________________
१००
व्यवहार-छेदसूत्रम् -२-४/११८ उवसंपयावहगयाइहइंपुवसंपया तेसिं ।। वृ-बहवेसाहम्मियाइत्यतसूत्रात्साधर्मिकत्वमनुवर्ततेवाशब्दःसम्बन्धस्य प्रकारान्तरतोपदर्शनार्थः इमावपिचाधिकृतमूत्रोपात्तौशैक्षरत्नाधिको साधर्मिकौततः साधर्मिकप्रस्तावादधिकृतसूत्रोपनिपातः तृतीयप्रकारः । भिक्खूगणातो अवकम्म अन्नंगणं उवसंपज्जित्ताणं विहरेज्जा इत्यत उपसम्पत्प्रकृता वाशब्दः प्राग्वदिहाप्यस्मिन्सूत्रेतयोः शैक्षरत्नाधिकयोरुपसम्पदभिधीयते इत्यधिकृतसूत्रारंभइत्येष सूत्रसम्धन्धः । अस्य व्याख्या द्वौ साधर्मिकौ समानगुरुकुलावेकतः सह तौ विहरतस्यद्यथा-शैक्षो रात्निकश्चतत्रयः शैक्षः सपरिच्छन्नः परिवारोपेतः,रानिको रत्नाधिकोऽपरिच्छन्नः परिवाररहितइत्यर्थः तत्रशैक्षतरकेणरत्नाधिकउपसम्पत्तव्यस्तथा शैक्षतरको रत्नाधिकस्य भिक्षामुपपातंच विनयादिकंच कल्पाकं कल्पनीयंददातिएषसूत्रसंक्षेपार्थः ।अधुनाभाष्यविस्तरः - [भा.२१७५] सेहम्मिपलिच्छन्ने उवसंपय दोण्हवी पलिच्छातो।
वोवत्थे मासलहुओ कारण असईसभावोवा ।। वृ-तौद्वावपिजनौसहाध्यायिनौसब्रह्मचारिणौ । तत्रयः शैक्षतरकः सपरिच्छन्नोद्रव्यपरिच्छदोपेतः परिवारसहित इत्यर्थः । भावपरिच्छेदेन पुनर्बयोरपि परिच्छेदोऽस्ति । तत्र शैक्षे द्रव्यतः परिच्छन्ने सति तेन रत्नाधिकस्योपसम्पत् दातव्या । ततो जघन्यतः संघाटो रत्नाधिकस्स देव उत्कर्षतो बहवोऽपि दातव्याः तथा शैक्षकेण रत्नाधिकस्य पुरत आलोचनीयं रत्नाधिकेन शैक्षकस्य पुरतोऽन्यथा वोवत्थे विपर्यासे उभयोरपिप्रायश्चित्तंमासलघु । तथाकारेणग्लानादिलक्षणेव्यापृततया द्वावेवतौ जनावित्यसति सहायस्याभावे न दद्यादपि सहायं, स्वभावो वा तस्यात्मीयकरणादिलक्षणस्ततो न ददाति सहायं, किन्त्वौचित्येनतस्य कृत्यं कारयति, ।एषद्वारगाथासंक्षेपार्थः साम्प्रतमेनामेव विवरीषुःप्रथमतः पूर्वार्धं[भा.२१७६] सज्झतिवासिणो दोविभावेन नियमसो छन्नो ।
रायणिए उवसंपय सेहतरगेनकायव्वो ।। वृ-तौ द्वावपि सहाध्यायिनावेकस्य गुरोररन्तेवासिनौ च द्वावपि भावेन ज्ञानादिना नियमसो नियमेनच्छन्नौ ज्ञानादिरूपभावपरिवारोपेतावित्यर्थः । द्रव्यपरिच्छेदेन पुनः शैक्षतरक एवोपेतस्तत्र शैक्षतरकेणरात्निको रत्नाधिकस्योपसम्पत्कर्तव्या । वोवत्थे मासलहुतो इत्यस्य व्याख्यानार्थमाह[भा.२१७७] आलोइयंमि सेहेन तस्स वियडे पहराइनितो ।
इतिअकारणमिलहगो अवरोपरगव्वतोलहगा ।। . वृ- प्रथमतः शैक्षतरकेण रत्नाधिकस्य पुरत आलोचनीयं, तेनालोचितः पश्चाद्रत्नाधिकस्तस्य शैक्षतरस्य पुरतो विकटयत्यालोचयति, एतच्चेतौ नकुरुतस्ततइतिएतस्याकरणेद्वयोरपिप्रत्येकंलघुको मासः प्रायश्चित्तं, अवरोपरगव्वतो लहुगा इति यदि शैक्षतरको द्रव्यपरिच्छेदेनाहं परिच्छन्न इति गर्वतो रत्नाधिकस्य पुरतो नालोचयति तदातस्यापिप्रायश्चित्तंचत्वारो लघुकाः एतदेवोपदेशद्वारेणस्पष्टयति । [भा.२१७८] एगस्स उपरीवारो बीइए रायनियत्तवादोय ।
इइगव्योन कायव्वोदायव्वो चेव संघाडो ।। . वृ- एकस्य परिवारोऽस्ति द्वितीये रात्निकत्ववादः, रत्नाधिकोऽयमिति प्रवाद इति एवं रूपो गर्यो द्वाभ्यामपि न कर्तव्यः । किन्तु परस्परमालोचयितव्यमन्यथा चतुर्लघुकप्रायश्चित्तापत्तेर्दातव्यश्च शैक्षतरकेणजघन्यतोऽपिरत्नाधिकस्य सङ्घाटः ।सम्प्रतिभिक्खोवायं च दलातिकप्पागमिति
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org