SearchBrowseAboutContactDonate
Page Preview
Page 91
Loading...
Download File
Download File
Page Text
________________ व्यवहार - छेदसूत्रम्-१-१/१ तमुपसंपद्यमानं योप्याचार्यःप्रतीच्छति, सोपिप्रायश्चित्तभाक्ततः शिष्यप्रतीच्छकाचार्याणां प्रायश्चित्तं विवक्षुरिदमाह, सीसायरिए इत्यादि, शिष्ये आचार्ये प्रतीच्छके च प्रायश्चित्त विधीयते प्रायश्चित्तदानविधिरुच्यते इतिभावः, प्रतिज्ञातमेव निर्वाहयति । [भा.२६२] एगे गिलाणगेवा, तिण्हविगुरगाउ सीसमादीणं; सेसे सिस्से गुरुगा, पडिच्छलहगा गुरूसरिसं । वृ- एकस्मिन् एकाकिनि गुरो ग्लाने वा तत्र गच्छे तिष्ठति यदि समागतः शिष्यप्रतीच्छको वा आचार्येणा तथासमागतः सन् यदि प्रतीच्छितस्तदा शिष्यादीनां शिष्यप्रतीच्छकाचार्याणां त्रयाणमपि प्रायश्चित्तं गुरुकाश्चत्वारो गुरुमासाः, यः पुनरन्यः शेषोऽपरिणताल्पाधारस्थविरबहुरोगमंदधर्मपरिवारलक्षणः, तस्मिन् शेषे यदिसमागतः शिष्यः ततस्तस्यप्रायश्चित्तंगुरुकाश्चत्वारो गुरुमासाः अथ प्रतीच्छकःसमागतस्तर्हितस्य लघुकाश्चत्वारोलघुमासाः गुरूसरिसमिति, गुरोरपिशिष्यप्रतीच्छकसदृशं प्रायश्चित्तं, किमुक्तं भवति यदि शिष्यं प्रतीछति ततः प्रायश्चित्तं चत्वारो गुरुमासाः, अथ प्रतीच्छकं तर्हि चत्वारो लघुका इति । [भा.२६३] सीसपडिच्छे पाहुइ, च्छेदो राइंदियाणिपंचेव । आयरियस्सवि गुरुगा, दोवेएपडिच्छमाणस्स । वृ-यदि प्राभृते गुरोः केनापि सहाधिकरणे वर्तमाने शिष्यः प्रतीच्छको वा समागतः तदा तस्य शिष्यस्य प्रतीच्छकस्य वा प्रायश्चित्तं पंच रात्रिंदिवानि पर्यायस्य च्छेदः, आचार्यस्य पुनविप्येतो प्रतीच्छतः प्रतिगृह्णतः प्रायश्चित्तं गुरुकाश्चत्वारो गुरुमासां तदेव प्रथमभंगे निर्गमनदोषा उक्ताः आगमनमशुद्धंतदाभवति,यदावजिकादिषुप्रतिबध्यमानःसमागतः तत्रापिप्रतिबंधनिमित्तंप्रायश्चितं सूत्रानुसारतो वक्तव्यं गतः प्रथमोभंगः द्वितीयभंगोप्येतादृश एव नवरं तत्रागमनं शुद्धं क्वचिदपि व्रजिकादौ प्रतिबंधाकरणात् तृतीयचतुर्थभंगावनुक्रमेणाह - [भा.२६४] एतद्दोसविमुक्कं वइयादीपडिबद्धमायातं, दाऊणपच्छित्त: पडिबद्धंपिपडिच्छेज्जा । वृ- एतैरनंतरोदितैरधिकरणकारित्वविकृतिलांपट्यादिदोषैविमुक्तमेतेन निर्गमनं शुद्धमुक्तं, तथा वजिकादौ अप्रतिबद्धं क्वचिदपि प्रतिबंधमाकुर्वतमायातमेतेन गमनं शुद्धमुपदर्शितं एष चतुर्थो भंगः एष एवोत्सर्गतः श्रेयानिति ज्ञापनार्थं तृतीयभंगात्पूर्वमुक्तः । एवंभूतं प्रतीच्छेत् तृतीयभंगमाह - दाउणेत्यादि । यस्त्वधिकरणकारित्वादिदोषविनिर्मुक्तो निर्गतः केवलं व्रजिकादिषु प्रतिबध्यमानः समागतस्तमप्यपवादपदेन यत्वजिकादिषु प्रतिबंधकरणमभूत्तन्निमित्तं प्रायश्चित्तं दत्वा प्रतीच्छेद् । [भा.२६५] सुद्धं पडिच्छिऊणं, अपडिच्छणा लहुयतिनिदिवसानि; सीसे आयरिएवा, परिच्छा तत्थिमा होइ । वृ-शुद्धं निर्गमनमागमनदोषरहितं प्रतीच्छ्य प्रतिगृह्य त्रीन् दिवसान् यावत् परीक्षेत् किमेष धर्मश्रद्धावान् किंवा नेति, यदि पुनर्न परीक्ष्यते ततोप्य परीक्षणे लहुयत्ति मासलघुप्रायश्चित्तं, आचार्यांतराभिप्रायेणचतुर्मासलघु,साच परीक्षाउभयथापिशिष्य आचार्यां परीक्षते, आचार्याः शिष्यः उभयथापिच परीक्षाआवश्यकादिपदैस्तथा चाह सिस्से इत्यादि, तत्रतस्मिन् उपसंपद्यमाने प्रतीच्छिते सति शिष्ये आचार्येच परस्परमियमावश्यकादिपदैर्वक्ष्यमाणा परीक्षाभवति तामेवाह - Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003325
Book TitleAgam Suttani Satikam Part 21 Vyavahara
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages482
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_vyavahara
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy