________________
११०
व्यवहार-छेदसूत्रम्-२- ४/१२६ वृ-अथसाधारणक्षेत्रेस्थितास्तेनसंस्तरंतितर्हि निर्गन्तव्यम् । तत्रच निर्गमने चतुर्भङ्गी वक्तव्या गाथायां पुंस्त्वनिर्देशःप्राकृतत्वात् ।तथायस्य श्रुतस्कन्धस्य निमित्तमुपसम्पन्नास्तत्निष्ठितंतस्मिन्निष्ठिते समाप्ते भूयः क्षेत्रं साधारणं जातम् । तत्र यदि भूयः सुखदुःखतां कुर्वन्ति सुखदुःखनिमित्तमुपसम्पदं प्रतिपद्यन्ते तथा निष्ठिते श्रुतस्कन्धे यः प्रधावितः पुनरपि प्रतीच्छिकैः पश्चात् रुद्धो व्याघातो वाऽशिवादिभिः कारणैरुपजातस्तत्रयदाभाव्यं तद्वक्तव्यमितिद्वारगाथासमासार्थः ।। [भा.२२२७] वत्थव्वनितिनउजेउपाहुणा नइयरेवा ।
उभयंचनोभयंवा चउभयणा होति एवंतु ।। वृ- यस्य ग्रामप्रधानस्य नगरप्रधानस्य वा नियोगेन तिष्ठन्ति साधवः स चतुर्धा तद्यथाआगन्तुकभद्रको नामैकोनवास्तव्यभद्रकः वास्तव्यभद्रको नामैकोनागन्तुकभद्रः २,आगन्तुकभद्रको वास्तव्यभद्रकश्च ३, नागन्तुकभद्रकोनापिवास्तव्यभद्रकः ४ । एतच्चतुभङ्गीवशादधिकृतापिचतुर्भङ्गी जाता । तद्यथा-प्रथमभङ्गवशात वास्तव्या निर्गच्छन्ति न प्राधूर्णका, नियोक्तुरागन्तुभद्रकत्वात, द्वितीयभङ्गवशात् प्राधूर्णका निर्गच्छिन्ति न इतरे वा द्वितीयभङ्गे नियोक्तुर्वास्तव्यभद्रकत्वाचतुर्थभङ्गवशात् उभवं प्राधूर्णका वास्तव्याश्च निर्गच्छन्ति, । उभयानपि प्रतिनियोक्तुरभद्रत्वातृतीयभङ्गवशान्नोभयंवास्तव्याप्राधूर्णकाश्चनिर्गच्छन्ति ।उभयानपिप्रतितस्यभद्रकत्वात् । एवममुना प्रकारेण चतुर्भजनाचतुर्भङ्गी भवति । तत्र प्रथमभङ्गमधिकृत्य विशेषमाह[भा.२२२८] आगंतुभद्दगंमी पुवट्टियागंतुजइपुनो एज्जा ।
तंमि अपुन्नेमासे, संकमतिपुनोवि सिंखेत्तं ।। वृ-आगन्तुकभद्रके नियोक्तरिये पूर्वस्थितास्तेवक्ष्यमाणचतुर्भागार्धभागगमनयतनया गच्छन्ति, तथाप्यसंस्तरणे सर्वात्मना गच्छन्ति । ते गत्वा यद्यपूर्णे एव मास तस्मिन् क्षेत्रे पुनरागच्छेयुस्तदा । सिं तेषांप्रत्यागतानां क्षेत्रसंक्रामति । तेषां तदाभाव्यं भवतीतिभावः । कारणतोगत्वा पुनरपूर्णे एव मासे प्रत्यागमनात् । अथसाधारणमुभयेषांतत्क्षेत्रमासीत् ।मावच्चमुअम्ह साहारणमिति व्यवस्थाकरणात् तदातेषांपुनःप्रत्यागतानांसाधारणेन क्षेत्रसंक्रामति । द्वितीयंभङ्गमधिकृत्याह[भा.२२२९] वत्थव्वभद्दगंमीसंधाडगजयणतहवि उअलंभो।
आगंतुनेतितउअत्थति यो पवायगोनवरं ।। वृ-वास्तव्यभद्रकेयोक्तरितेषामागन्तुकानामसंस्तरतामियंयतना वास्तव्याआगन्तुकैः सममेकैकेन सङ्घाटेन भिक्षांहिण्डन्ते, अथतथाप्यलाभस्तर्हिनिर्गच्छति, तत्रेयंभङ्गचतुष्टयेनयतना-आगन्तुकानां चतुर्भागो निर्गच्छति, न वास्तव्यानां १, वास्तव्यानां चतुर्भागो निर्गच्छति नागन्तुकानां २, वास्तव्यानामपि चतुर्भागा आगन्तुकानां च चतुर्भागः ३, उभयेषामपि चतुर्भागागमने चतुर्थः ४ ।स चात्रशून्यो गमनमन्तरेणासंस्तरणात् । एवमप्यसंस्तरणेऽर्द्धार्द्धगमनेन यतना प्रथमभङ्गेऽपि द्रष्टव्या । स चात्रापि पूर्वप्रकारेण शून्यः । अथैवमपि न संस्तरति तत आगन्तुकाः सर्वे निर्गच्छन्ति । नवरमेक: प्रवाचकस्तिष्ठति येन वास्तव्यान् प्रवाचयति । अथ सोऽप्यसंस्तरणे स्वशिष्यैः सह गतस्ते च वास्तव्यास्तमुपसम्पन्ना यदि मावच्चह साहारणमिति व्यवस्थाकारणत उभयेषांसाधारणंतत क्षेत्रंततो यदिगत्वापुनरपिअपूर्णेएवमासेतत्रक्षेत्रेप्रत्यागच्छन्ति । तदाकृतायामुपसम्पदितेषामेव प्रत्यागतानां क्षेत्रमाभाव्यतयासंक्रामति ।यदिवासाधारणेन ।साम्प्रतमनयोरेवभंग्योराभवनव्यवहारशेष उच्यते ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org