________________
पीठिका - [भा. १७३ ]
६३
अयतनामपि जानाति एवं कार्याकार्ये यतायते कोविदो गीतार्थो यदि दर्पेण प्रतिसेवते । कारणेप्ययतनया तदा स दर्पायतनातो निषेवमाणोऽनुरूपं दर्पानुरूपमयतनारूपं दोषं प्रायश्चित्तं प्राप्नोति, दर्पाऽयतनानिष्पन्नं तस्मै प्रायश्चित्तं दीयते इति भावः ।
[भा. १७४ ]
कप्पेय अकप्पम्मिय, जो पुन अविनिच्छितो अकज्जुंपि । कमिति सेवमाणो अदोसवंतो असढमावो ।।
वृ- यः पुनः कल्पेऽकल्पे च अविनिश्चितः किंकल्प्यं किमकल्प्यमिति विनिश्चियरहितः सोऽकार्यमपि अकरणीयमपि अकल्प्यमिति भावः कार्यमिति कल्पिकमिति बुध्या सेवमानोऽशठभावः अत्र हेतौ प्रथमाऽशठभावत्वाददोषवान् प्रायश्चित्तभाग् भवतीतिभावः ।
[भा. १७५ ]
जं वा दोसमयाणतो हेहंभूतो निसेवई । निद्दोसवं केण हुज्जा, वियाणतो तमायारं ।।
वृ-भूतो नाम गुणदोषपरिज्ञानविकलोऽशटभावः सयं दोषमजानानो निषेवते प्रतिसेवते तमेव दोषं विजानानः कोविदो गीतार्थः आचरन् समाचरन् केन हेतुना निर्दोषवान् ? दोषस्याभावो निर्दोषं तदस्यास्तीति निर्दोषवान् दोषाभाववान् न भवेत् नैव भवतीत भावः । तीव्रदुष्टाध्यव्यवसायभावात् । न खलु जानानस्तब्रिदुष्टाध्यवसायमंतरेण तथा प्रवर्त्तते इति तदेवं दृष्टांतमभिधायाधुना दातिकयोजनामाह - ( भा. १७६ ]
एमेवय तुल्लंमिवि अवराहपयंमि वट्टिया दोवि । तत्थवि जहानुरुवं दलंति दंडं दुवेणहंपि ।।
वृ- एवमेव अनेनैव प्रकारेण अनेनैव दृष्टांतेनेति भावः द्वावपि जनौ आस्तामेक इत्यपि शब्दार्थः । तुल्येपि समानेप्यपराधपदे वर्त्तितौ तत्रापि तुल्येप्यपराधपदे द्वयोरपि तयोर्यथानुरूपं गीतार्थागीतार्थयतनासंहननविशेषानुरूपं दंडं दलयंति प्रयच्छन्ति, तस्मात् प्रायश्चित्तभेदतः प्रायश्चित्तदानभेदतश्चाचार्यादिकस्त्रिविधो भेदः कृतः, तदेवमाचार्यादित्रिविधभेदसमर्थनायोक्तरुपदृष्टांतवशतो गीतार्थागीतार्थादिभेदतः आभवत् प्रायश्चित्तनानात्वं चोपदर्शितमिदानीमत एव दृष्टांतादवस्थाभेदतो गीतार्थे एव केवले शोधिनानात्वमुपदर्शयति ।
[ भा. १७८ ]
एसेवय दिठ्ठतो तिविहे गीयंमि विसोहिनाणत्तं । वत्थुसरिसो उदंडो दिजइ लोएवि पुव्वृत्तं ।।
वृ- गीते गीतार्थे त्रिविधे त्रिप्रकारे बालतरुणवृद्धलक्षणे यत् शोधिनानात्वं तद्विषये एष एवानंतरोदितस्वरुपो दृष्टांतस्तथाहि यथाकल्प्यविधिपरिज्ञानविकलोऽकल्पनीयमपि कल्पनीयमिति बुद्ध्या प्रतिसेवमानो न दोषवान् भवति । कोविदस्तु कल्प्याकल्प्ये जानानोऽकल्पनीयं प्रतिसेवमानां दोषवान् एवमिहापि तुल्ये प्रतिसेव्यमाने वस्तुनि तरुणे प्रभूतं प्रायश्चित्तं समर्थत्वात् । बालवृद्धयोः स्तोकमसमर्थत्वात् न चैतदन्याय्यं यतो लोकेपि वस्तुसदृशः पुरुषानुरुपो दंडो दीयते, तथाहि बाले वृद्धे च महत्यप्यपराधे करुणास्पदत्वात् स्तोको दंड: तरुणे महान्, एतच्च पुव्युत्तमिति प्रागवोक्तं दोसविहवानुरूवो इत्यादिना ततो न्याय्यमनंतरोदितमिति, संप्रत्याचार्योपाध्यायभिक्षूणामेव चिकित्साविषये विधिनानात्वं दर्शयति -
[ भा. १७८ ]
तिविहे तेगिच्छंमि उज्जुय वाउलणसाहुणा चेव ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org