________________
उद्देशक :
: १, मूलं : १, [ भा. २४३]
८५
समितिषुकदाचिदसमितोऽनेषणीयं वा भक्तं पानं वा गृहीतंस्यादित्यादि आलोचयेत्
कदाचिदगुप्तः स्यात्
तथा
[ भा. २४४ ]
संतंमिवि बलविरिए सवो वहाणेय जंन उज्जमियं; एसाविहारवियडणा, वोच्छं उवसंपनाणतं ।
वृ- सत्यपि विद्यमानेपि बलं शरीरं प्राणः वीर्यमांतरी शक्तिर्यद्वशात् तपः कुर्व्वन् शरीरस्यातिकृशतायामपि न संयमयोगेषु सीदति; बलं च वीर्यं च बलवीर्यं समाहारे द्वंद्वस्तस्मिन् तपसो द्विप्रभेदस्यापि उपधानं करणं तपउपधानं तस्मिन् नोद्यतं, नोद्यमः कृतः एतदपि आलोचयेत् । एषा विहारविकटना विहारालोचना उपसंपदालोचनादि प्राय एवंरूपा, केवलं यन्नानात्वं तद् वक्ष्ये, तत्र प्रथमतः उपसंपदालोचनाया अपराधा लोचनायाश्च विहारलोचनया सह नानात्वं दर्शयति - एगमणोगा दिवसेसु होइ ओहे य पयविभागे य, उवसंपयावराहे, नायमनायं परिच्छंति ।
भा. २४५ ]
वृ- उपसंपच्चापराधश्च उपसंपदपराधस्तस्मिन् आलोचना इति प्रस्तावात् गम्यते उपसंपदालोचना अपराधालोचना चेत्यर्थः, । प्रत्येकं द्विधा, ओहेय इत्यादि तृतीयार्थे सप्तमी ओधेन पदविभागेन च । तथा एकैकापि दिवसेषु चिंत्यमाना एगमनोगा इति पदैकदेशे पदसमुदायोपचारात्ः एकदिवसिकी अनेकदिवसिकी च भवति । ओघालोचना एकदिवसिकी विभागालोचना एकादिवसिकी अनैकदिवसिकी चेत्यर्थः, तदेवमुक्तमनानात्वमधुना नानात्वमुपदर्शयति । नायमनायं परिच्छंति, उपसंपद्यमानं पूर्वं ज्ञातमज्ञातं च परीक्षंते परिभावयंति, परिभाव्य वा ज्ञानमावश्यकपदादिभिः परीक्षते इयमत्र भावना, । उपसंपद्यमानो द्विविधो भवतिज्ञातोऽज्ञातः, तत्रयदिज्ञातः स न परीक्ष्यते तस्याग्रेपि ज्ञातत्वात् अथाज्ञातस्तर्हिस आवश्यकादिभिः पदैः परीक्षणीय इति, संप्रति यदुक्तं विभागेण अप्पसत्थे दिनमित्यादि, तद् द्व्याख्यातुकाम आह -
[ भा. २४६ ]
दिवसातो उवसंपय अवराहे दिवसतो पसत्थंमि;
उव्वातो तदिवसं, तिराहं तु अतिक्कमे गुरुगा ।
वृ-विहारालोचनावत् उपसंपदालोचनापि विभागेन प्रशस्ते अप्रशस्ते वा दिवसे रात्रौ दातव्या दोषाभावात् । तथा पूर्वसूरिभिरनुज्ञातात्, अपराधे अपराधविषया पुनरालोचना, दिवसतो इति सप्तम्यंतात् तद्दिवसे उपलक्षणमेतत् रजन्यां वा, प्रशस्ते विष्टिव्यतीपातादिदोषवर्जिते व्याख्यानतो . विशेषप्रतिपत्तिरिति न्यायात्, द्रव्यादिषु च प्रशस्तेषु दातव्या, नाप्रशस्तेषु एषा जिनाज्ञा, तथा उव्वातो तद्दिवसमिति यस्मिन् दिवसे उपसंपद्यमान आगतः, तस्मिन् दिवस यदि उद्वातः परिभ्रांत इति कृत्वा न पृष्ट आचार्येण, ततः स आचार्यः शुद्धः । त्रयाणां तु दिवसानामतिक्रमे विमुक्तं भवति । त्रिषु दिवसेषु मध्ये यदि न पृष्टस्ततश्चतुर्थे दिवसे तस्यापृच्छतः परिहारस्थानं गुरुकाश्चत्वारो गुरुमासा एतच्च उपरि व्याख्यास्यते ।
[ भा. २४७ ]
समणुन्नदुगनिमित्तं, उवसंपज्जे ते य होइ एमेव ।
अमने नवरं, विभागतो कारणे भइयं । ।
वृ- उपसंपद्यमानो द्विधा, तद्यथा समनोज्ञोऽसमनोज्ञश्च तत्र समनोज्ञस्य समीपे समनोज्ञ उपसंपद्यमानो द्विकनिमित्तं उपसंपद्यते, तद्यथा ज्ञानार्थं दर्शनार्थं च, न चारित्रार्थं, येन चरणं प्रति सदृश
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org