SearchBrowseAboutContactDonate
Page Preview
Page 94
Loading...
Download File
Download File
Page Text
________________ उद्देशक : १, मूलं : १, [भा. २७२] ९३ सोऽभिमुखः पंजराभिमुखः एतर्योर्द्वयोरपि समागतयोरावश्यकादिभिः पदैराचार्येण परीक्षा कर्त्तव्या तदेवमागंतुकस्य यथा आवश्यकादिभिः पदैराचार्येण परीक्षा कर्त्तव्या तथा दर्शिता, संप्रति तेनागंतुकेन यथाचार्यपरीक्षा कर्त्तव्या । तथोपदर्शयति । आवस्सगमाइ आयरिए आवश्यकादिभिः पदैरागंतुकेनापि आचार्येण आचार्यस्य परीक्षा कर्त्तव्याः सा चेवं । आवश्यकादिषु पूर्वभणितेषु द्वारेषु मध्ये क्वापि यदि गच्छ्वासिनः कानपि सीदतः पश्यति ततः आचार्येभ्यः कथयति । तेन कथिते सति यथाचार्यः सम्यक् प्रतिपद्य तान् प्रमादिनः प्रतिचोदयति । प्रायश्चित्तं प्रयच्छति, ततस्तत्रोपसंपत्तव्यं, अथ कथितेपि आचार्याः तूष्णीतिष्ठति भणंति वा, किं तव यद्येते न सम्यग्वर्त्तंते, तर्हि अन्यत्र गच्छांतरे उपसंपत्तव्यं न तत्रेति अथ यतमानेभ्यः समागतः पंजरे भग्न इत्युक्तं तत्र पंजरेति किमुच्यते । तत आह[भा. २७३ | पणगाइसंग्गहो होइ, पंजरो जा य सारणा नोन्नं । पच्छित्तंव मढणाहिं, निवारणं सउणिदितो ।। वृ- आचार्योपाध्यायप्रवर्त्तकस्थविरगणावच्छेदकरुपमादिशब्दात् भिक्षवो वृषभाः क्षुल्लका वृद्धाश्चः परिगृह्यंति, तेषां संग्रहः पंचकादिसंग्रो भवति, पंजरः अथवा आचार्यादीनां अन्योन्यं परस्परं सारणा, किमुक्तं भवति आचार्यादयः परस्परं यत् मृदुमधुरभाषया सोपालंभं वा शिक्षयंति एष वा पंजरः, यदिवा यत्प्रायश्चित्तं च मढनाभिरसमाचार्या निवारणपूर्वं खरपरुषैस्तर्जयित्वा पश्चात् प्रायश्चित्तप्रदानेन यदसामाचारीतो निवर्त्तनं तत् पंजरः, अत्रार्थे शकुनिदृष्टांतः यथा पजरे शकुनेः शलाकादिभिः स्वच्छंदगमनं निवार्यते, तथा आचार्यादिपुरुषगच्छपंजरे सारणाशलाकया असमाचारीरुपोन्मार्गगमनं निवार्यते इति । अत्र ये यतमानानां मूलात् ज्ञानदर्शनार्थमागतो ये च परिभवतां मूलात् । चारित्रार्थमागच्छन्ते संग्रहीतव्याः । ये पुनः पंजरभग्ना ज्ञानदर्शनार्थमागता ये च परिभवतां मूलात् ज्ञानदर्शनार्थमागच्छन् ते न संग्रहीतव्याः । तत्र येन संग्रहीतव्यास्ते एको वा स्यादनेके वा यत आह ।। [ भा. २७४ ] ते पुन एगमने गाने गाणं सारणा जहा पुव्वं । उपसंपयत्ता आउट्टे अनउट्टे अन्नहिगच्छे ।। बृ- ते पुनरुपसंपद्यामानाः कदाचिदेको वा स्यादनेके वा । तत्रानेकेषां या सारणा सा यथापूर्वं कल्पाध्ययने उवएसो सारणा चेव । तईया पडिसारणा इत्यादिना ग्रंथेन भणिता, तथात्रापि द्रष्टव्या, यः पुनरेकोऽसमाचारकर्युन शिक्ष्यते शिक्ष्यमाणश्च यदिव्यावृत्तः शिक्षां प्रत्यभिमुखो भवति, ततस्तस्मिन् आवृत्ते षष्ठीसप्तम्योरर्थं प्रत्यभेदात् तस्यावृत्तस्य उपसंपद्भवति, यदि पुनर्नावर्त्तते तदा तस्मिन् अनावृत्ते इदं भण्यते, अन्यत्र गच्छ, स्था इति अथवा इदमुत्तरार्द्ध, आवस्सगमाइ आयरिए इति यदुक्तं । तस्य व्याख्यानं आवश्यकादिषु पदेषु गच्छ्वासिनः प्रमादिना दृष्ट्रा आचार्याय कथयेत् । कथिते च सति यदि स आचार्यः सम्यग् आवर्त्तते निजसाधून् सम्यग् शिक्षयते । प्रायश्चित्तं च तेभ्यः प्रयच्छति, ततस्तस्मिन्नावर्त्ते तस्य तत्रोपसंपद्भवति, अथ कथितेनावर्त्तते, तूष्णीं करोति भणति वा किं तवैतैः स्वयं सम्यग्वर्त्तेथा इति, तदा अन्यत्र गच्छेदिति यदुक्तं प्राक् दाऊण पच्छित्तं बज्झतंपी पडिच्छेज्जा इति तत् व्याख्यानयति । । [ भा. २७५ ] निग्गमणे परिसुद्धे आगमने ऊसुद्धेदेति पच्छितं । निग्गमणेअ परिसुद्धे इमाए जयणाए वारिति । । बृ- तृतीये भंगे निर्गमने परिशुद्धे प्रागुक्तदोषवर्जिते, आगमने अशुद्धे व्रजिकादिषु प्रतिबंधकरणात् For Private & Personal Use Only www.jainelibrary.org Jain Education International
SR No.003325
Book TitleAgam Suttani Satikam Part 21 Vyavahara
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages482
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_vyavahara
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy