SearchBrowseAboutContactDonate
Page Preview
Page 74
Loading...
Download File
Download File
Page Text
________________ उद्देशक : १, मूलं : 9, [भा. २०२] वृ- एतस्य अनंतरोदितस्य पंचषष्ट्यधिकैकोनचत्वारिंशच्छतप्रमाणस्यराशेश्चतुर्विंशत्यधिकेनशतेनभागहरणं भागेचहते अंकालब्धास्ते दिवसा ज्ञातव्याः शेषास्त्वंका उद्धरिता अहोरात्रस्य चतुर्विंशत्युत्तरशतभागाः । [ भा. २०३ ] ७३ अहवावितीसइगुणे, सेसेतेनेवभागहारेण । भइयं मिजंतु लब्भइतेउमुहुत्तामुणेयव्वा ।। वृ- अथवेतिप्रकारांतरद्योतने, तच्चप्रकारांतरमिदंलब्ध दिवसानामुपरिभागास्तावत्तदवस्था एव ध्रियते तथैव शास्त्रे व्यवहार दर्शनात् अथवा अपिसमुच्चये स च समुच्चयः प्रकारांतरस्यै वान्यस्या श्रूयमाणत्वात् शेषे उद्धरिते राशौमुहूर्त्तानयनायस्त्रिंशद्गुणेकृतेततस्तेनैव चतुर्विंशत्युत्तरशतप्रमाणेन भागहारेण भक्ते यत्लभ्यतेतेमुहूर्त्ताज्ञातव्या । [ भा. २०४] तस्सविजं अवसेसं बावठीए उतस्सगुणकारो। गुणकारभागहारे बावठीएय उववट्टो || वृ-तस्यापिमुहूर्त्तस्यसंबंधियदवशेषमुद्धरितं तस्यमुहूर्त्तगतद्वाषष्टिभागानयनाय द्वाषष्ट्या गुणकारः गुणकरणं किमुक्तं भवति यदवशेषंतिष्टति, ततुद्वाषष्ट्या गुण्यते ततोगुणकारभागहारेइतियस्योपरितनस्यरार्शेर्गुणकरमभवत्स गुणकार योगात्गुणकारः, अधस्तनस्तुभागंहरतीतिभागहारः गुणकारञ्च भागहारश्चगुणकारभागहारं समाहारो द्वंद्वस्तस्मिन् षष्टीसप्तम्योरर्थप्रत्यभेदस्ततएतदुक्तं भवति गुणकारभागहारयोर्द्वाषष्ट्या अपवर्त्तोऽपवर्त्तनाक्रियते । [भा. २०५ ] दोहिं तु हितं भागे जेद्धाते बिसठिभागाओ । एएसिमागयफलंरिक्खाईणं कमेणइमं ।। वृ- भागहारराशेश्चतुर्विंशत्यधिकशतप्रमाणस्यद्वाषष्टया पवर्त्तनायां जातौद्वौ ताभ्यांतुद्वाभ्यांहते भागे ये अंका लब्धास्तेद्विषष्टिभागाएव तुरेवकारार्थोः मुहूर्त्तस्य ज्ञातव्याः सांप्रतमागतफलप्रतिपादनार्थमिदभाह एएसिमित्यादिएतेषां भागहाराणांमृक्षादीनां नक्षत्रादिमासानां दिनपरिमाणा नयनायभागं हरतां, यत् आगतमेवफलमागतफलं तत् क्रमेण ऋक्षादि मासपरिपाट्या इदं वक्ष्यमाणं तदेवाह - अहोरत्तसत्तवीसंत सत्तसत्तद्विभागनक्खत्तो । [ भा. २०६ ] चंदो उउगुणतीसं बिसट्टिभागायबत्तीसं ।। वृ- नाक्षेत्रो नक्षत्र संबंधीमासः सप्तविंशतिरहोरात्राः सप्तषष्टिभागाः त्रिःसप्त त्रयोवारासप्त एकविंशतिरित्यर्थः तथाहियुगदिनराशिः त्रिंशदधिकाष्टादश शतप्रमाणो ध्रियते, तस्य सप्तषष्टिर्युगेनक्षत्र मासा, इति सप्तषष्ट्या भागोहियते लब्धासप्तर्विशति रहोरात्रा एकविंशतिरहोरात्रस्यसप्तषष्टिभागाः, तथा चांद्रश्चंद्रमासएकोनत्रिंशदहोरात्राद्वाषष्टिभागा अहोरात्रस्यद्वात्रिंशत् तथाहितस्यैवयुगदिनराशेस्त्रिंशदधिकाष्टादशशतमानस्य युगे चंद्रमासाद्वाषष्टिरिति द्वाषष्ट्याभागेहृतेएतावदेवलभ्यते इति । उडुमासोतीसदिनाआइच्योती सहोइ अद्धं च । [ भा. २०७ ] अभिवड्डिएकत्तीसाएगवीससयं च भागाणां ।। वृ-ऋतुः मासपरिपूर्नानि त्रिंशद्दिनानि एकषष्टिर्युगेऋतुम्र्म्मासइत्येकषष्ट्या अनंतरोदितस्यध्रुवराशेर्भागहरणे एतावत्तोलभ्यमानत्वात् । आदित्य आदित्य मासो भवति, त्रिंशदहोरात्रा अहोरात्रास्यार्द्धं यतः सूर्यस्ययुगे मासाः षष्टिस्ततः षष्टायाध्रुवराशेर्भागहरणे एतावल्लभ्यते इति अभिवर्द्धितो अभिवर्द्धितमास् Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003325
Book TitleAgam Suttani Satikam Part 21 Vyavahara
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages482
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_vyavahara
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy