________________
उद्देशक :- ४, मूल - ११७, [भा. २१६७ ]
९९
वृ- ग्लानस्य वा कोऽपि वैयावृत्त्यकरणाय प्रेषयति साधुं अथवा स्वयं ग्लानः सन् न शक्नुवत्कमपि शिष्यं करोति, सर्वेऽप्येते आचार्यस्याभाव्याः तथा यदि सशिखाकः परस्मै प्रेष्यते तर्हि स यस्य प्रेषितस्यस्यैवाभवति । अथाशिखाकः परस्मै प्रेरितस्तर्हि स प्रेषयितुरेवाभाव्यो न परस्य तथा चाह पेसंतस्स उ असिहो ससिहो पुन पेसितो जस्स । अत्र परः प्रश्नमाहचोदेती कप्पंमी पुव्वं भणियं ति पेसितो जस्स ।
[भा. २१६८ ]
ससिहो वा असिहो वा असंथरे सो नु तस्सेव ।।
वृ
ननु पूर्वकल्पे भणितं यस्य सशिखो वाऽशिखो वा प्रेषितः स तस्यैवा
संस्तरणे सति भवति । ततः कथम त्राशिखाकः प्रेषयितुराभाव्योऽभिहित इति अत्रोत्तरमाहभन्नइ पुव्वत्तातो पच्छा वृत्तो विही भवे बलवं ।
[ भा. २१६९]
• चोदयति प्रश्नं करोति
कामं कप्पे भिहियं इह असिहं दाउ न लभतिउ ।।
वृ भण्यते अत्रोत्तरं दीयते पूर्वोत्काद्विधिः पश्चादुक्तो विधिर्बलवान् भवति ततो यद्यपि कामं कल्पेऽभिहितं तथापीहाशिखं दातुं न लभते । अन्यच्च
[भा. २१७०]
संविग्गाण विही एसो असंविग्गे न दिज्जए । कुलिव्वो वा गणिव्वो वा दिन्नं पितं तु कठए । ।
1
वृ- एष दानविधिः संविज्ञानां भणितो असंविज्ञे असंविज्ञस्य पुनः सर्वथा न दीयते न दातव्यः, अथ कथमपि केनपि दत्तो भवतितर्हि तं दत्तमपि कुलसत्को वा गणसत्को वा कर्षयति । ।
[भा. २१७१]
खित्ताती आउरे भीते अदिसत्थीव जं दए ।
सचित्तादि कुलादीओ भुज्जो तं परिकट्ठए ।।
- क्षिप्रादिरादिशब्दात् दृप्तयक्षाविष्टादि परिग्रहः । आतुरो मरणचिह्नान्युपलभ्यात्याकुलो भीतः किमपि मे राजप्रद्विष्टादिकं करिष्यति न विद्म इति भयाकुलोऽअदिसत्थी वाधिकृतां दिशं मोक्षकामो यद्ददति परस्मै सचित्तादिकं तद्भूयः कुलादिरादिशब्दात् गणपरिग्रहः परिकर्षयति तदेतत् प्रतीच्छकानधिकृत्योक्तमधुना शिष्यानधिकृत्याह
[भा. २१७२] नालबद्धे अनाले वा सीसंभि उनत्थि मग्गणा । दोक्खरक्खरदिठंता, सव्वं आयरियस्स उ ।।
वृ- शिष्ये स्वदीक्षितेऽयं नालबद्धोऽयमनालबद्ध इति विषयविभागेन नास्तिमार्गणा किन्तु यत्ते शिष्या लभन्ते सचित्तादि तत्सर्वमाचायस्याभवति, केन दृष्टान्तेनेत्याह-द्वयक्षरदृष्टान्तेन तद्व्यक्षरो दासः खरो गर्दभस्तदृष्टान्तात् दासेन मे खरः क्रीतो दासोऽपि मे इत्येवं लक्षणात् ।।
मू. (११८) दो साहम्मिया एगतो विहरंति, तं जहा- सेहोरायनिए य तत्थ सेहतराए पलिच्छन्ने, रायनीए अपलिच्छन्ने से हतराएणं राइनीए उवसंपज्जियव्वे, भिक्खोववायं च दलयइ कप्पागं ।। चारियसुत्तेभिक्खू थेरो वि य अहिकतो इह तेसिं ।
[भा. २१७३]
दोह वि विहरतानं का मेरा लेसतो जोगो ।।
वृ- चरिकासूत्रे प्राक् भिक्षुः स्थविरश्चाधिकृतस्तत इहास्मिन सूत्रे तयोर्द्वयोर्विहरतोः का मर्यादा व्यवस्थितिरित्यभिधीयते, एष लेशतः पूर्वसूत्रेण सहास्स सूत्रस्य योगः सम्बन्धः पुनः प्रकारान्तरेणाहसाहम्मियतणं वा अनुयत्तित्ति होति मे विसाहम्मी ।
[भा. २१७४]
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org