीणमित्येवं रूपं कियत्क्षेत्रंकियताकालेन गन्तुमशक्नुवन् विहरणार्हो भवति, ।कियद्वाअशक्नुवन् जवाबलपरिक्षीणइत्येतत्प्रतिपादयति[भा.२२६०] दुन्निवि दाऊण दुवे सुत्तं दाऊण अत्थवज्जं च।
. दोन्नी दिवड्डमेगं गाऊयं तीसु अनुकंपा ।। - वृ-द्वे पौरुष्यौ सूत्रपौरुषीमर्थपौरुर्षी चेत्यर्थः । दत्वा यावद्भिक्षावेला भवति तावद्यो द्वे गव्यूते व्रजति, एष सपराक्रमो विहर्तुं सुत्तं दाऊण अत्थवज्जं चेति सूत्रं सूत्रपौरुषीं दत्वा अर्थवर्ज अर्थपौरुषीमदत्वा यो भिक्षावेलात अर्वाक् द्वे गव्यूते व्रजति सोऽपि पराक्रमो विहर्तुं चशब्दोऽनुक्तसमुच्चयार्थः । स चैतत्सूत्रं पौरुषीमर्यपौरुषी वा दत्वा भिक्षावेलात आरतो यो द्वे गव्यूते याति
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org