________________
व्यवहार - छेदसूत्रम् - १-१/१
एकत्रिंशदहोरात्रा एकस्यचाहोरात्रस्य चतुर्विंशत्युत्तररातभागानामेकविंशशतं एकविंशत्यधिकशतं तथाहि एकोनचत्वारिंशच्छतानांपंचषष्ट्यधिकानां चतुर्विंशत्युत्तरेण शतेनभागे हियमाणे यथोक्तं लभ्यतएवेति अथवा न भागैः संख्या किंतुमुहर्त्तादिभिरत आह
[ भा. २०८ ]
७४
एकत्तीसंचदिनाइ गुत्तीसमुहत्तसत्तरसभागा। एथ्थपुरण अहिगारो नायव्वोकम्ममासेण ।।
वृ- एकत्रिंशद्दिनानि एकोनत्रिंशन्मुहूर्त्ता सप्तदशद्वाषष्टिभागाः एकत्रिंशदिनानितावत् पूर्ववत् ततो यदेकविंशत्युत्तरंशतमवशेपं जा तंतत् अहोरात्रस्यत्रिंशत्मुहुत्ता ईति मुहूर्त्तानयनायत्रिंशतागुण्यतेजातानि त्रिंशदधिकानिषट्त्रिशत्शतानि एतेषांचतुर्विंशत्यधिकेनशतेनभागहरणां लब्धाएकत्रिंरातूमुहूर्त्ता शेषमवतिष्ठते चतुः त्रिंशत् सद्वापष्टिभागानयनायद्वाषष्ट्यागुण्यते जातान्येकविंशतिशतान्यष्टोत्तराणि तेषां चतुर्विंशत्युत्तरशतेन भागोहियतेलब्धाः परिपूर्णाः सप्तदशद्वाषष्टिभागाः अत्रपुनः प्रायश्चित्तविधावधिकारः प्रकृतं ज्ञातव्यो नक्षत्रादिनांमासानां मध्येकर्म्ममासेन, संप्रतिभावमासप्रतिपादनार्थमाह - [ भा. २०१] मूलादिवेदगोखलु भावेजोवाविजाणतो तस्स ।
नहि अग्गिनाणतोग्गीणाणं भावो ततो अन्नो ।।
वृ- भावेभावोमासोद्विधा आगमतो नोआगमतश्चतत्रनोआगमतः खलुमूलादिवेदकः, मूलकंदकांडपत्रपुष्पफलवेदकः किमुक्तं भवते । योधान्यमाषजीवोधान्यमाषभवेवर्त्तमानो मूलरूपतया कंदरूपतया कांडरूपतया पत्ररूपतया पुष्परूपतया फलरूपतया वा धान्यमाषभावायुर्वेदयते, सनोआगमतोभावमासः, प्राकृतेमाषशद्वस्यापिमासइतिरूपसंभवात: आगमतआह जोवाविजाणतो तस्स तस्यमाषस्यमासस्य वा यो ज्ञायको ज्ञाता अपि शब्दादुपयुक्तश्च स आगमतोभावमासः, उपयोगोभावनिक्षेप इतिवचनात् अत्रपरआह नहीत्यादि, ननु यदि मासस्यज्ञाता तत्रचोपयुक्तस्तथापिकथमसौभावमासः तर्ह्यग्नि ज्ञानोपयुक्तोमाणवकोग्निर्दाहपाकाद्यर्थक्रियाकारित्वाभावत् सूरिराह नाणमित्यादि यदेतदुक्तं तदसत् सम्यग्वस्तुतत्त्वापरिज्ञानात् इहाद्यर्थाभिधानप्रत्ययास्तुल्यनामधेयाः । तथाहिघटोपिघट इत्यभिधीयते घटशब्दोपिघटज्ञानमपि घटइति एतच्च सर्ववादिनामविसंवादस्थानं ततोमासज्ञानमपिमास शब्दवाच्यंतच्चभावो जीवगुणात्वात् स च ज्ञानलक्षणोभावस्तस्मादात्मनोऽनन्यइतिमास ज्ञानापयुक्तोभावमासः अत्र षड्विधमासनिक्षेप मध्येकालमासेनाधिकारस्तत्रापिकर्म्ममासेनेत्यनंतरमेवोक्तं शेषास्त्वपाकरणबुद्ध्योपन्यस्ताः एतदेवनिक्षेप प्ररूपणायाः फलं यत् प्रस्तुतस्यव्याकरणमप्रस्तुतस्यनिराकरणमिति, यदुक्तम प्रसुतार्थापाकरणात् प्रस्तुतार्थव्याकरणाच्चनिक्षेपः फलवानिति तदेवं मासनिक्षेप प्ररूणाकृता संप्रति परिहार शब्द निक्षेप प्ररूपणार्थमाहनामं ठवणा दविए परिरय परिहरण वज्जणुग्गहता; भावावणेसुद्धे नव परिहारस्स नामाई ।
[भा. २१०]
वृ- परिहारशब्दोविभक्तिपरिणामेन सर्वत्रसंबध्यते, तद्यथानाम परिहारः स्थापनापरिहारः । दविए इति द्रव्योद्रव्यविषयः परिहारोद्रव्यपरिहारः, परिरयपरिहारः परिहरण परिहारः वृजीवर्जनेवृज्यतेइति वर्जनकर्म्मएयनटवर्जनमित्यर्थः वर्जनस्यपरिहारोवर्जनपरिहारः अनुगृह्यते इति अनुग्रहः कर्म्मण्य च तस्यभावो अनुग्रहताऽनुग्रहणमित्यर्थः । अनुग्रहतया परिहारोऽनुग्रहता परिहारः, भावत्तिभावचिंतायामापन्ने आपन्नस्यपरिहार आपन्नपरिहारः, अशुद्धे शुद्धस्य परिहारः एवं परिहारस्यनामादि विशेषणतो
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org