________________
उद्देशक :- ४, मूल - १२६, [भा. २२५० ]
११५
बृ- मिश्रोनाम उभयगणावच्छेदकस्तत्र उभयगणावच्छेदके सति यः श्रमणीनां संयतीनां लाभः स खलु नियमात् ये पूर्वस्थितास्तत्र गणिनो यावदन्ये न गच्छन्ति तावत्तस्य गणिनो वेदितव्यः । सोऽन्येष्वाचार्येष्वागतेषु तेषामिति । तदेवं गतं कस्येति द्वारम् । । सम्प्रति कियन्तं कालमवग्रह इति व्याख्यानार्थमाह
[भा. २२५१] केयति काल उग्गहो तिविहो उउबद्धे १ वास २ वुड्ढे ३ य । मास चउमासं वासे गेलन्ने सोलमुक्कोसा ।।
वृ- कियन्तं कालमवग्रह इति शिष्येण प्रश्ने कृते सूरिराह-त्रिविधो भवति अवग्रहस्तद्यथा-ऋतुबद्धे वर्षे वर्षाकाले बुद्धवासे च । तत्र ऋतुबद्धे को उत्सर्गत एकं मासमवग्रहो वर्षे वर्षाकाले चतुरो मासान्, ग्लानत्वमधिकुत्योत्कर्षतः षोडश मासान् । अन्ये तु षोडश वर्षाणीत्याहुः । ।
[भा. २२५२]
वुड्डेस्स उ जो वासो वुड्ढि व गतो उ कारणेणं तु । एसो उ बुडवासो तस्स उकालो इमो होइ ।।
बृ- वृद्धस्य जरसा परिणतस्य परिक्षीणजङ्घबलस्य वासतो वासो बुद्धवासः, अथवा वृद्धः कारणवशेन रोगेण वृद्धिं गतो वासो वृद्धवासः एष खलु वृद्धवासो वृद्धवासशद्वार्थस्तस्य तु वृद्धवासस्य कालोऽयं वक्ष्यमाणो जघन्यादिभिन्नो भवति तमेवाह
[भा. २२५३]
अंतो मुहुत्तकालं जहन्नमुक्कोस पुव्वकोडीओ । मोत्तुं गिहि परियागं जं जस्स व आउयं तित्थे ।।
"
वृ- वृद्धवासो जघन्येनान्तर्मुहर्त कालं कथमिति चेदुच्यते- बुद्धवासबुद्ध्या स्थितस्यान्तर्मुहूर्तानन्तरं मरणभावादुत्कर्षतः पूर्वकोटीगृहिपर्यायं नववर्षलक्षणं मुक्त्वा नववर्षीना पूर्वकोटी इत्यर्थः । कथमेतावान् कालो वृद्धवासस्य लभ्यते इति चेत् ? कोऽपि नववर्षप्रमाण एवं श्रमणो जातः । स च श्रामण्यपरिग्रहात्तदनन्तरमेव प्रतिकूलकर्मोदयवशतः क्षीणजङ्घाबलतया रोगेण वा विहर्तुमसमर्थो जातस्तत एकत्र वासो यथोक्तकालमानो भवति । इदं चोत्कर्षतो वृद्धवासकालपरिमाणं भगवत ऋषभस्वामिनस्तीर्थे शेषतीर्थकरतीर्थान्यधिकृत्याह-यस्य वा तीर्थकरस्य तीर्थे यत् उत्कृष्टमायुः प्रमाणं वर्षनवकहीनं तस्य तीर्थे तावान् उत्कृष्टो वृद्धवासकालः । तत्रयोऽसौ जरापरिणामेन वृद्धवासीभूतः स एतादृशः ।।
[भा. २२५४] कयाविज्जा चरियं लाघवेणं ततो तवो देसितो सिद्धिमग्गो । अहाविहि संजम पालइत्ता, दीहाऊणो वुड्ढ वासस्स काले ।।
- विद्यानाम सूत्रार्थतदुभयग्रहणं तत्कृत, तद्यथा द्वादशवर्षाणे सूत्रग्रहणं कृतं । द्वादशवर्षाण्यर्थग्रहणं । तदनन्तरं चरितं देशदर्शनाय द्वादशवर्षाणि भ्रमणं कृतं । तथा सदैव लाघवेन उपकरणलाघवादिना वर्तितं ययाप्तं चतुर्थषष्ठादिरूपं नाना प्रकारं तपः तथा अनिगृहितबलवीर्येण देशदर्शनान्तरं द्वादशावर्षाण्यव्यवच्छित्तिं कुर्वता ज्ञानादिकः सिद्धिमार्गे देशितः सदैव च यथाविधिः श्रुतोपदेशेन सप्तदशविधः संयमः परिपालितः । तं सकलकालं संयमं यथाविधि पालयित्वा द्वादशवर्षाण्यव्यवच्छित्तिं कुर्वता यदि शिष्यो निष्पादितस्ततस्तं गणे स्थापयित्वा स्वयमभ्युद्यतविहारेण विहर्तव्यमिति भगवतामर्हतामुपदेशः, । अथ न कोऽपि शिष्यो निष्पन्नस्तर्हि गच्छः परिवर्द्धनीयः । यथा यद्यपि च निष्पन्नः कोऽपि शिष्यस्तथापि कश्चिदसमर्थो भवत्यभ्युद्यतविहारेण विहर्तु
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org