________________
उद्देशक : - ४, मूल - ११८, [भा. २१७९]
[ भा. २१७९]
१०१
पेहाभिक्ख किती उकरेंति सो आविते पवाएति । न पहव्वंत दोहवि गीलाणमादीसु च न देज्जा ।।
वृ- शैक्षतरस्य शिष्या रत्नाकिस्य सम्बन्धिनो वस्त्रादेः प्रेक्षां प्रतिलेखनां कुर्वन्ति । तथा तद्योग्यांभिक्षामानयन्ति । कृतिकर्मविनयो विश्रामणा च तत् कुर्वन्ति, किमुक्तं भवति यदाज्ञापयति तत्कुर्वन्ति वाचनादिपरिश्रान्तस्य च विश्रमणमिति स चापि रत्नाधिकस्तान् प्रवाचयति सूत्रं पाठयत्यर्थं च श्रावयतीत्यर्थः । कारणे असती इत्यस्य व्याख्यानमाह-न पहुप्पंते इत्यादिते शैक्षतरशिष्या ग्लानादिषु प्रयोजनेषु व्यापृतास्ततो न प्रभवन्ति प्रपारयन्ति साधव इति सहायं न दद्यात् । यदिवा द्वावेन तौ जनो ततः किं दीयतामिति न दद्यात् । अधुना सभावो वा इत्यस्य व्याख्यानमाहअत्तीकरेज्जा खलु जोवि दिन्ने, एसोवि मज्झंति महंतमानी । न तस्स ते देइ बहिं तु नेनुं तत्थेव किच्चं पकरिंति जं से ।।
[भा. २१८०]
वृ-यो वितीर्णान् साधूनात्मीकुर्यात्, यश्चैषोऽपि शिक्षाधिपतिः शैक्षतरको ममेति महामानी, तस्य तान् साधून् बहिस्तस्मात् स्थानादन्यत्र विहारक्रमेण नेतुं न ददाति । किन्तु यत्से तस्य कृत्यं करणीयं तत्रैव स्थितस्य सतः कुर्वन्ति अथवा
[ भा. २१८१ ]
वारएण से देइ न य दावेइ वायणं । तहवि भेदमिठंत अविकारी उकारए ।।
वृ- वारेण वारेण तस्य शुश्रूणकमेकैकं साधुं नियुङ्कते न च तस्मात्साधूनां वाचनां दापयति, मा स गणभेदं कार्षीरितिहेतोः । अथैवमपि दुस्वभावतया गणभेदं करोतितत आह-तथापिएवमपि क्रियमाणे गणभेदं कर्तुमिच्छति योऽविकारी दुर्भेदः साधु स्तेन तस्य कृत्यं कारयति
मू. (११९) दोसाहम्मिया एगयओ विहरंति तंजहा से हे य राइनीए य । तत्थराइनीए परिच्छन्ने, सेहतराए अपलिच्छन्ने इच्छा रायनीए सेहतरागंउवसं पज्जेज्जा, इच्छा नो उवसंपज्जेज्जा, इच्छा भिक्खोववायं दलयइ कप्पागं, इच्छा नो दलयइ कप्पागं ।।
वृ द्वौ साधर्मिकावेकतः संहतौ विहरतस्तद्यथा शैक्षो रत्नाधिकश्च तत रानिकः परिच्छन्नः परिवारोपेत इत्यर्थः । शैक्षतरकोऽपरिच्छन्नः परिवाररहितस्तत्र रानिके रत्नाधिकस्येच्छा यदि प्रतिभासते शैक्षतरकमुपसम्पद्यते । अथ नेच्छा न प्रतिभासते तर्हि नोपसम्पद्यते भिक्षामुपपातं च कल्पं यदीच्छा तर्हि ददाति । अथादातुमिच्छा तर्हिन ददाति । एष सूत्रसंक्षेपार्थः । अधुना भाष्यविस्तरःरायनिय परिच्छन्ने उवसंप पलिच्छओ य इच्छाए ।
[भा. २१८२]
सुत्तत्थ कारणे पुन पलिच्छयं देति आयरिया ।।
वृ- रात्निके रत्नाधिके द्रव्यतः परिच्छन्ने परिवारोपेते सति तेन शैक्षतरकस्य उपसम्पत् परिच्छदश्च इच्छया दातव्यः, । इयमत्र भावना-स यदि शैक्षतरकोऽवमरत्नाधिकस्तुल्यश्रुतो गुरुरत्नाधिकेन सह ततः स रत्नाधिकश्चिन्तयति । मा नूनमेतस्य भिक्षाहिण्डनव्याक्षेपेण च सूत्रार्था नश्येयुस्ततः संघाटं ददाति । अथवा मा एष समानगुरुकुलवासी सहाध्यायी द्रव्ये परिच्छदेनापरिच्छदो भूयात्सहाध्यायान्ते वासिस्नेहतः संघाटं ददात्यालोचनां प्रयच्छति । अल्पश्रुतस्य तु परिच्छदमुपसम्पदं वा ददातीति । अथ स शैक्षतरको रत्नाधिकाद्बहुश्रुतस्तदा नियमत उपसम्पत्तव्यः, परिच्छदश्च तस्य दातव्यस्तथा चाहसूत्रार्थकारणात्सूत्रार्थं गृहीतुकामाः पुनराचार्या उपसम्पद्यन्ते परिच्छदं च ददाति । एतदेव स्पष्टयति
For Private & Personal Use Only
www.jainelibrary.org
Jain Education International