________________
....
उद्देशकः १, मूलं: १, [भा. २८५]
९७ वृ-ज्ञानार्थं दर्शनार्थंचोपसंपत् प्रत्येकं त्रिधा, तद्यथासूत्रंचार्थश्चतदुभयंचसूत्रार्थतदभयंतस्मिन् सूत्रेष्वेतदुभयस्मिंश्चेत्यर्थेनिमित्तंसप्तमीचेयंततयों भावार्थः । ज्ञानार्थदर्शनार्थंचोपसंपद्यमानः प्रत्येकं सूत्रार्थं वा उपसंपद्यते अर्थार्थं वा तदुभयार्थं चेति पुनरेकेकं त्रिधा तद्यथा वर्त्तनति अत्र सप्तमीलोपः प्राकृतत्वात् वर्तनायां । वर्तनानिमित्तं एवमेव संधनायां संधनानिमित्तं तत्र पूर्वगृहीतस्य सूत्रार्थस्य तदुभयस्य वा ग्रहणनिमित्तं, एवं ज्ञाने दर्शने च प्रत्येकं भवति त्रिधा उपसंपत् चरणोपसंपदा पुनरुपसंपद्यमानो द्विधोपसंपद्यते, तद्यथा वैयावृत्तनिमितं क्षपणे क्षपणानिमितं ते च द्विधापि उपसंपद्यमानाः कालतोयावज्जीवं भवेयुः ।चशब्दादित्वराश्च एनामेवगाथांव्याख्यानयति - [भा.२८६] सणनाणेसुत्तत्थतदुभये वत्तणा य एकेके ।
उवसंपया चरिते वेयावच्चेयखमणेय ।। वृ-दर्शनविशोधिकानि यानिसूत्राणिशास्त्राणिवातानिदर्शनं,शेषाणिसूत्राणिशास्त्राणिवा ज्ञानं, तत्रदर्शनेज्ञानेच प्रत्येकमुपसंपत्रिधा, सूत्रनिमित्तमर्थनिमित्तंतदुभयनिमित्तंच, एकैकस्मिंश्चसूत्रादौ प्रत्यकं वर्तनादि त्रिभेदं वर्तना संधना ग्रहणंच, किमुक्तं भवति सूत्रेपि वर्तनानिमित्तमुपसंपद्यते, संधनानिमित्तमुपसंपद्यते, अपूर्वग्रहणनिमित्तं वा उपसंपद्यते, एवमर्थेपि त्रितयमुभयेपि त्रितयमिति, दर्शनेपि नवविधोपसंपत्ज्ञानेपिनवविधेति, चारित्रे चारित्रविषया उपसंपत्वैयावृत्ते क्षपणेच । [भा.२८७] सुद्धपरिच्छन्नो लहुगा अकारतेसारणा अनापुच्छा ।
तीसुविमासोलहुत्तो वत्तणादीसुठाणेसु ।। वृ- यत् गुरुसकाशे सूत्रं तत्सर्वमधीतं ततो गुरुभिरनुज्ञातो विधिना आपृच्छय वजिकादिष्वप्रतिबध्यमान आगतः । आगतश्चसन्त्रीदिवसान्यावत्परीक्षितः शुद्धः इत्थंभूतंयोन प्रतीच्छत्याचार्यस्तस्य प्रायश्चित्तं लघुकाश्चत्वारो लघुमासाः, योपि उपसंपन्नो वर्त्तमाननिमित्तं संधनानिमित्तं ग्रहणनिमित्तं वा स यदि वर्तनां संधनां ग्रहणं वा न करोति तदा तस्मिन् वर्तनादिकमकुर्व्वति प्रत्येकं त्रिष्वपि स्थानेषु वर्तनादिषु मासो लघुकः प्रायश्चित्तं, आचार्योपि यद्युपसंपन्नं प्रमाद्यंतं न सारयति ततस्तस्मिन्नपि सारणे अत्र विभक्तिलोप आर्षत्वात् । अकुर्वति त्रिष्वपिवर्तनादिषु स्थानेषु मासलघु एतच्च प्रायश्चित्तविधानं सूत्रविषयमर्थे पुनर्वर्तनादिमकुति शिष्ये अर्थनिमित्तमुपसंपन्नं प्रमातं वर्तनादिष्वसारयतिगुरौचप्रत्येकंत्रिष्वपिवर्तनादिषुस्थानेषुप्रायश्चित्तंमासगुरु, उभयविषयेषुद्वयोरपि प्रत्येकं वर्तनादिषु त्रिष्वपि स्थानेषु पृथक् उभयं प्रायश्चित्तं मासगुरु मासलघु चेति, एवं गाथायामनुक्तमपिसंप्रदायादवसितं, तथा अणापुच्छाइति अनापृच्छायामनुज्ञामित्यर्थः अत्र चत्वारो भंगास्तद्यथाअननुज्ञातोऽननुज्ञातेनसहवर्तनांकरोतीत्येकोभंगः, अननुज्ञातोऽनुज्ञातेनसहेति द्वितीयः, अनुज्ञातोअननुज्ञातेनेतितृतीयः अनुज्ञातो अनुज्ञातेनेतिचतुर्थः एवंसंधनायांग्रहणेपिचप्रत्येकंचत्वारो भंगाः एवमर्थेपि तदुभयस्मिन्नपि च प्रत्येकं वर्तनादिषु चत्वारश्चत्वारो भंगाः तत्र सुत्रविषये त्रिष्वपि वर्तनादिषुस्थानेषुप्रत्येकमायेषुभंगेषुददानस्यचगृहाणस्य चप्रायश्चित्तंमासलघुतपःकालविशेषितं तद्यथा वर्तनायामाद्येषु त्रिषु भंगेषु मासलघु, संधनायां मासलघु तपो गुरुकाललघु, ग्रहणे मासलघु, द्वाभ्यां गुरु तद्यथा - तपसा कालेन च, एवमर्थे तपः कालविशेषितं मासगुरु । तदुभयस्मिन् तदुभयप्रायश्चित्तमर्थं विषयं तदुभयविषयं च प्रायश्चित्तं गाथायानुपात्तमपि व्याख्यानादुपगतंच; चतुर्थभंगः 217
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org