________________
६४..
व्यवहार - छेदसूत्रम्-१पनवणमनिच्छंते, दिळंतोभंडिपोएहिं ।। वृ-त्रिविधे त्रिप्रकारे आचार्योपाध्यायभिक्षुलक्षणे चिकित्स्वमाने गीतार्थे इति गम्यते, उ यत्ति ऋजुकं स्फुटमेव व्याप्त साधुना व्यापृतक्रियाकथनं कर्त्तव्यं इयमत्रभावना आचार्याणामुपाध्यायानां गीतार्थानांच भिक्षूणां विचिकित्स्यमानानांयदिशुद्धं प्रासुकमेषणीयं लभ्यते, तदा समीचीनमेवंनतत्र विचारः अथ प्रासुकमेषणीयं न लभ्यते, अवश्यं च चिकित्सा कर्त्तव्या, तदा ऽशुद्धमप्यानीय दीयते, तथाभूते च दीयमाने स्फूटमेव निवेद्यते, इदमेवंभूतमिति, तेषां गीतार्थत्वेनापरिणामदोषस्यातिपारिणामदोषस्य चासंभवात् । अगीतार्थभिक्षोः पुनः शुद्धालाभे चिकित्सामशुद्धेन कुर्वतो मुनिवृषभा यतनयाकुति,नचाशुद्धंकथयति ।यदिपुनः कथयंत्ययतनयाकुर्वति,तदा सोऽपरिणामत्वादनिच्छन् यत आगाढादि परितापनममनुभवति । तन्निमित्तं प्रायश्चित्तमापद्यते तेषां मुनिवृषभाणां यद्वातिपरिणामतया सोतिप्रसंगं कुर्यात्, तस्मान्न कथनीयं नाप्ययतना कर्तव्या, अथ कथमपि तेनागीतार्थेन भिक्षुणा ज्ञातं भवेत् यथा अकल्पिकमानीय मह्यं दीयते इति, तदा तदनिच्छन् प्रज्ञाप्यते तथाचाह पन्नवणमणिच्छंते इति अकल्पिकमनिच्छत्यगीतार्थे भिक्षौ प्रज्ञापना कर्तव्या । यथा ग्लानार्थं यदकल्पिकमपियतनया सेव्यते, तत्रशुद्धो ग्लानो, यतनवा प्रवृत्तरत्पीयान् दोषोऽशुद्धग्रहणात्सोपि चपश्चात्प्रायश्चित्तेनशोधयिष्यतेनचासावल्पीयान् दोषोनांगीकर्तव्यः ।उत्तरकालंप्रभूतसंयमलाभात् तथाहि चिकित्साकरणतःप्रगुणीभूतःसनपरिपालयिष्यतिचिरकालंसंयम,संयमप्रभावतश्चकदाचित गम्यते तद्भव एव मोक्षो, यदि पुनश्चिकित्सां न कारयिष्यसि । ततस्तदकरणतो मृतः सन्नसंयतो भविष्यसि, असंयतस्य च भूयान्कर्मबंधस्तस्म्मादल्पेन बान्वेष्यतामेताद्विद्वत्ताया लक्षणं, उक्तंच, अप्पेण बहुमेसेज्जा एवं पंडियलक्खणमिति, एवं प्रज्ञापना तरुणे क्रियते, यः पुनः बालः स बालत्वात यथा भणितंकरोत्येव यस्तु वृद्धस्तरुणो वातिरोगग्रस्तोऽचिकित्सनीयः सप्रोत्साह्यते महानुभाव! कुरु भक्तप्रत्याख्यानं,साधय! पूर्वमहर्षिरिवोत्तमार्थमेतजिनवचनाधिगमफलमिति, यदिपुनरेवमुत्साह्यमानोपिनभक्तप्रत्याख्यानं कर्तुमिच्छति, तदाभंडीपोताभ्यांदृष्टांतःकरणीयः,भंडीगंत्री, पोतः प्रवहणं, दृष्टांतकरणं चाग्रेस्वयमेव दर्शयिष्यति । एष गाथासमासार्थः सांप्रतमेनामेव गाथां विवृणोति ।। [भा.१७९] सुद्धालाभे अगीते अजयणकरणकहणेभवेगुरुगा ।
कुञा व अतिपसंग, असेवमानेव असमाही ।। वृ-अगीते अगीतार्थे भिक्षौ शुद्धालाभेप्रासुकैषणीवालाभे अशुद्धेन चिकित्स्यमाने यदि अयतना क्रियतेकथ्यतेवा, तदामुनिवृषभाणामयतनाकारिणांकथयतांप्रायश्चित्तं भवति, गुरुकाश्चत्वारोमासा गुरवः, इयमत्र भावना यदि अयतनाकरणतोऽकरणतो वा ज्ञातं भवति । यथा ममाशुद्धेन चिकित्सा क्रियते तदा तेषां मुनिवृषभाणां चत्वारो गुरुकाः एतच्चासामाचारीप्रवृत्तिनिषेधार्थ प्रायश्चित्तं, या पुनरनिच्छतोऽसमाधिप्रवृतेरनागाढादिपरितापना तन्निष्प्रन्नमन्यदेव पृथगिति, यदिवा सोतिपरिणामकत्वादतिप्रसंगं कुर्यात् । अथवा चिकित्सायाः प्रतिषेधतोऽकन्ल्पनीयमसेवमाने रोगवृद्विवशापदसमाधिस्तस्यस्यात् असमाहितस्यचकुगतिप्रपातस्तस्मात्तस्मिन्यतनयाकर्त्तव्यं, नच कथनीयमिति, सांप्रतं यदुक्तंभंडीपोताभगां दृष्टांतः कर्त्तव्य इति । तत्रमंडीदृष्टांतंभावयति । [भा.१८०] जाएगदेसे अदढाउभंडी, सीलप्पए साउ करेइकजं ।
जादुब्बला संटवियाविसंती नतंतुसीलंति विसन्नदारूं ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org