________________
९६
व्यवहार - छेदसूत्रम्-१-१/१ एवंभूतदोषवान् त्वमत्रागतः ततः स्फुटरुक्षे भाषिते सति स्फूटं नाम सद्भूतदोषोच्चारणं, रुक्षं स्नेहोपदर्शनहितं, यदिवास्फुटमेवपरस्यरुक्षतोत्पादनात्, रुक्षस्फुटरुक्षतस्मिन्भाषितेतत्भाष्यमाणं वचस्तेषां विद्वेषकरं विद्वेषोत्पादकं भवति । अगीतार्थत्वात्, चिंतयंति च मत्सरभावनेते सूत्रमर्थवान प्रयच्छंति, ततो मत्सरिण एते इति, एवं च चिंतयित्वा स्वपक्षे परपक्षे च मत्सरिण एते इति प्रकाशयंति ततो लोके मत्सरिप्रवादो विद्वेषकरं च तद्वचस्तेषां माभूदिति प्रागुक्तयतनया निवारणा क्रियते, न च मायामृषादोषसंभवो यतः पराप्रीत्यनुपादकतया परिणामसुंदरतया चोभयोरपि गुणकारित्वमवेक्ष्य तथा वाग्यतना क्रियते, न विप्रतारणबुद्ध्येति । एतेषामेव प्रतीच्छने अपवादमाह - [भा.२८२] निगमसुद्धमुवाएण, वारियं गेण्हतेसमाउ ।
अहिगरणपडिनि अनुबद्ध मेगागिजढंनसाएज्जा ।। वृ-निर्गमोऽशुद्धोयस्यस निर्गमाशुद्धस्तंउपायेनप्रागुक्तयतनालक्षणेनवारितंसमावृत्तंसंतंगृह्णाति, किमुक्तं भवति यदि स तथा प्रतिषिद्धः सन् ब्रूते, भगवन् मिथ्या मे दुःकृतं न पुनरेवं करिष्यामि किंतु यथायूयंभणिष्यथ, तथाकरिष्यामि मुक्तोमयास पापस्वभावो दुर्गतिवर्द्धन इति, ततएवं तंसमावृत्तं गृह्णाति, किं सर्वमपि नेत्याह अहिगरणेत्यादि नेत्याह अहिगरणेत्यादि योऽधिकरणं कुत्वा समागतस्तं यश्च तत्रमे प्रत्युनीकोस्तीत्युक्तवान्तं तथा अनुबद्धरोषं येन च पश्चादेकाकी आचार्यस्त्यक्तस्तं च न साएजा न सात्मयेत् न सात्मीकुर्यात् न स्वीकुर्यादिति भावः केवलं प्रत्यनीके अपवादोस्ति तमेवाभिधित्सुराह - [भा.२८३] पडिनीयंमिउभयणा, गिहिम्मिं आयरियमादिदुटुंमि ।
. संजयपडिनीए पुन, न होति उवसामिएभयणा ।। वृ-प्रत्यनीके भजना तामेवाह । गृहिणि गृहस्थे आचार्यादिदुष्टे किमुक्तंभवति, यदि कोपि नाम गृहस्थ आचार्यस्य आदिशब्दात् उपाध्यायप्रवर्तिस्थविरगणवच्छेदानां शेषभिक्षूणां च प्रद्विष्टः स चानेकधाउपशम्यमानोपिनोपशांतस्ततस्तस्मिन्आचार्यादिप्रदेष्टेगृहिणयनुपशांतेतद्भयादागतः सन् प्रतिगृह्यतेयदिपुनः सब्रूयात्संयतोमेतत्रप्रत्यनीकोस्तिततस्तस्मिन् संयतप्रत्यनीकेन भवत्युपसंपत नप्रतिसंगृह्यतेइत्यर्थः । अथवासभण्यते गच्छत्वंतंक्षमयित्वा समागच्छ एवमुक्तो यदितत्र गत्वातं नक्षमयतिततोनसप्रतिगृह्यतेअथ तेन गत्वाऽसौक्षामितः केवलंस एव नक्षमते, तर्हिसपश्चादागतः प्रतिग्राह्यः ।अथसवक्तिमयासतदानीमेवागच्छताक्षामितः । तदातस्मिन्नुपशांतेसनियमात्प्रतिगृह्य एव नभवति भजना निर्दोषत्वात् ।। [भा.२८४] सोपुन उवसंपजे, नाणट्टा दंसणे चरितेय ।
एएसिंनाणत्तंवोच्छामि अहानुपुव्वीए ।। वृ-स पुनरुक्तप्रकारेण संगृह्यमाण उपसंपद्यते ज्ञानार्थं ज्ञाननिमित्तं दर्शने दर्शननिमित्तं सप्तम्या निमित्ते विधानात् दर्शनप्रभावकशास्त्रनिमित्तमित्यर्थः चारित्रार्थं चारित्रनिमित्तं एतेषां ज्ञानाद्यर्थमुपसंपद्यमानानां नानात्वं भेदं यथोपन्यासं या अनुपूर्वी सा यथानुपूर्वी तया वक्ष्यामि प्रतिज्ञातमेव निर्वाहयति। [भा.२८५] वत्तणा संधणाचेवगहणे सुत्तत्थ तदुभये ।
वेयावच्चखमणे काले आवकहाएअ ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org