SearchBrowseAboutContactDonate
Page Preview
Page 55
Loading...
Download File
Download File
Page Text
________________ व्यवहार - छेदसूत्रम्-१सुभिक्खंमि दुभिक्खे हटण तहा गिलाणेणं ।। वृ- द्रव्यविषया प्रतिकुंचना नाम सचित्ते उपलक्षणमेतत् मिश्रे वा प्रतिसेविते अचित्तं मया प्रतिसेवितमित्यालोचयति, क्षेत्रप्रतिकुंचना जनपदे प्रतिसेव्य यदध्वनि प्रतिसेवितमित्यालोचयति, कालप्रतिकुंचना यत्सुभिक्षेकाले सेवित्वादुर्भिक्षे मया प्रतिसेवितमित्यावेदयति, भावप्रतिकुंचना यत् हृष्टेन सता ग्लानेन सता मया प्रतिसेवितमित्यालोचयति उक्ता प्रतिकुंचना अधुना अनंतरगाथोत्तरार्धं व्याख्यानयन् अज्झयणाण विसेसो इतिद्वारंव्याख्यानयति तत्रचोयग इत्यवयवं व्याचिख्यासुराह - [भा.१५१] कप्पंमिविपच्छित्तंववहारंमिवि तहेवपच्छित्तं । कप्पववहाराणंको नु विसेसोत्तिचोएइ ।। ... वृ-ननुकल्पे प्रायश्चित्तमुक्तं, व्यवहारेपितदेव प्रायश्चित्तमभिधीयतेततः कल्पव्यवहारयोःकोनु विशेषो नैव कश्चनापीतिभावः न तुशब्दस्याक्षेपद्योतकत्वादिति चोदयति । प्रश्नयति शिष्यः । अपि चाभिधानतोपिकल्पव्यवहारयोर्विशषानुपपत्तिः तथाचाह - [भा.१५२] जो अवितहववहारी सो नियमा वट्टए उकप्पंमि । इय बिहुनस्थि विसेसो अज्झयणाणंदुवेण्हपि ।। वृ- यो नाम साधुरवितथव्यवहारी स नियमादवश्यंभावेन वर्त्तते एव तुरेवकारार्थः कल्प आचारे आचारवर्तिन एव यथोक्तावितथव्यवहारकारित्वात् । यश्चवर्त्तते कल्पे आचारस नियमादवितथव्यवहारकारी तथाहि कल्पोव्यवहार आचार इत्यनांतरमितिइयबिहुइत्यपिएवमपिअर्थगत्याभिधानाभेदतोपिआस्तांप्रागुक्तप्रकारेणाभिधेयाभेदइत्यपिशब्दार्थः हुनिश्चितंद्वयोरपिकल्पव्यवहारयोरध्ययनयोनास्ति विशेषः एवं परेणाभिधेयाभेदतोऽभिधानाभेदतश्चैक्ये प्रतिपादिते सूरिभिधेयभेदं दर्शयन कप्पारोवणेत्ति अवयवं व्याख्यानयति । [भा.१५३] कप्पंमि कप्पियाखलु मूलगुणेचेव चउत्तरगुणे य; ववहारेववहरिय । पायच्छित्ताभवंतेय ।। वृ- कल्पे कल्पाध्ययने कल्पितान्येव प्ररुपितान्येव खलु शब्दस्यैवकारार्थत्वात् नतु दानव्यवहारे प्रवर्तितानि कानीत्यत आह मूलगुणा चेव उत्तरगुणा य इति विषयेण विषयिणो लक्षणात् मूलगुणापराधप्रायश्चित्तानि उत्तरगुणापराधप्रायश्चित्तानि । व्यवहारे व्यवहाराध्ययने पुनर्व्यवहृतानि दानव्यवहारविषयीकृतानि किमुक्तं भवति कल्पाध्ययने मूलगुणापराधे वा आभवंति प्रायश्चित्तान्युक्तानि अस्मिंस्तु व्यवहाराध्ययने तेषामाभवतां प्रायश्चित्तानां दानमुक्तमिति यानि च कल्पाध्ययने आभवंतिप्रायश्चित्तानि नोक्तानि तानि व्यवहारेभिधीयतेतेषांदानंच किंच - [भा.१५४] अविसेसियं च कप्पेइहइंतु विसेसियंइमं । चउहा पडिसेवणसंजोयण आरोवणकुंचियंचेव ।। वृ-चः समुच्चये अन्यच्चेत्यर्थः । कल्पे कल्पाध्ययने प्रायश्चित्तमविशेषितं विशेषरहितमुक्तं । इहइन्तुत्तिइः पादपूरणेसानुस्वारतापूर्ववत्तुः पुनरर्थेइहव्यवहाराध्ययनेपुनरिदंप्रायश्चितंचतुर्द्धाचतुर्भिः प्रकारैर्विशेषितं, तानेव प्रकारान्नाह । प्रतिसेवनं संयोजनमारोपणं कुंचनमिति प्रतिकुंचनं एतानि अनंतरमेव सप्रपंचंव्याख्यातानीतिनभूयो व्याख्यायंते तदेवभिधेयाभेदता नास्ति विशेष इति यदुक्तं तदसिद्धमितिप्रतिपादितमभिधेयभेदस्यदर्शित्वात् । यत्पुनरुच्यतेअभिधानाभेदतोनास्तिविशेष इति For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.003325
Book TitleAgam Suttani Satikam Part 21 Vyavahara
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages482
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_vyavahara
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy