SearchBrowseAboutContactDonate
Page Preview
Page 85
Loading...
Download File
Download File
Page Text
________________ ८४ व्यवहार - छेदसूत्रम्-१-१/१ भवति ? पथि व्रजता स्थंडिलादस्थंडिलमस्थंडिलात् स्थंडिलं कृष्णमृत्तिकातो वा नीलमृत्तिकां नीलमृत्तिकातो वा कृष्णमृत्तिकां, एवं शेषवर्णोष्वपतिभावनीयं, संक्रामतापादयोर्यत्प्रमार्जनंनकृतं तथा वातोद्धतेन सचित्तेन रजसा सचित्तया वा मृत्तिकया संसृष्टेन हस्तेन संसृष्टेन मात्रकेणा वा यत् मिक्षाग्रहणं कृत्तं, तदेवमाद्यालोचयेदिति सर्वत्रापि सामर्थ्यात् योजनीयं, बितिए उल्लाइपंथे वा इति पृथिवीकायविराधनालोचनानंतरं द्वितीये अप्कायविषये यत् उदकार्दादि आदिशब्दात् सस्निग्धादि परिग्रहः एतदुक्तंभवति, उदकार्टेन सस्निग्धेन वा हस्तेन मात्रकेणा वा भिक्षाग्रहणं कृतंपथि वा मार्गेवा अयतनया उदकमुत्तीर्णां च । एवमादितदालोचयेत् । [भा.२४१) तइए पइट्ठियादी, अभिधारणवीयणादिवाउंमि; बीयाइघट्टपंचमे, इंदिये अनुवायतो छठे । वृ- अप्काय विराधनालोचनानंतर तृतीये तेजस्काये यत् प्रतिष्ठितादि तेजसि परंपरादिप्रतिष्ठितं भक्तंपानं वागृहीतं, आदिशब्दात्सज्योतिषिवसताववस्थानं कृतमित्येवमादीतिभाव तदालोचयेत्। तदनंतरं वायौवातकायेयतअभिधारणवीजनादिकृतंधर्मार्तेनबहिर्वातोभिसंधारितोभक्तंपानं शरीरं वा वीजनकादिना वीजितं एवमादि तदालोचयेत्, ततः पंचमे वनस्पतिकाये बीयाइघट्टित्ति यवबीजादिघट्टनं आदिशब्दात् हरितकायादिपरिग्रहः उपलक्षणमेतत् तेन यदि वा बीजादिकं भिक्षासु पतितंग्रहीतमित्येवमादितदालोचयेत्तदनंतरंषष्ठेत्रसकायेइंद्रियानुपात्ततइंद्रियवृद्धिक्रमेणालोचना दातव्या, तद्यथाप्रथमतोद्वींद्रियाणांसंघटनपरितापनाद्यालोचयेत्, तदनंतरंत्रींद्रियाणांततश्चतुरिंद्रियाणां ततः पंचेंद्रियाणामिति एवं प्रथममूलगुणापराधेषुक्रमेणालोचितेषुसत्सु । [भा.२४२] दुब्भासिय हसियादी बीए तइए अजावियग्गहणं । घट्टणपुव्वरयाईइंदियआलोगमेहुण्णे । वृ-द्वितीयेमूलगुणापराधेमृषावादेमृषावादविषये यत्किमपिदुर्भाषितंभणितंहासेनवा मृषावादो भणित आदिशब्दात्क्रोधेन वामानेन वामाययावालोभेन वाभयेन वा यत् किमपिमृषाभणितमिति परिग्रहस्तदालोचयेत्, तदनंतरंतृतीयेमूलगुणापराधेएदत्तादानलक्षणेयत्अयाचितस्यतृणडगलादेर्ग्रहणं उपलक्षणमेतत्तेन अननुज्ञाप्यवाअवग्रहंकायिकादिव्युत्सृष्टंभवेदित्यादिपरिग्रहः तदालोचयेत्ततो मैथुने मैथुनविषये यद्घट्टने पूर्वरतादि, किमुक्तं भवति, ? चैत्यभवनमहिमादिषु प्रभूतजनसंमद्दे स्त्रीशरीरसंघट्टने स्पर्श आस्वादितो भवेत; पूर्वरतक्रीडितं वा अनुस्मृतं स्यात् । इंदियत्ति इंद्रियाणि वा मनोहराणि उपलक्षणमेतत् वदनस्तनादिकमतिसुमनोहरमवेक्ष्य मनाक् रागं गतो भवेत् इत्यादि तदालोचयेत् । [भा.२४३] मुच्छातिरित्तपंचमे; छठेलेवाडअगयसुंठादी; गुत्तिसमिईविवक्खाणामिगहणुत्तरगुणेसु | वृ-चतुर्थमूलगुणापराधालोचनानंतर पंचमे मूलगुणापराधेपरिग्रहविषयभूते यत्उपकरणेषुमूर्छा कृता भवेत्, अइरित्तत्ति अतिरिक्तो वा उपधिः परिगृहीत एतदालोचयेत् तदनंतरं षष्ठे मूलगुणापराधे रात्रिभोजने लेवाडित्ति लेपकृदवयवः कथमपि पर्युषितो भवेत् । अगदंवा शुंठ्यादि किंचित् सन्निहितं परिभुक्तं भवेत् एवमादि आलोचयेत्, एवं क्रमेण मूलगुणापराधालोचनां दत्वा तदनंतरमुत्तरगुणेषु उत्तरगुणाविषये गुप्ति समितिविपक्षाः कृताः । अनेषणीयग्रहणं वाकारि, किमुक्तं भवति गुप्तिषु गुत्तिसार Jain Education International For Private & Personal Use Only ___www.jainelibrary.org
SR No.003325
Book TitleAgam Suttani Satikam Part 21 Vyavahara
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages482
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_vyavahara
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy