SearchBrowseAboutContactDonate
Page Preview
Page 79
Loading...
Download File
Download File
Page Text
________________ ७८ व्यवहार - छेदसूत्रम्-१-१/१ __ वृ-योधानांस्थानंपंचविधंतद्यथाआलीढंप्रत्यालीढंवैशाखमंडलंसमपादंच,तत्रदक्षिणमुरुमग्रतो मुखं कृत्वा वाममूरुं पश्चात्मुखमपसारयति । अंतराचद्वयोरपि पादयोः पंचपादाः ततो वामहस्तेन धनुर्गृहीत्वा दक्षिणाहस्तेनप्रत्यंचामाकर्षाति तत् आलीढस्थानं यत्पुनर्वाममूरुमग्रतो मुखमाधाय दक्षिणमूलंपश्चात्मुखमपसारयतिअंतरावात्रापिद्वयोरपिपादयोः पंचपादास्ततः पूर्वप्रकारेणयुध्यतेतत् प्रत्यालीढं स्थानमालीढस्य प्रतिपथिविपरीतत्वात् प्रत्यालीढं प्रत्युनः पार्णी अभ्यंतराभिमुखे कृत्वा समश्रेण्याकरोति अग्रिमतले च बहिर्मुखे ततो युध्यते तत् वैशाखं स्थानं तथा द्वावपि पादौ समौ दक्षिणवामतोऽपसार्य ऊरु प्रसारयति यतामध्ये मंडलं भवति अंतरा चत्वारः पादास्तत् मंडलं द्वावपि पादौ समौ निरंतरं यत् स्थापयति जानुनी उरु चाति सरले करोति तत्समपादं, एतैहिं पंचभिरपि स्थानैर्योधायथायोगं युध्यंते, तत् एतानि योधस्थानाति, तथा अचलो निःप्रकंपः परमाण्वादिर्भवति, यनिरेजकालेतत्अचलस्थानं अचलंचतत्स्थानंचावस्थानमचलस्थानमितिव्युत्पत्तेर्वा निरेजकालच परमाएवादीनामयं परमाणुपुगलेणंभंतेनिरेयकालतोकेवचिरंहोइजहन्नेणंएक्कंसमय, उक्कोसेणंअसंखेज्जं कालं असंखेजा वा उस्सप्पिणिओसप्पिणिओइत्यादि । तथागणनेसंख्यायांस्थानमेकादिएकंदशशतं सहस्त्रमित्यादि यावत् कोटी कोट्यः पर्यंतत्वमभिदधानं एतज्ज्ञापयति, प्रायो लोकव्यवहारेकोट्याः परंसंख्यास्थानकोट्येवदशशतादिविशेषितानित्वन्यत्संख्यांतररुपस्थानमिति ।संधनास्थानमाह। [भा.२१९] रज्जयमादिअच्छिन्नं, कंचुयमादीणछिन्नसंधणया । सेढिदुगंअछिन्नंअपुव्वगहणंतुभावंमि ।। वृ-संधना संधानकरणं सा द्विधा द्रव्यसंधना भावसंधना च द्रव्यसंधना द्विविधा च्छिन्नसंधना अच्छिन्नसंधनाचतत्ररजुकादिकमछिन्नंयत्वलयतिएषा छिन्ना द्रव्यसंधनाकंचुकादीनां छिन्नसंधनता कंचुकादयो ह्यन्योन्यखंडमीलनतः संधीयते ततस्ते छिन्त्रसंधना । भावसंधनापि द्विधा, छिन्नसंधना अछिन्नसंधना च तत्राछिन्नसंधना श्रेणिद्विकमुपशमश्रेणिः क्षपकश्रेणित्युपशमश्रेणिरछिन्नसंधना क्षपकश्रेएयामपिदर्शन सप्तकक्षयानंतरंकषायाष्टकादिक्षपयितुंप्रवृत्तोनियमादाकेवलप्राप्ते निवर्त्तते, ततः क्षपकश्रेणिरप्यच्छिन्नसंधना, अपुव्वगहणंतुभावंमिइतिप्रशस्तेषुभावेषुप्रवर्त्तमानोयदपूर्वंभावं संदधाति एषाप्यछिन्नाभावसंधनाशुभभावसंधनस्याव्यवछिन्नत्वात् । इयं पुनः छिन्नसंधना ।। [भा.२२०] मीसातो उदइयं गयस्स मीसगमनेपुनोच्छिन्नं । - अपसत्थ पसत्थंवाभावे पगयंतुच्छिन्नेण ।। . वृ-छिन्नाभावसंधनामिश्रः क्षायोपशमिको भावः तस्मात् मिश्रात क्षायोपशमिकातृभावात् यदा औदयिकं भावं संक्रामति तदा तस्य औदयिकं गतस्य छिन्नं भावसंधानं भावांतरे संक्रांतत्वात्, तथा तस्मादौदयिक भावात् यदापुनर्मिश्रगमनं भवति मिश्र भावं संक्रामति तदापि छिन्नं भावसंधान एवं शेषेष्वपिभावेषु यथा यथायोगंभावनीयं, अथवा द्विविधा छिन्नभावसंधना प्रशस्ताऽप्रशस्ता च तत्र यदा प्रशस्ते चरणादिभावे स्थितः सन् तथाविधकर्मोदयवशतोऽप्रशस्तं चरणभावं संक्रामति, तदा अप्रशस्ता छिन्नाभावसंधना यदा पुनरप्रशस्तादचरणभावात् प्रशस्तंचरणभावं संक्रामति तदा प्रशस्ता छिन्नाभावसंधना अत्रप्रकृतमधिकारः च्छिन्नेन भावसंधानेन तत्राप्यप्रशस्तेन तथाहि प्रायश्चित्तस्थानं तदा प्रतिसंवते यदा प्रशस्ताभावाद प्रशस्तंभावं संक्रांतो भवति तदेवं स्थाननिरुपणा कृता, संप्रति यदुक्तं सूत्रेपडिसेवित्ता इति तत्र प्रतिसेवनाव्याख्यानार्थमाह - Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003325
Book TitleAgam Suttani Satikam Part 21 Vyavahara
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages482
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_vyavahara
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy