SearchBrowseAboutContactDonate
Page Preview
Page 121
Loading...
Download File
Download File
Page Text
________________ ११८ व्यवहार-छेदसूत्रम् -२- ४/१२६ दोषो नज्ञायते इत्युक्तं । तत्रान्यं दोषमाह- . [भा.२२६७] भमो वा पित्तमुच्छा वा उद्धसासोवखुब्भति । गति विरए विसंतंमुच्छादिसुनरीयति ।। वृ-यस्मिन् गतिविरतेऽपिसतिभ्रम आकस्मिकीभ्रमिः पित्तनिमित्तामूर्छा उर्ध्वश्वासोवा क्षुभ्यति चलति । आदिशब्दात् शिरोव्यथादिपरिग्रहो न रीयते, न गच्छति न विहारक्रमं करोतीति भावः, तस्य चापराक्रमस्य वृद्धावासेन तिष्ठतःसहाया दातव्यास्तेषांपरिमाणमाह[भा.२२६८] चउभागतिभागद्धे सव्वेसिंगच्छतो परीमाणं । संतासंतसतीए वुड्डावासं वियाणाहि ।। वृ-गच्छतोगच्छमधिकृत्यसाधूनांपरिमाणंकृत्वासर्वेषांचतुर्भागस्त्रिभागोऽर्धवासाहाय्यास्तस्य वृद्धावासप्रतिपन्नस्य दीयन्ते, । तत्र त्रिभागोऽर्द्ध वा दीयन्ते । संतासंतसतीए सद्भावेनासद्भावेन चेत्यर्थः । तत्र सद्भावेसन्ति साधवो भूयांसः केवलमगीतार्थास्ततस्तेसन्तोऽप्यसन्तः, । असद्भावो नसन्तिबहवः साघवः । एवं वृद्धावासंससहायजानीहि ।ततोगच्छतःसाधूनां परिमाणंज्ञात्वापरिमाणं ज्ञात्वासर्वेषांचतुर्भङ्गसहाया दातव्या इत्युक्तंततो गच्छपरिमाणंजघन्यादिभेदतआह[भा.२२६९] अट्ठावीस जहन्नेणउक्कोसेणसयग्गसो । सहाया तस्सजेंसिंतुउवट्ठाणानजायति ।। वृ-गच्छस्यपरिमाणंजघन्यतोऽष्टार्विसतिरुत्कर्षतशताग्रशः शतादारभ्ययावद्वात्रिंशत्सहस्त्राणि तत्राष्टाविंशतिकस्य गच्छस्य चतुर्भागः सप्त एतावन्तः सहायास्तस्य दातव्याः यैरुपस्थापना उप सामीप्येन सर्वदावस्थानलक्षणेन तिष्ठन्त्यस्यामिति उपस्थापना शय्या अजादिपाठांत् प्रत्ययः नित्यवसतिर्न जायते । इयमत्र भावना । प्रतिमासमन्यान्या वसतिर्न लभ्यते स चालाभो द्विधासदलाभोऽसदलाभश्च । तत्र सदलाभो नाम लभ्यन्ते वसतयः किन्त्वकल्पिका, असदलाभो मूलत एव न लभ्यन्ते वसतयः, । एवं सदलाभेनासदलाभेन वा प्रतिमासमन्यान्यवसत्यलाभे एकस्यामेव वसतौ जवाबलपरिक्षीणो वसति । तस्य च सहाया अष्टाविंशतिकस्य गच्छस्य चतुर्भागमात्राः सप्त प्रदत्तास्ते ऋतुबद्धे काले एकंमासं स्थित्वा गच्छंव्रजन्ति, । अन्य सप्त सहाया स्थविरस्यागच्छति, तेऽपि द्वितीये मासे परिपूर्णे गतास्ततोऽन्ये सप्तागच्छन्ति तेऽपि तृतीयमासे पूर्णेगतास्ततोऽन्ये सप्त सहाया आयान्ति तेऽपि चतुर्थमासं स्थित्वा गच्छं व्रजन्ति, ये प्रथमे मासे सप्तागच्छन्ते भूयः समागच्छन्ति, एवं त्रिमासांतरितः सर्वेषांपुनर्वारको भवति एवं वारेणवारेणागमनेतैर्नित्यवसतिदोषः परिहतीभवति, अथसदभावनाष्टाविशते रूनो गच्छो वर्तते यावदेकविशतिकस्तस्य त्रिभागे सप्त तेषां द्विमासांतरितो वारको भवति, तथैव सद्भावेन वा यदि चतुर्दशको गच्छो भवति तदा तेषामर्द्धन सप्त तेषामेकमासान्तरितः पुनरिकः एवं प्रतिमासमन्योन्यवसत्यभावे वृद्धस्यैवैकस्य वृद्धावासो भवतिन तु सहायानामथ सदभावेन असद्भावेन वा चतुर्दशगच्छेन सन्ति, तदा ते एव सप्तजना चिरकारलमपि तिष्ठन्तो यतनयातंवृद्धं परिपालयन्ति । अमुमेवार्थममिधित्सुराह[भा.२२७०] चत्तारिगा तिन्निदोन्निएक्को व होज्ज असतीए । संतासई अगीय ऊणाउअसंतउअसती ।। वृ-चत्वारः सप्तका वारेण वारेणवृद्धपरिपालनाय प्रेषणीयाः ।असतिसदभावेनवाष्टाविंशतेरभावे Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003326
Book TitleAgam Suttani Satikam Part 22 Vyavahara
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages564
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_vyavahara
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy