SearchBrowseAboutContactDonate
Page Preview
Page 100
Loading...
Download File
Download File
Page Text
________________ उद्देशक : :- ४, मूल- ११७, [ भा. २१५७] ९७ कृतो यथाहं पश्चात् शीते शीतकाले चशब्दादन्यस्मिन् वा काले उपसम्पत्स्ये । तेषां चैतावद्वय एवं भूतस्य शरीरस्य वर्ण इत्थंभूतं च शीतकालप्रायोग्यमनन्तकं वस्त्रमेवं वयसा चिह्नश्च सङ्गेतं स्पष्टयति । उक्तं चएवेइएहिं दिनेहिं तुज्झसगासं अवस्स एहामो । संगारो एव कातो चिंधानि य तेसि चिंधेइ ।। अत्राभाव्यविधिमाह[भा. २१५८ ] नालबद्धाउ लब्धंते, जे य तमभिधारए । जे यावि चिंधकालेहिं संवयंति उवट्टिया ।। बृ- यदा तमुपसम्पत्स्यमानमभिधारयन्ति नालबद्धाः पूर्वोपस्थिता यथासोऽत्र सत्वरमुपसम्पत्स्यते, तदा ते नालबद्धास्तेन लभ्यन्ते, ये चापि घटितज्ञातयो नालबद्धादिदीक्षिताश्चिह्नः कालेन च तेऽपि तस्याभवन्ति, विसंवदन्तस्तुगुरोरथ चिह्नः संवादोऽस्ति, न कालतस्तथा हि यस्मिन् काले पूर्वमुपस्थिताः कथिता न ते तस्मिन् काले आयाताः, किन्तु कालान्तरे, सोऽपिच सङ्केतदिवसैर्नायातस्ततः स ते चापृच्छयन्ते । यत्र यदि केनापि कारणेन ग्लानत्वादिना स तेवा नायातास्तदास्ति तत्वतः कालसंवाद इति ते तस्याभाव्याः । एतदेवाह[भा. २१५९] अन्नकाले वि आयाया, कारणेण उकेणवि । तेवि तस्साभवंती उ विवरीयायरियस्सउ ।। बृ- ये कारणेन ग्लानत्वादिना केनचित्पूर्वमुपस्थिता अन्यकालेऽपि यस्तेनोपसम्पद्यमानेन कालो निर्द्दिष्टस्तस्मादन्यस्मिन्नपि काल आयातास्तेऽपि तस्याभवन्ति, विपरीतास्तु कारणमन्तरेण कालविसंवादिन आचार्यस्याभाव्याः । उपलक्षणमेतत् । सोऽपि यदि कारणेन केनचिन्निर्दिष्टकालादन्यस्मिन् काले समायातस्तथापि तस्याभवन्ति विपरीतास्तु कारणमन्तरेणोपसम्पद्यमानविसंवादभाज आचार्यस्याभाव्याः । [भा. २१६० ] 227 Jain Education International विप्परिणयंमि भावे जइ भावो सिं पुनो वि उप्पन्नो । ते होंतायरियस्स उ अहिज्रमाणे य जो लाभो ।। बृ- सङ्केतकारणादनन्तरं यदि तेषां पूर्वमुपस्थितानां भावो विपरिणतो यथा नामुकस्य पार्श्वे उपसम्पत्तव्यं तस्मिन् विपरिणते भावे पश्चात्पुनरपि केनापि कारणेन उपसम्पदनाभिप्राय उत्पन्नस्तदा ते पूर्वमुपस्थिता भवन्त्याचार्यस्य अधीयानेषु तेषु गाथायामेकवचनं प्रकृतत्वात्, प्राकृते हि वचनव्यत्ययोऽप्यस्ति । यो लाभः सोऽप्याचार्यस्य उपलक्षणव्याख्यानादेतदपि द्रष्टव्यं । सङ्केतकरणादूर्ध्वं यदि तस्य पश्चादु पसम्पद्यमानस्य भावो विपरिणता पश्चात्पुनरपि कालान्तरेण जातस्तदा ते पूर्वोपस्थिता गुरोराभाव्या यश्च तेषां लाभः सोऽपि गुरुस्तथा च पश्चादुपसम्पद्यमानमधिकृत्य पञ्चकल्पेऽभिहितम् । कालेन य चिंधेहिंय, अविसंवादी हि तस्स गुरुणिहरा । कालंमि विसंवदिए, पुच्छिज्जइ किंतु आतोसि ।। संगारय दिवसेहिं, जइ गेलन्नादि दीवए तो उ । तस्सेव व अहभावो विपरिणतो पच्छ पुनो जातो ।। For Private & Personal Use Only www.jainelibrary.org
SR No.003326
Book TitleAgam Suttani Satikam Part 22 Vyavahara
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages564
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_vyavahara
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy