SearchBrowseAboutContactDonate
Page Preview
Page 81
Loading...
Download File
Download File
Page Text
________________ व्यवहार - छेदसूत्रम् - १-१ /१ वृ- कर्मोदयहेतुका या प्रतिसेवना सा तावदेकास्ति किंत्वन्यापि, कर्मोदयहेतुका या व्यतिरिक्तापि प्रतिसेवा प्रतिसेवनास्ति साउन कम्मोदएणंति तु शब्दोव्ययत्वेनानेकार्थत्वात् हेतौ ततोयमार्थः यतः सान्या प्रतिसेवना न कर्म्मोदयहेतुका, कम्र्म्मोदयहेतुकत्वे अन्यथा योगात् । सा च कारणे तत्रापि यतनया द्रष्टव्या तत्रया कारणेजयतोत्ति यतमानस्य यतनया प्रवर्त्तमानस्य प्रतिसेवनासा कर्मक्षयकरणी कर्मक्षयं क्रियतेऽनयेति कर्म्मक्षयकरणी करणे अनट् साहि नावशस्य सतः कर्मोदयहेतुका, किंतु सूत्रोक्तनीत्या, कारणे यतनया यतमानस्य ततस्तत्राज्ञाराधनात् सा कर्म्मक्षयकारिणी या पुनः प्रतिसेवना दर्पेण या च कल्पेप्ययतनया सा कर्म्मजननी तथाचाह । दप्पाजय कम्मजननीउ दप्पेणकारणेपिचायतस्य प्रतिसेवा कर्म्म जन्यते अनया कर्म्मजननी तदेवं यतो दर्पेण कल्प्येपि चायतनया प्रतिसेवना कर्म्मजननी तत इदं सिद्धं । । [भा. २२६] ८० पडिसेवणाउ कम्मोदएण कम्ममवि तन्निमित्तागं । अन्नोन्नहेउसिद्धी तेसिंबीयंतकुराणंच ।। वृ- प्रतिसेवना कर्मोदयेन किमुक्तं भवति, प्रतिसेवनाया हेतुः कर्मोदयः कर्म्मापि च तन्निमित्तकं प्रतिसेवनानिमित्तकं, कर्म्मणोपि हेतुः प्रतिसेवना इतिभावः एवं तेषां प्रतिसेवनाकर्म्मणामन्योन्यं परस्परं हेतुसिद्धिः हेतुभावसिद्धिः केषामिव परस्परं हेतुभावसिद्धिरित्यत आह बीजांकुरयोरिव गाथायां द्वित्वेपि बहुवचनं प्राकृतत्वात् यथा बीजमंकुरस्य हेतुरंकुरोपि च परस्परया बीजस्य हेतुरित्यनयोः परस्परं हेतुभावस्तथा कर्म्मप्रतिसेवनयोरपि [ भा. २२७ ] दिट्ठा खलु पडिसेवा सा उ कहं होज पुच्छि एवं । भाइ अंतोवस्सएर बाहिं ववियारमादीसु ।। वृ- परस्य चक्षुरादिप्रत्यक्षतस्तस्य स्वसंवेदनप्रत्यक्षेण दृष्टा खलु प्रतिसेवा सा नु क्षेत्रतः क्व भवेत् इति एवमनुना प्रकारेण पृष्टे सति भण्यते उत्तरं दीयते । अंतर्म्मध्ये उपाश्रये उपाश्रयस्य बहिर्वा विचारादिषु विचारादि निमित्तं बहिर्विनिर्गतस्य उपलक्षणमेतत् तेन कालतः प्रश्न दिवा रात्रौ वा भावतः प्रश्न दर्पणकल्पेन वेत्यपि वक्तव्यमिति ।। [भा. २२८ ] पडिसेविए दप्पेणं, कप्पेणं चावि अजयणाएउ । नविणज्जइवाधातो कं वेलं होज्ज जीवस्स ।। वृ- दर्पेणकल्पेनाप्ययतनया प्रतिसेविते मासिकादिकमतीचारं प्राप्तेन संवेगमुपगच्छता आलोचना प्रयोक्तव्या एतच्च चिंतयितव्यं नापि नैव ज्ञायते कां चेलां कस्यां वेलायां व्याधातो जीवस्य जीवप्राणधारणे, जीवनं जीवः तस्य जीवितस्येत्यर्थः व्याधातो भवेत् अनालोचिते च यदि भ्रियते, ततो दीर्धसंसारी भवति तत एतत् भण्यते । । [ भा. २२९] तं खमंखु पातो महत्तमवि आसिउं ससल्लेण । आयरियपादमूले गंतूण समुद्धरे सल्लं ।। वृ- यस्मादचिंतितः पतति, जीवितस्य व्याधातोऽनालोचितेच मृतस्य दीर्धसंसारिता, तस्मात् पमातो इति अत्र दकारस्य लोपः प्राकृतत्वात् प्रमादतः प्रमादवशेन सशल्येनातीचारशल्ययुक्तेन मुहूर्त्तमप्यासितुं नक्षमं, खु निश्चित्तं किंत्वाचार्यपादमूले गत्वा आलोचनाविधानेन प्रायश्चित्तप्रतिपत्त्या शल्यमतीचाररूपं समुद्धरेत् विशोधयेत् यस्मात् - Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003325
Book TitleAgam Suttani Satikam Part 21 Vyavahara
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages482
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_vyavahara
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy