________________
व्यवहार-छेदसूत्रम् - २-४/१२६ जिनकल्पिकादयस्तेषामप्यवग्रहो नास्ति । किमविशेषेण सर्वेषां, नेत्याह-मुक्त्वा यथालब्दान् । तत्रापि गच्छप्रतिबद्धान् तेषामवगृहो भवति गच्छप्रतिबद्धत्वात्, अन्येषां तु सर्वेषामपि नास्ति ।। आसन्नतरा जे तत्थ, संजया सो व जत्थ निच्छरइ । तहियं देतुवदेसं, आयपरं ते न इच्छंति ।।
[भा. २२१६]
वृ- तेषां गच्छनिर्गतानां जिनकल्पिकादीनां यो व्रतग्रहणार्थमुपतिष्ठति तं ते न प्रव्राजयन्ति । तथा कल्पत्वात् । किन्तु ये तत्रासन्नतराः संयताः स्थितास्तत्रोपदेशं ददति । यथा अमुकानां समीपे गत्वा प्रव्रजेति । अथवा जानन्ति श्रुतवलतो ये दूरे स्थितास्तत्र स एष निस्तरिष्यति । तदेतत् ज्ञात्वा यत्र स निस्तरति तत्रोपदेशं प्रयच्छन्ति परमार्थतः पुनस्ते आत्मपरमात्मगच्छपरगच्छविभागं नेच्छति, स्थविरकल्पादुत्तीर्णत्वात्, ।। [ भा. २२१७]
१०८
अगीय समण संजइ गीयत्थ परिग्गहाण खेत्तं तु । अपरिग्गहाण गुरुगा न लभति सीसेत्थ आयरिओ ।।
वृ- अगीतानामगीतार्थानां श्रमणानां च गीतार्थपरिग्रहाणां गीतार्थपरिगृहीतानां क्षेत्रमवग्रहो भवति, । इयमत्र भावना-येऽगीतार्था अपि साधवो गीतार्थपरिगृहीता विहरन्ति वा अपि संयत्यो गीतार्थपरिगृहाणां गीतार्थपरिग्रहरहितानां विहरतां प्रायश्चित्तं चत्वारो गुरुका इत्येषां च संयतानां संयतीनां च गीतार्थाऽपरिगृहीतानां यः परिव्राजक आचार्यः सोऽत्र शिष्यान् स्वदीक्षितान् न लभते, परिगृहीतंतयैव तेषां दीक्षणात् । [भा. २२१८]
. गीयत्थागते गुरुणा असती एगानिएवि गीयत्थे । समोसरणे नत्थि उग्गहो, वसहीए उमग्गण अक्खेते ।।
वृ- ये ते स्वयमगीतार्थ गीतार्थाः परिग्रहरहिता वर्धन्ते यद्यन्यस्मिन् गीतार्थे आगते तस्योपसम्पदं न प्रतिपद्यन्ते, तदा तेषां प्रायश्चित्तं चत्वारो गुरुकाः, । अथान्यो गीतार्थ उपसम्पदार्हो नायातः कारणवशतः कथमप्येकाकी जातस्तस्य गीतार्थस्याशठस्य परिवाररहिततत्वेनैका किनोऽपि क्षेत्रमाभवति । गतं कस्येति द्वारमिदार्नी कस्मिन्वेति द्वारमधिकृत्याह-यत्र यावन्ति दिनानि सङ्घस्य समवसरणं तत्र तावन्ति दिनान्यवग्रहो न भवति । एवं जिनस्नानादिषु मिलितानां यावन्महिमा तावदवग्रहाभावः एतत्सर्वं समवसरणेनास्त्यवग्रह इत्यनेन सूचितमेवमक्षेत्रेवग्रहाभावः अक्षेत्रेऽपि वसतौ मार्गणाऽवग्रहस्य भवति । सा चैवमक्षेत्रे वसतिषु समकं स्थितानां साधारणं क्षेत्रं पश्चादागतानां तु न भवतिसेसं सकोसजोयण पुव्वग्गहियं तु जेण तस्सेव ।
"
[भा. २२१९]
समगोग्गह साहारं पलागतो होइ अक्खेत्ती ।।
- शेषं क्षेत्रमवग्रहो भवति, तच्च प्रमाणतः सकोशयोजनं पञ्चगव्यूतानीत्यर्थः । तत्रापि येन पूर्वमवगृहीतं तस्यैव तत्क्षेत्रमावहति, नशेषस्य । अथ समकमेव तस्यावग्रहः कृतस्तत आह-साधारणं तदा तेषां क्षेत्रं यस्तु पश्चादागतः स भवत्यक्षेत्रो न तस्याभवति क्षेत्रमितिभावः ।
[भा. २२२०]
अब्भागते कहं तो, उवसंपग्गो तहिं च ते सव्वे ।
संकंतो उवकते, साहारणे तस्स जो भागो ।।
वृ- अन्यः कोऽप्याचार्यः कथयन् बहुश्रुतः पश्चादागत ते च पूर्वस्थिताः सर्वेऽपि तस्मिन्नागते कथयत्युपसम्पन्नाः तदा तस्मिन् कथयति सोऽवग्रहः संक्रान्तस्तस्याभाव्यं तत् क्षेत्रं जातमिति भावः ।
For Private & Personal Use Only
www.jainelibrary.org
Jain Education International