________________
उद्देशक : १, मूलं : १, [भा. २५७ ]
८९
गिलाणे बहुरोगी य, मंदधम्मे य पाहुडे ।
वृ- यदि एक एकाकी पश्चादाचार्य: । यदिवा अपरिणतः अकल्पिकवस्तादिसहितः स च कल्पिकवस्ताद्युत्पादने लब्धिमान् । अथवा पश्चादाचार्योऽल्याधारसूत्रार्थनैपुनविकलः स च पृष्टः सन् सूत्रार्थकथने निपुणशक्तिमान्यदिवाचार्यः परिवारो वा स्थविरो जरसा वृद्धशरीरः स च तेषां प्रतिजागरकः अथवा पश्चादेको ग्लानः । स च चिंताकारी यदिवा पश्चात्तत्रैको बहुरोगी बहुरोगी नाम बहुभिः साधारणैः रोगैर्याप्यशरीरः स च तस्य वर्त्तापकः, यदिवा पश्चातेनाचार्यपरिवारः सर्वोपि निर्द्धर्म्मान गुर्वाज्ञां करोति केवलं तद्भयात् किमपि करोति तथा तत्र पश्चात् गुरोः केनापि सह प्राभृतं वर्तमानमस्ति । प्राभृतं नाम अधिकरणां, स च गुरोः क्रमेणाधिकरणापनयनतः साहाय्यकारी एवं प्राग्वर्त्तमाने यदि समागतो भवति तदा तस्य निर्गमनमशुद्धमशुद्ध त्वाच्च परित्याज्य इति । एनामेव गाथां व्याख्यातुकामः प्रथमत एकापरिणलाल्पाधारद्वाराणि व्याख्यानयति -
[ भा. २५८ ] गानियं पमोत्तुं । वत्थादिअकप्पिएहिं वा सहियं; अप्पाधारोवायण तं चेव च पुच्छिउं देह ।
वृ- एकमेकाकिनं पश्चादाचार्यं मुक्त्वा यदि समागतः, अथवा वस्त्राद्यकल्पिकैः कथमपि गृहीतैरकल्पकैर्वस्त्रादिभिः सहितं मुक्त्वा एतेनापरिणत इति व्याख्यातं, यदिवा अल्पः सूत्रस्यार्थस्य वा आधार इति स आचार्यस्तमेव पृष्ट्वा शेषसाधुभ्यो वाचनां ददाति, तादृशं मुक्त्वा एतेनाल्पाधार इति विवृतं । ।
[ भा. २५९]
थेरं अतीमहल्लं, अजंगमं मोत्तु आगतो गुरुंतु ।। सोच परिसावथेरा अहं तु वट्टावतोतेसिं ।
बृ- स्थविरमेव व्याचष्टे, अतीव महान्तमजंगमं गमनशक्तिविकलं गुरुं उपलक्षणमेतत् परिवारं स्थविरमुक्तरूपं मुक्त्वा यदि समागतः सच प्रतिजागरकस्तथा च तस्य पृष्टस्य सतोऽमुमेवोक्तिविशेषं दर्शयति स आचार्यः स्थविरः पर्षदापरिवारो वा अहं तु तेषां गुर्वादीनां वर्त्तापकः प्रतिजागरक आसम् एतेन स्थविर इति पदं व्याख्यातं, ग्लानबहुरोगनिर्द्धर्म्मपदानि व्याख्यानयति ।। तत्थ गिलाणो एगो जप्पसरीरो य होइ बहुरोगी;
[ भा. २६० ]
निद्धम्मा गुरु आणं न करेंति ममं पमोतूणं ।
· वृ-तत्र गच्छे ग्लान एकोस्ति, यदिवा बहुरोगी यो जाप्यशरीरो भवति, स बहुरोगी, तं ग्लानबहुरोगिणं वा विमुच्य यदि समागतस्तथा निर्द्धर्म्मपरिषद्विषये तस्य पृष्टस्य सत उक्तिविशेषं दर्शयति, निर्द्धर्म्मणो धर्मवासनारहितास्तस्य ममाचार्यस्य शिष्याः सर्वथा गुर्वाज्ञां न कुर्वति मां प्रमुच्य, मम पुनराज्ञां कुर्वति, तादृशं वा निद्धर्म्मपरिवारं मुक्त्वा यदि समागतस्तर्हि स न प्रतिग्राह्यः केवलमयमुपदेशस्तस्मै दातव्यः । तमेवाह -
[भा. २६१]
एयारिसं विउसज्ज विप्पवासो न कप्पइ । सीसायरिय पडिच्छे, पायच्छितं विहिज्जइ । ।
वृ- एतादृशमेकाक्यादिस्वरूपं गुरुमन्यं वा ग्लानादिकं व्युत्सृज्य परित्यज्य विशेषेण प्रवासोऽन्यत्र गमनं विप्रयासो भद्र तव न कल्पते बहुगुणाधारो भवान् कथमीदृशं कृतवान्, तस्मात् अद्यापि प्रायश्चित्तं प्रतिपद्य, पश्चात् गच्छ, स च समागतस्तस्य प्राक्तनस्याचार्यशिष्यो वा स्यात् प्रतीच्छको वा एवमागतं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org