SearchBrowseAboutContactDonate
Page Preview
Page 93
Loading...
Download File
Download File
Page Text
________________ ९२ व्यवहार - छेदसूत्रम्-१-१/१ [भा.२७०] पडिलेहणसज्झाएएमेवय हीणअहियविवरीयं, दोसेहिंवा विभुंजइ, गारत्थियढड्डरभासा । वृ-एवमेवाश्यकोक्तेनैव प्रकारेणप्रतिलेखनस्वाध्यायेचहीनमधिकं विपरीतंचकुर्वतआत्मीयान शिक्षयते नतु तं परीक्ष्यमाणमित्यादि पूर्ववत् तत्र प्रतिलेखनायां हीनाधिकता नाम यत् कालतो हीनामधिकां चाप्रतिलेखनां करोति, खोटकादिभिर्वा हीनाधिकां वा, विपरीतता नाम प्रभाते यन्मुखपोतिकादिक्रमेणनप्रत्युपेक्षतेकिंतुस्वेच्छयायदिवापूर्वाह्नेरजोहरणंनिःपश्चिमंप्रत्युपेक्षतेअपराह्ने तु सर्वप्रथममित्यादि, स्वाध्याये हीनता नाम यद्यप्राप्तायामपि कालवेलायां कालप्रतिक्रमणं करोति, अधिकता यदिक्रांतायामपिकालवेलायांनकालंप्रतिक्रामति, वंदनादिक्रियांवातदनुगतां हीनाधिकां करोति, विपरीतता पौरुषीपाठमतिक्रांतायां पौरुष्यांपठति उत्कालिकं पौरुष्यामिति, तथा भोजनद्वारे आलोकादिविधिना सूत्रोक्ते न न भुंक्त दोषैर्वापि, असुरसुरं अवचवचं अहुयमवलंबियमित्यादि विपरीतरूपैर्भुक्ते, तत्रात्मीयान् तथा जानान् शिक्षयते नतु परीक्ष्यमाणमित्यादिपूर्ववत्, भाषाद्वारे या अगारस्थितभाषा गृहस्थभाषा च ढड्डरभाषा स्थूरस्वरभाषा तां भाषते, तत्रात्मीयान् तथारूपता भाषमाणान् शिक्षयते, न पुनः परीक्ष्यमाणमित्यादि विभाषा पूर्ववत्, शेषाणि त्रीणि द्वाराण्येकगाथया प्रतिपादयति - [भा.२७१] थंडिलसामाया हवेतिअतरंगतनपडिजग्गे; अभणितो भिक्खन हिंडइअनेसणादीच पिल्लेइ । वृ- स्थंडिले समाचारी पादप्रमार्जनडगलकग्रहणा, दिगालोकनादिरूपां हापयति परिभवति विलुपतीत्यर्थः, तत्र तथा सामाचारी विलुंपत आत्मीयान् साधून शिक्षयते । न परीक्ष्यमाणमित्यादि प्राग्वत् गतं विचारद्वारं, ग्लानद्वारमाह । अतरंगतं असमर्थं ग्लानमित्यर्थः न प्रतिजागर्ति नापि तस्य ग्लानस्य खेलमल्लकादिकं समर्पयति । अत्रापि ग्लानमप्रतिजाग्रत आत्मीयान् साधून शिक्षयते नतु परीक्ष्यमाणमित्यादिविभाषापूर्ववत् गतंग्लानद्वारं, भिक्षाग्रहणद्वारमाह ।अभणितःसन् भिक्षांन हिंडते भणितोपि च इषाद्धिंडिते सति प्रतिनिवर्तते, अनेषणादि वा प्रेरयति प्रवर्त्तयति किमुक्तं भवति । अनेषणीयांभिक्षागृह्णाति, आदिशद्वात्कौटिल्येनचोत्पादयति । इत्यादिपरिग्रहः,तंच तथा भिक्षाग्रहणे प्रवर्त्तमानमपि न शिक्षयति, किंत्वात्मीयान् साधून इत्यादि प्राग्वत्, तस्य चागमो द्वाभ्यां स्थानाभ्यां भवति, ततस्तेएवद्वेस्थाने प्रतिपादयति ।। [भा.२७२] जयमाणपरिहवंते, आगमनंतस्सदोहिं ठाणेहिं; पंजरभग्गअभिमुहे आवस्सगमादिआयरिए। : वृ-तस्योपसंपद्यमानस्यागमनं द्वाभ्यां स्थानाभ्यां भवेत् । तद्यथा यतमानेभ्यः परिभवद्भ्यश्च, यतमाना नामसंविग्नाः परिभवंतः पार्श्वस्थादयः, उक्तंच - सोपुन जयमाणगाणवासाहूणमूलातो आगतो होज्जा । परिभवंताण मूलातो, आगतो होजापरिभवंतानापासत्था ।। वृ-इतितत्रयोयतमानसाधूनां मूलादागतःसज्ञानदर्शनार्थेपंजरभग्नोवासमागतोभवेत्, यः पुनः परिभवतां मूलादागतः स चारित्रार्थमुद्युतुकामः समागतो भवेत् अनुतुकामो वाज्ञानदर्शनार्थमिति । अथवा यो यतमानेभ्यः समागतः सपंजरभग्नः, यः पुनः परिभवद्भ्यः उद्यंतुकामश्चारित्र) समागतः, Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003325
Book TitleAgam Suttani Satikam Part 21 Vyavahara
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages482
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_vyavahara
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy