SearchBrowseAboutContactDonate
Page Preview
Page 57
Loading...
Download File
Download File
Page Text
________________ व्यवहार -छदसूत्रम्-१येपुनस्तस्यप्रायश्चित्तस्यार्हायोग्याः पुरुषजाताः पुरुषप्रकाराः पुरुषभेदा इत्यर्थः, तेइमेवक्ष्यमाणस्वरुपा भवंति ।तानेव दर्शयति ।। [भा.१५९] कयकरणा इयरे वा सावेक्खा खलु तहेव निरवेक्खा । निवेक्खा जिनमादी सावेक्खा आयरियमादी ।। वृ-कृतकरणा नाम षष्ठाष्ठमादिभिर्विविधतपोविधानैः परिकर्मितशरीरः इतरे अकृतकरणाः षष्ठाष्ठमादिभिस्तपोविशेषैरपरिकर्मितशरीराः तत्रयेकृतकरणास्तेद्विविधास्तद्यथासापेक्षाः खलुतथैव निरपेक्षाः, सहअपेक्षागच्छस्येतिगम्यतेयेषांतेसापेक्षागच्छवासिनः, निर्गता अपेक्षायेभ्यस्तेनिरपेक्षाः तत्र ये निरपेक्षास्ते त्रिविधा जिनादयः तद्यथा । जिनकल्पिकाःशुद्धपरिहारविशुद्धिका यथालंदकल्पिकाश्च, एते नियमतः कृतकरणा एव अकृतकरणानामन्यतमस्यापि कल्पस्य प्रतिपत्त्ययोगात् सापेक्षा अपि त्रिविधा आचार्यादयस्तद्यथा - आचार्या उपाध्याया भिक्षवश्च एते प्रत्येकं द्विधा भूयो भवंतितद्यथा-आचार्याः कृतकरणाअकृतकरणाश्चउपाध्यायाअपिकृतकरणा अकृतकरणाश्चभिक्षवोपिकृतकरणा अकृतकरणाश्चतत्र कृतकरणानां चिंत्यमानत्वादस्यां गाथायामेते कृतकरणाग्राह्याः । [भा.१६०] अकयकरणावि दुविहा, अणहिगया अहिगया यबोधव्वा । जंसेवेइ अहिगए अनहिगएअस्थिरे इच्छा ।। वृ- इहाचार्या उपाध्यायाश्च कृतकरणा अकृतकरणा वा नियमात् गीतार्थाः स्थिराश्च, तत इहाकृतकरणा भिक्षव एव ग्राह्याः,तेअकृतकरणा भिक्षवो द्विविधास्तद्यथा अनधिगताश्चअधिगताश्च अनधिगता नाम अगीतार्थाः अधिगता गीतार्थाः, अपिशद्धःसंभावने स चैतत्संभावयति, ये भिक्षवोऽनधिगतास्ते द्विविधास्तद्यथा स्थिरा अस्थिराश्च स्थिरा नाम धृतिसंहननसंपन्नाः तद्विपरीता अस्थिराः, अधिगता अपि द्विधा स्थिरा अस्थिराश्च कृतकरणा अपि भिक्षवो द्विधा अधिगताः अनधिगताश्च अनधिगता अपि द्विधा स्थिरा अस्थिराश्च अधिगता अपि द्विविधाः स्थिरा अस्थिराश्च अत्रैवसंक्षेपतः प्रायश्चित्तदानविधिमाहजंसेवेइइत्यादियत प्रायश्चित्तस्थानंसेवतेप्रतिसेवते अधिगतो गीतार्थ उपलक्षणमेतत् कृतकरणः स्थिरश्च तस्मै तदेव परिपूर्न दीयते, तदेव प्रायश्चित्तस्थान प्राप्ते अनधिगतेअस्थिरेच अस्थिरे, चशद्वादकृतकरणे चगुरोः प्रायश्चित्तदानविधौइच्छा सूत्रोपदेशानुसारण स्वेच्छा तथाहि यदि श्रुतोपदेशानुसारतः कृतकरणः स्थिरोधिगत इति वा कतकरणादिरपि समर्थ इति विज्ञातो भवति तदा यदेव प्रायश्चित्तमापन्नस्तदेव तस्मै दीयते, । अथासमर्थ इति परीक्षित इति गाथावत्प्रायश्चित्तं प्राप्तस्तस्याक्तिनमनंतरं दीयते, तत्राप्यसमर्थतायां ततोप्यनंतरं तत्राप्यसामर्थ्य ततोप्यनंतरमेवं यथापूर्वं क्रमेण तावन्नेयं यावन्निविकृतिकं तत्राप्चसमर्थतायां पौरुषीप्रत्याख्यानं, तत्राप्यशक्तो नमस्कारसहितंगाढग्लानत्वादिनातस्याप्यसंभवेएवमेवलोचनामात्रेणशुध्यापादनमिति, संप्रति पुरुषभेदमार्गणायामेव प्रकारांतरमाह - [भा.१६१] अहवासा विक्खियरे निरवेक्खा सव्वहा उकय करणा। इयरेकयाऽकयावा, थिराऽथिरा होतिगीयत्था ।। वृ- अथवेति प्रकारांतरद्योतनार्थः, तच्च प्रकारांतरमिदं पूर्वं कृतकरणा कृतकरणभेदावादी कृत्वा पुरुपभेदमार्गमाकृता, अत्रतुसापेक्षनिरपेक्षभेदो तथाचाह - साविक्खियत्ति द्विविधाः प्रायश्चित्तार्हाः पुरुषास्तद्यथा ।सोपेक्षा इतरेच, सांपेक्षा गच्छवासिनस्तेच त्रिधाआचार्या उपाध्याया भिक्षवः, निरपेक्षा For Private & Personal Use Only www.jainelibrary.org Jain Education International
SR No.003325
Book TitleAgam Suttani Satikam Part 21 Vyavahara
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages482
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_vyavahara
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy