SearchBrowseAboutContactDonate
Page Preview
Page 58
Loading...
Download File
Download File
Page Text
________________ पीठिका - [भा. १६१] जिनकल्पिकादयस्तत्र ये निरपेक्षास्ते सर्वशः सर्वात्मना कृतकरणास्तुशद्वस्य समुच्चयार्थत्वादधिगताः स्थिराश्च, इतरे सापेक्षा द्विविधास्तद्यथा कयाकयावा इति पदैकदेशे पदसमुदायोपचारात् कृतकरणा अकृतकरणाश्च वाशद्वः समुच्चये कृतकरणा अपि द्विधा स्थिरा अस्थिरा अस्थिराश्च, अकृतकरणा अपि द्विधा स्थिरा अस्थिराश्च एकैके द्विधा गीतार्था अगीतार्थाश्च सूत्रे गीतार्था इत्युपलक्षणं, ततोऽगीतार्था अपि विवृताः अथ किंस्वरुपाः कृतकरणा इति कृतकरणस्वरुपमाह छठमाइएहिं कयकरणा तेउ उभयपरियाए । अहिगयकयकरणत्तं जोगयतगारिहा केई ।। [ भा. १६२ ] वृ- कृतकरणा नाम ये पटाष्टमादिभिस्तपोविशेषैरुभयपर्याये श्रामण्ये पर्याये चेत्यर्थः परिकर्म्मितशरीरास्ते ज्ञातव्यास्तद्विलक्षणा इतरे सामर्थ्यादकृतकरणाः; अत्रैव मतांतरमाह । अहिगयेत्यादि केचिदाचार्या ये अधिगतास्ते नियमात्कृतकरणा इत्यधिगतानां कृतकरणत्वमिच्छंति, कस्मादितिचेदत आह जोगायतगारिहाइति, निमित्तकारणहेतुषु सर्वासां विभक्तीनां प्रायोदर्शनमिति वृद्धवैयाकरणप्रवादात् हेतावत्र प्रथमा ततोयमर्थः यतस्तैर्महाकल्पश्रुतादीनामायतकाला योगा उद्व्यूढास्तत आयतकयोगार्हा अभवन्निति नियमतो अधिगताः कृतकरणा इति, तदेवं कृताः पुरुषभेदमार्गणा सांप्रतममीषां प्रायश्चित्तदानविधिर्वक्तव्यस्तत्र ये निरपेक्षा जिनकल्पिकादयस्ते यत् प्रायश्चित्तमापन्नास्तदेव तेभ्यो दीयते न तद्विषया गुरुलाधवचिंता निरपेक्षत्वात् सापेक्षाणां तु सापेक्षतयैव प्रायश्चित्तदानविधौ तद्विषया गुरुलाघव चिंता कर्त्तव्या, तत्र यानि प्रायश्चित्तानि दातव्यानि तानि संक्षेपतो गाथाद्वयेनाह । निव्विइए पुरिमड्ढे, एक्कासण अंबिले चउत्थेय । भा. १६३ ] पनगं दस पनरसा वीसा तह पन्नवीसाय ।। ५७ [ भा. १६४] मासो लहुओ गुरुगो, चउरोमासा हवंति लहुगुरुगा । छम्मासा लहुगुरुगा छेदो मूलं तह दुगं च ।। वृ- निर्विकृतिकं विकृतिप्रत्याख्यानं पुरिमङ्कंति दिवसपूर्वार्द्धप्रत्याख्यानं, एकाशनाचाम्लचतुर्थाति प्रतितानि, पनगति, रात्रिंदिवानां पंचकं लहुगुरुयंति वक्ष्यमाणं पदमत्रापि व्याख्यानती विशेषप्रतिपत्तिरिति विभक्तिपरिणामेन संबंध्यते, लघुरात्रिंदिवपंचकं गुरुरात्रिंदिवपंचकं च तत्र लघुरात्रिंदिवपंच-. कमाचाम्लेन एकद्व्यादिदिनैर्वा हीनं, परिपूर्न गुरुरात्रिंदिवपंचकं एवं दसत्ति लघुरात्रिंदिवदशकं गुरुरात्रिदिवदशकं पन्नरसत्ति लघुरात्रिदिवपंचदशकं गुरुरात्रिंदिवपंचदशकं, पनवीसत्ति लघुरात्रिंदिवपंचविंशतिकं गुरुरात्रिंदिवपंचविंशतिकं । मासो लहओ गुरुओति लघुमासो गुरुमासाः । चत्वारो लघुमासाश्चत्वारो गुरुमासा, षण्मासा लघवः षण्मासा गुरवः, तथा छेदः कतिपयपर्यायस्य, मूलं सर्वपर्यायोच्छेदेन व्रतारोपणं, तहदुगवत्ति अनवस्थाप्यं पारांचितंच; इह पारांचितप्रायश्चित्तवर्त्ती प्रायो जिनकल्पिकप्रतिरुपको वर्त्तते उक्तं च पारंचिउएगागीइच्चादि, जिनकप्पियपडिरुवगी इति अनवस्थाप्यप्रायश्चित्तवर्त्यप्येवं गुणः । संघयणविरिय आगम सुत्तविही एजो समुजत्तो निगाहजुत्तो तवस्सी, पवयणसारे गहियअत्थो ।। तिलतुसतिभागमित्तोवि जस्स असुभो न विज्जए, भावो; निज्जूहणारिहो सो, से से निज्जूहण नत्थिः । । एयगुणसंपन्नो पावइ अनवट्ठाणमुत्तमगुणो हो, एय गुण विप्पहीणो-तारिसंगभीरे भवे मूलं ।। एतौ चैकांतती निरपेक्षौ, सापेक्षाणां त्वयं प्रायश्चित्तदानविधिः कथयितुमुपक्रांतस्ततो मूलादारभ्य Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003325
Book TitleAgam Suttani Satikam Part 21 Vyavahara
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages482
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_vyavahara
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy