________________
६२
व्यवहार - छेटसूत्रम्-१. एतेन कारणेनाचार्यादयस्त्रिविधा भवंति, सूत्रे भवे इति बहुत्वेप्यकवचनं प्राकृतत्वात् प्राकृते हि वचनव्यत्ययोपिक्वचिद्भवति इति, एनामेव गाथांव्याख्यानयति ।। [भा.१७१] कज्जाकज्जजयाजय अविजाणंतो अगीतोजंसेवे ।
सो होइतस्स दप्पो गीये दप्पोजहदोसा ।।। वृ-कार्यं नाम प्रयोजनं, यच्च प्रयोजनं तच्च अधिकृतप्रवृत् कारणं, अतएवान्यत्रोक्तं कारणंतिवा कजंति वा एगळं, ततोयमर्थः अगीतोऽगीतार्थः कारणं न जानाति, यस्मिन्प्राप्त प्रतिसेवना क्रियते । अकारणं न जानाति यस्मिन् प्रतिसेवना न क्रियते, तथा कारणे अकारणे वा प्राप्ते सेवनं कुर्वन् यतनामयतनांवानजानाति, एतान्यजानानो यः सेवतेप्रतिसेवते, तस्यदर्पोभवति ।सा तस्यदर्पिका प्रतिसेवनाभवतीतिभावः,गीतार्थः पुनः सर्वाण्यप्येतानि जानातिततः कारणेप्रतिसेवते, नाकारणेपि यतनयानपुनरयतनयाततःशुद्ध एवनप्रायश्चित्तविषयोऽगीतार्थस्य त्वज्ञानतयादर्पणप्रतिसेवमानस्य प्रायश्चित्तं यदि पुनः गीतार्थोपि दर्पण प्रतिसेवते, कारणेप्ययतनया च तदा तुल्यामगीतार्थेन समंतस्य प्रायश्चित्तं । तथाचाह गीए दप्पा जए दोसा, गीते गीतार्थे दर्पण प्रवर्तमाने प्रतिसेवनायामिति गम्यते कारणेपि प्रतिसेवनाया अयतमाने अगीतार्थेन तुल्यं तस्य प्रायश्चित्तमिति भावः, प्रतिसेव्यमाने तुल्ये वस्तुनि दर्पणापि क्रियमाणायां प्रति सेवनायां यतनया प्रवृत्तौ न तुल्यं प्रायश्चित्तं, कारणे पुनर्यतनया प्रवर्त्तमानः शुद्ध एव न प्रायश्चित्तविषयः । तत्राचार्या उपाध्यायश्च नियमात् गीतार्था इति गीतार्थत्वापेक्षया समाः केवलंप्रतिसेव्यमानंवस्तुप्रतीत्य विषमाः भिक्षवोगीतार्थाऽगीतार्थाश्चभवंति प्रतिसेव्यमपि वस्त्वधिकृत्य भेद इति, वस्तुभेदतो गीतार्थत्वागीतार्थत्वतश्च पृथक् विभिन्नं विभिन्नं प्रायश्चित्तं, सहासहपुरुषाद्यपेक्षया तुतुल्येप्याभवति प्रायश्चित्ते पृथक् विभिन्नं विभिन्न प्रायश्चित्तदानं तथाचाह - [भा.१७२] दोसविहवानुरुवोलोएदंडोवि किमुतउत्तरिए।
तित्थुच्छेदो इहरा निरानुकंपानय विसोही ।। वृ-दंडोवीत्यपिशब्दो भिन्नक्रमत्वात्लोकेपीत्येवंद्रष्टव्यः लोकेपिदंडोदोषानुरुपो विभवानुरुपश्च, तथाहिमहत्यपराधे महान दंडोऽल्पेऽल्पीयान तथा समानेऽपि दोषेऽल्पधनस्याल्पोमहाधनस्य महान लोकेपि तावदेवं किमुत किंपुनरौत्तरिके लोकोत्तरसंबंधिनि व्यवहारे, तत्र सुतरां दोषसामर्थ्यानुरुपो दंडस्तस्यसकलजगदनुकंपायाः प्रधानत्वात्यदिपुनरल्पेपिदोषेमहान्दंडोमहत्यप्यल्पीयान्तथा यदि समानेप्यपराधेकृतकरणत्वमकृतकरणत्वंवाचार्योपाध्याययोर्भिक्षोरपिकृतकरणत्वमकृतकरणत्वमधिगतत्वं स्थिरत्वमस्थिरत्वंचानपेक्ष्य न तदनुरुपो दंडः स्यात् किंतुतुल्य एव, तदा व्यवस्थाया अभावतः संतानप्रवृत्यसंभवे तीर्थोच्छेदः स्यात्, तथा निरनुकंपा अनुकंपाया अभावः । प्रायश्चित्तदायकस्य असमर्थभिक्षुप्रभृतीनामनुग्रहात्नचतस्य प्रायश्चित्तदायकस्य विशोधिरप्रायश्चित्तस्य प्रायश्चित्तेप्यतिमात्रप्रायश्चित्तस्य दानतो महाऽशातनासंभवात् अप्पच्छिते व देइ पच्छित्तं पच्छित्ते आसायणा तस्स महतीउ, इतिवचनात्ततःसापेक्षा आचार्यादयस्त्रिविधा उक्ताः अत्रैव प्रकारांतरमाह । [भा.१७३] अहवा कज्जा कज्जे जयाजयंतेय कोविदो गीयो; ।
दप्पाजातोनिसेवे, अनुरुवं पावए दोसं ।। वृ-अथवेतिप्रकारांतरेगीतार्थःसकारणमपिजानाति ।अकारणमपिजानाति,यतनामपिजानाति।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org