SearchBrowseAboutContactDonate
Page Preview
Page 70
Loading...
Download File
Download File
Page Text
________________ उद्देशक : १, मूलं : १, [भा. १८९] ६९ बू - ननुयदेतत्वयोक्तं, भिक्षणशीलोभिक्षुरितितदसमीचीनमतिव्याप्तिदोषप्रसंगात् । तथाहिभिक्षुरित्युच्यमानेऽन्येपिरक्तपटादयोनो आगमतोभावभिक्षवः प्राप्नुवंति तेषामपि, भिक्षाजीवितयाभिक्षणशीलत्वात् । नचैतदिष्यते तस्मादतिव्याप्तिर्भावभिक्षुलक्षणस्यदोषः । अत्रसूरिराह नतेशेषारक्तपटभृतयोभिक्षवः कुतइत्याह - अनन्यवृत्तित्वात्नविद्यतेअन्याभिक्षा मात्रात्व्यतिरिक्तावृत्तिवर्त्तनंयेषां तेअनन्यवृत्तयस्तद्भावस्तत्वंतस्मादनन्यगतिकत्वदित्यर्थः किमुक्तंभवतियदा आधाकर्मिकौशिकमम्याहतं वा नलभंते तदा अनन्यगतिकयाभिक्षापरिभ्रमणशीलास्ततोनतेभिक्षवः इयमत्रभावना, द्वेशब्दस्यनिमित्ते तद्यथा व्युत्पत्तिनिमित्तं प्रवृत्ति निमित्तं च यथागोशद्वस्य । तथाहिगोशब्दस्यव्युत्पतिनिमित्तगमनक्रियागच्छतीतिगौरितव्युत्पादनात् तेनचगमनेनैकार्थिसमवायितयायदुपलक्षितंसास्नादिमत्वंतत्प्रवृत्तिनिमित्तंतेनचगच्छति अगच्छति वागोपिंडेगोशब्दः प्रवर्त्तते उभय्यामप्यवस्थायां प्रवृत्तिनिमित्तभावात् अश्वादीतुन प्रवर्त्तते । यथोक्तरुपस्यप्रवृत्तिनिमित्तस्यतत्राभावात । एवभत्रापिभिक्षुशब्दस्यद्वेनिमित्ते, व्युत्पत्तिनिमितं प्रवत्तिनिमित्तं च तत्र भिक्षणंव्युत्पत्तिनिमित्तंभिक्षतो इत्येवंशीलो भिक्षुरितिव्युत्पत्तिः तेन च भिक्षणेनैकार्थसमवायितया यदुपलक्षितमिहपरलोकाशंसाविप्रमुक्ततया यमनियमेषुव्यवस्थितत्वंतत् प्रवृत्तिनिमित्तं तेनभिक्षमाणे अभिक्षमाणे वाभिक्षौभिक्षुशब्दः प्रवर्त्तते, उभय्यामपि अवस्थायां प्रवृत्तिनिमित्तसद्भावात्; रक्तपटादौतुन प्रवर्त्तते, नवकोट्य परिशुद्धान्नभोजितयातेषुयथोक्त रुपस्यप्रवृत्तिनिमित्तस्याभावात्, अत्रार्थेज्ञातमुदाहरणं कर्त्तव्यं, पिशितालाभेन यो निः पिशित स्तेनयथा कोऽपि ब्रुयात् यावत् मांसं न लभेतावदहं निः पिशितः पिशितव्रती ।। [ भा. १९० ] अविहिंसा बंभयारी, पोसहिय अमद्यमंसियाचोरा ।। सतिलंभे परिच्चाई हांतितदक्खानसेसाउ ।। - कोपि भाषेत अहमहिंसावृत्तिर्यावन् मृगादीन् न पश्यापि । अन्यः कोप्येवंब्रूते अहं ब्रह्मचारी यावन्मय स्त्री न संपद्यते अथवा कोप्येवमाह । अहमाहारपोषधीयावन्ममाहारोन संपद्यते, यथावा कोपिवदेत् अहम्मद्यमांसवृत्तिर्यावत् मद्यमांसे न लभे यथा वा कोपि नियमं प्रतिपद्यते । अचोरवृत्तिरहंयावत् परस्यच्छिद्रं न पश्यामि इतिएते यथा पिशिताद्य लाभेन निः पिशितादयोनाम पिशिवव्रत्तादयः व्रतं च सति असतिवावस्तुनि तदिच्छापरित्यागतस्तन्निवृत्तिः निः पिशितादीनां तुपिशितादिष्विच्छा सततानुबंधिनीततो नतेपिशितव्रत्यादयः व्रतिशब्दप्रवृत्तिनिमित्ताभावात् । तथा चाह सति लंभे इत्यादि सति विवक्षितस्य पिशितादेर्वस्तुनो लाभेपितत्परित्यागिनस्ते तदाख्या भवंति सत्यपिवस्तुनो लाभेतत्परित्यागतः सत्यसतिवावस्तुनितद्विषयेच्छापरित्यागात् शेषास्त्वनंतरोदिता निपिशितादयोन तदाख्यापिशिताद्य लाभेपितद्विषयेच्छा निवृत्यभावात् एवं रक्तपटादयो पिनभिक्षवः पचन पाचनादिनवकोटीविषयेच्छा निवृत्यभावात् तदभावश्चाधाकर्म्मादिष्वपि प्रवृत्तेः तदेवं निःपिशितादिदृष्टांतोपन्यासैन रक्तपटादिषु यथोक्तरुपप्रवृत्ति निमित्ताभावतो भिक्षुशब्द प्रवृत्त्यभावः उक्तः । अथवा किमेतैरुपन्यस्तैर्दृष्टांतैर्भिक्षुप्रवृत्ते जगत्प्रसिद्धायास्तेषु साक्षादभाव दर्शनतएव भिक्षुशब्द प्रवृत्यभावस्य सिद्धत्वात् तथाचाह [भा. १९१] Jain Education International · अहवाएसणासुद्धं जहागिहणंतिसाहुणो । भिक्खं नेवकुलिंगत्था, भिक्खजीवीवितेजदि ।। For Private & Personal Use Only www.jainelibrary.org
SR No.003325
Book TitleAgam Suttani Satikam Part 21 Vyavahara
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages482
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_vyavahara
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy