________________
९४
व्यवहार - छेदसूत्रम् - १-१ / १ द्वितीयपदे अल्पदोषतया प्रतीच्छाबुद्धौ सत्यां प्रायश्चित्तं प्रतिबंधमात्रनिष्पन्नं ददाति । दत्वा च प्रतीच्छंति, निर्गमने पुनः प्रथमभंगे द्वितीयभंगे वा अधिकारणमेव अधिकरणादिभिः एगे अपरिणए वा इत्यादिभिर्वा दोषैररिशुद्धेन प्रतीच्छनीयः किंतु वारणीयः तं वाऽनया वक्ष्यमाणया यतनया वारयति । तामेवाह । । [भा. २७६ ] नत्थी संकियसंघाडमंडलीभिक्खबाहिरानयनं । पच्छित्त विउस्सग्गे निम्गममुत्तस्स छन्नेणं ।।
वृ- यः पंजरभग्नो ज्ञानदर्शनार्थमागतः । तं प्रतीयं वाक्ययतना यत् त्वं श्रुतमभिलषसि, तन्मम पार्श्वे नास्ति, अथ स ब्रुयात्, मया श्रुतं यथाऽमुको ग्रंथोऽमुकस्य पार्श्वे युष्माभिः श्रुत इति, तत इदं वक्तव्यं, श्रुतः स ग्रंथः केवलमिदानीं बहुषु स्थानेषु शंकितंजातं, नच शंकितं श्रुतमन्यस्मै दीयते, प्रवचने निषेधात्। तस्मादन्यत्रनिःशंकितश्रुतान् गवेषयस्व यस्तु स्वच्छंदमतिः संघाटकोद्विग्नः संज्ञाभूमिमात्रमप्येकाकिना गंतुं न लभ्यमिति समागतस्तं प्रतीदं वक्तव्यं, अस्माकमाचार्यपरंपरात् इयं सामाचारी संज्ञाभूमिमात्रमपि नगंतव्यमेतच्च तव दुष्करमतोन्यत्र गच्छ तावदिति, यः पुनरनुबद्धवैरत्वेनागतस्तं प्रतीदंवक्तव्यं, मंडलीति अस्माकमीदृशी सामाचारी यदवश्यं मंडल्यां समुदेष्टव्यं, यद्यपि च न पठति न शृणोति वा तथापि सूत्रपौरुष्यां मंडल्यामुपवेष्टव्यमर्थपौरुष्यां मंडल्यामुपविश्यार्थः श्रोतव्यः, न कदाचनापि साधूनां स्वच्छंदत्वमेतच्च भवतोऽप्रीतिकरं, तस्मादन्यत्र गम्यतां । यस्त्वलसत्वेनागतस्तं प्रतीदं वाच्यं, भिक्खबाहिराणयणं, भिक्षायाः बहिः प्रदेशादानयनं, किमुक्तं भवति अस्माकमत्र क्षेत्रे बहवो बालवृद्धाः सग्लानाः साधवः ते च भिक्षां न हिंडंत, ततो यदि प्रतिदिवसं भिक्षा बहिः प्रदेशादानयसि । ततस्तिष्ठ, परमेतत् दुष्करं तव तस्मात् यत्र सुखेन तिष्ठसि तत्र याहि, किमत्र क्लेशसहनेन वस्तु निर्द्धर्म्मा उग्रदंडा आचार्या इति विनिर्गतस्तं प्रतीदमुत्तरं, पच्छित्तत्ति । अस्माकमियं सामाचारी यदि दुःप्रमार्जनादिमात्रमपि करोति, तदा तत्कालमेव प्रायश्चित्तं यथोक्तं दीयते, न कालक्षेपेण नापि पक्षपातादिनास्तोकहासेन यस्तु विकृतिलंपटो न मह्यं विकृतिमनुजानातीति विनिर्गतस्तं प्रतीयं वाग्यतना ।
अविसग्गत्ति अस्माकमप्ययं सामाचार्यागमः अव्युत्सर्गोऽनुत्कलनं विकृतेरिति व्याख्यानतो गम्यते, योगवाहिना अयोगवाहिना वा विकृतिर्तग्राह्या इत्यर्थः, अत्राधिकरणप्रत्यनीकस्तब्धलब्धविषये यतना नोक्ता विचित्रत्वात्सूत्रभाष्यगतेस्तत्राधिकरणे यतना यथा कल्पामध्ययने तथा द्रष्टव्या, शेषविषया तु विनेयजनानुग्रहायभिधीयते, तत्रयः प्रत्यनीकस्तत्र मेस्तीत्यागतः, भण्यतेममापि शिष्याः प्रतीच्छकाश्च ईषदपि प्रमादं न क्षमंते, मह्यं कथयति अहं च दोषानुरूपं दंडं प्रयच्छामि । अन्यथैकतरपक्षपातकरणतो गच्छ, मुद्राभंगः सर्वज्ञाज्ञाविलोपश्च तस्मादत्रापि तव दुष्करमिति न स्थातुमुचित्तं, स्तब्धः पुनरेवं भण्यते, अस्माकमियं सामाचारी चंक्रमणादि कुर्वति गुरावभ्युत्थातव्यं, अनुभ्युत्तिष्ठतः प्रायश्चित्तप्रदानमिति, लुब्धं प्रत्येषा वाग्यतना उत्कृष्टद्रव्याणि मोदकादीनि अस्माकमपि बालवृद्धग्लानप्राधूर्णकेभ्यो दीयंते, तदेवं स्वच्छंदचारित्रप्रभृतीनां निवारणे वाग्यतनोक्ता. यदि पुनरेते तथा निवारिता अपि न वक्ष्यमाणप्रकारेण प्रत्यावर्त्तते, नापि निर्गच्छंति येपि च विशुद्धनिर्गमाः प्रतीच्छिताः संतः सीदंति तेषां परिस्थापने यतनामाह- निग्गममुत्तस्य छणेणं यदा परिस्थापयितुमिष्यमाणस्य स्वयं भिक्षादिनिमित्तं निर्गमो भवति, यदा वा रात्रौ निर्भरनिद्रया सुप्तस्तदा तं त्यक्तवा नंष्टव्यं, कथमित्याह छन्नेनाप्रकटमल्पलसागारिकं किमुक्तं भवति, येऽपरिणता बालादयो वा गच्छे तत्रां तेषां न कथ्यते । यथामुमेवं त्यक्त्वा नष्टव्यमिति, मा रहस्यभेदं कार्षुरिति एष गाथार्थः, सांप्रतमेनमेव गाथा
For Private & Personal Use Only
www.jainelibrary.org
Jain Education International