SearchBrowseAboutContactDonate
Page Preview
Page 62
Loading...
Download File
Download File
Page Text
________________ पीठिका - [भा. १६७] पूर्वार्द्धं, नवमे पूर्वार्द्धदशमे निर्विकृतिकं, अत्रषष्ठादारब्धं निर्विकृतिकेनिष्ठितं द्वाविंशतितमायां पंक्ती प्रथमे गृहके चतुर्थं द्वितीये आचाम्लं चतुर्थे एकाशनं पंचमे एकाशनं षष्ठे पूर्वार्द्ध सप्तमे पूर्वार्द्ध अष्टमे निर्विकृतिकमत्रचतुर्थादारब्धं निर्विकृतिकेनिष्ठितं, त्रयोविंशतितमायांपंक्तौ प्रथमेगृहके आचामाम्लं द्वितीये एकाशनकं । तृतीये एकाशनकं । चतुर्थे पूर्वार्द्ध पंचमे पूर्वार्द्ध, षष्ठे निर्विकृतिकं, चतुर्विंशतितमपंक्तौ प्रथमे गृहके एकाशनकं द्वितीये पूर्वार्द्ध तृतीये पूर्वार्द्धं । चतुर्थे निर्विकृतिकं, पंचविंशतितमंपक्तीप्रथमेगृहकेपूर्वार्द्धद्वितीयेनिर्विकृतिकंषड्विंशतितमायांपंक्तौ निर्विकृतिकमिति, तदेवं कयकरणा इयरेवा इत्यादिना ये पुरुषभेदाः प्रागुक्तास्तेषां प्रायश्चित्तदानविधिरुक्तः । संप्रति जं सेवेइ अहिगतो इत्यादियत् गाथोत्तरार्द्धमुक्तं, तद्व्याख्यानार्थमाह, - [भा.१६८] अकयकरणाउगीयाजे यअगीया य अकयअथिराय । तेसावत्तिअनंतरबहुयंतरियं व झोसो वा । वृ-ये गीता गीतार्था अधिगता इत्यर्थः, अकृतकरणाः ये च अगीता अगीतार्था अनधिगता इति भावः, अकयत्ति अकृतकरणाश्च, चशब्दात् अकृतकरणाश्च । अस्थिराश्च कृतकरणा अकृतकरणाश्च तेषां कदाचित् आपत्तिप्रायश्चित्तं दीयते, यत्यत्प्रायश्चित्तं आपनंतदेव दीयते इति, यावत् कदाचित् तथाविधायामसमर्थतायां यत्प्रायश्चित्तमापन्नं, तस्याक्तिनमनंतरं दीयते, कदाचित्प्रभूतायामसमर्थतायांबहूतरितबहुभिः प्रायश्चित्तैरनंतरितमक्तिनंदीयतेइतियावत् अत्यंतासमर्थतायांझोसोवासर्वस्य प्रायश्चित्तस्य परित्यागः आलोचनमात्रेणैवतस्यामवस्थायां तस्य शुद्धिभावात् ।, यथा कृतकरणस्योपाध्यायस्य मूलमापन्नस्य तथाविधयोग्यतायां मूलं दीयते, अकृतकरणस्य पुनरसमर्थ इति कृत्वा छेदस्तथाप्यसमर्थतायां षट्गुरुतत्राप्यशक्तौषट्लघुएवं तावत्नेयं यावन् निर्विकृतिकंतत्राप्यशक्ती पौरुषीतत्राप्यसमर्थतायां नमस्कारसहितं तस्यापिगाढग्लानत्वभावतोऽसंभवे एवमेवालोचनामात्रतः शुद्धिरिति । तदेवकयकरणाइयरेवाइत्यादिगाथाद्वयसकलमपिभावितमधुनासावेक्खा आयरीयमादीति यदुक्तंतत्र परस्याक्षेपमाह - भा.१६९] आयरियादी तिविहोसावेक्खाणंतु किंकतोभेदो । एएसिंपच्छित्तंदानंचऽन्नं अतोतिविहो ।। वृ- नन्वाचार्योपाध्याययोरपि भिक्षुत्वस्यावस्थितत्वात् तद्ग्रहणे तयोरपि ग्रहणमिति किं किमर्थं सापेक्षाणां त्रिविध आचार्यादिकः आचार्योपाध्यायभिक्षुलक्षणः कृतो भेदः ? एवमुक्ते सूरिराह एएसिणमित्यादि । एतेषामाचार्यादीनां यत् आभवति प्रायश्चित्तं यश्च तस्य प्रायश्चित्तस्य समर्थासमर्थपुरुषाद्यपेक्ष्य दानं, तत् पृथक पृथक् अन्यत् अतः सापेक्षाणामाचार्यादिकस्त्रिविधो भेद: कृतः, एतदेव सविशेषमाह - [भा.१७०] कारणमकारणं वाजयणा अजयणा व नत्थिअगीयत्थे । . एएणकारणेणंआयरियाईभवेतिविहा ।। वृ- इदं कारणं प्रतिसेवनाया इदमकारणं वा, तथा इयं यतना इयमयतना इत्येतन्नास्ति अगीतार्थे, गीतार्थस्यतु, अर्थात्गीतार्थस्यास्तीतिप्रतीयते,तत्राचार्योपाध्यायोगीतार्थो, भिक्षुःगीतार्थोऽगीतार्थश्च, गीतार्थस्यअगीतार्थस्यच कारणेयतनयाकारणेअयतनया अकारणेयतनयाअकारणेअयतनया पृथक् प्रथक अन्यत्प्रायश्चित्तं,सहासहपुरुषाद्यपेक्षातुल्येपिप्रायश्चित्तेआपद्यमानेपृथगन्योऽन्योदानविधिरत Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003325
Book TitleAgam Suttani Satikam Part 21 Vyavahara
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages482
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_vyavahara
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy